32187: ञीतः क्तः¶
Padacheda: ञीतः | S | 5 | 1 |
क्तः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The verbal roots marked with an indicatory ञि , take the affix क्त , in denoting the present time.
Vasu English Translation¶
The verbal roots marked with an indicatory ञि , take the affix क्त , in denoting the present time. The Nishtha affix क्त, as a general rule, is a past participial affix and denotes past time; and is so ordained by rule (III 2.102). The present sutra thus makes an exception in case of those verbs which are marked with an indicatory ञि in the Dhatupatha; as ञिमिदा ‘to be affectionately inclined’; मिन्नः (मिद् + क्त = मिङ् + त = मिन् + न (8.2.42) ‘being affectionately inclined’. So ञिक्षिवदा — क्ष्विणः ‘sounding inarticulately’; ञिधृषा — धृष्टः ‘bold’. The anuvritti of वर्तमाने ‘in the sense of the present’, is read into this sutra from (3.2.123).
Kashika¶
ञि इद् यस्यासौ ञीत्। ञीतो धातोर्वर्तमानेऽर्थे क्तप्रत्ययो भवति। भूते निष्ठा विहिता वर्तमाने न प्राप्नोतीति विधीयते। ञिमिदा स्नेहने — मिन्नः। ञिक्ष्विदा — क्ष्विण्णः। ञिधृषा — धृष्टः॥
Siddhanta Kaumudi¶
ञिक्ष्विदा । क्ष्विण्णः । ञि इन्धी । इद्धः ॥
Balamanorama¶
ञीतः क्तः - ञीतः क्तः । ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः ।तयोरेव कृत्युक्ते॑ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः । क्ष्विण्ण इति ।आदिश्चे॑ति नेट् । इद्ध इति । श्वीदितः॑ इति नेट् ।
Tattvabodhini¶
ञीतः क्तः - क्ष्विण्ण इति ।आदितश्चे॑ति नेट् । इद्ध इति ।श्वीदितः॑ इति नेट् । नलोपः ।
Padamanjari¶
ञीतः क्तः॥ भूते निष्ठा विहितेत्यादि। तत्र येननाप्राप्तिन्यायेन क्तस्यैव वर्तमानविषयतया भूतविषयता बाध्यते, यथा -‘वडवाया वृषे वाच्ये’ इत्यत्र वक्ष्यते - अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयत इति। एवमुतरविहितस्यापि। ज्ञातमित्येततु भूतेऽपि भवति, तेनेत्यधिकारे उपज्ञात इति तद्धितविधानात्। वर्तमाने हि’क्तस्य च वर्तमाने’ इति षष्ठ।ल भाव्यम्। एवं च’पूजितो यः सुरैरपि’ इत्यादीनां साधुत्वं चिन्त्यम्॥
Nyaas¶
मिन्न इति। आदितश्च (7.2.16) इतीट्प्रतिषेधः। रदाभ्याम् (8.2.42) इति नत्वम्। एवं क्ष्विण्णः इत्यात्रापि। अट्कुप्वाङ (8.4.2) इत्यादिना णत्वम्। धृष्टः इति। धुपिशसी वैयात्ये (7.2.19) इतीट्प्रतिषेधः, ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्॥
Prakriyasarvasvam¶
ञीद्वचो धातुभ्यो वर्तमान एव क्तः स्यात् । ‘ञिभी भये’ । भीतः ॥