32187: ञीतः क्तः ================ **Padacheda:** ञीतः | S | 5 | 1 | क्तः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The verbal roots marked with an indicatory ञि , take the affix क्त , in denoting the present time. Vasu English Translation ------------------------ The verbal roots marked with an indicatory ञि , take the affix क्त , in denoting the present time. The *Nishtha* affix क्त, as a general rule, is a past participial affix and denotes past time; and is so ordained by rule (III 2.102). The present *sutra* thus makes an exception in case of those verbs which are marked with an indicatory ञि in the *Dhatupatha*; as ञिमिदा 'to be affectionately inclined'; मिन्नः (मिद् + क्त = मिङ् + त = मिन् + न (8.2.42) 'being affectionately inclined'. So ञिक्षिवदा — क्ष्विणः 'sounding inarticulately'; ञिधृषा — धृष्टः 'bold'. The *anuvritti* of वर्तमाने 'in the sense of the present', is read into this *sutra* from (3.2.123). Kashika ------- ञि इद् यस्यासौ ञीत्। ञीतो धातोर्वर्तमानेऽर्थे क्तप्रत्ययो भवति। भूते निष्ठा विहिता वर्तमाने न प्राप्नोतीति विधीयते। **ञिमिदा स्नेहने** — मिन्नः। ञिक्ष्विदा — क्ष्विण्णः। ञिधृषा — धृष्टः॥ Siddhanta Kaumudi ----------------- ञिक्ष्विदा । क्ष्विण्णः । ञि इन्धी । इद्धः ॥ Balamanorama ------------ **ञीतः क्तः** - ञीतः क्तः । ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः ।तयोरेव कृत्युक्ते॑ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः । क्ष्विण्ण इति ।आदिश्चे॑ति नेट् । इद्ध इति । श्वीदितः॑ इति नेट् । Tattvabodhini ------------- **ञीतः क्तः** - क्ष्विण्ण इति ।आदितश्चे॑ति नेट् । इद्ध इति ।श्वीदितः॑ इति नेट् । नलोपः । Padamanjari ----------- ञीतः क्तः॥ भूते निष्ठा विहितेत्यादि। तत्र येननाप्राप्तिन्यायेन क्तस्यैव वर्तमानविषयतया भूतविषयता बाध्यते, यथा -'वडवाया वृषे वाच्ये' इत्यत्र वक्ष्यते - अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयत इति। एवमुतरविहितस्यापि। ज्ञातमित्येततु भूतेऽपि भवति, तेनेत्यधिकारे उपज्ञात इति तद्धितविधानात्। वर्तमाने हि'क्तस्य च वर्तमाने' इति षष्ठ।ल भाव्यम्। एवं च'पूजितो यः सुरैरपि' इत्यादीनां साधुत्वं चिन्त्यम्॥ Nyaas ----- `मिन्न` इति। **आदितश्च** (7.2.16) इतीट्प्रतिषेधः। `रदाभ्याम्` (8.2.42) इति नत्वम्। एवं `क्ष्विण्णः` इत्यात्रापि। `अट्कुप्वाङ` (8.4.2) इत्यादिना णत्वम्। `धृष्टः` इति। `धुपिशसी वैयात्ये` (7.2.19) इतीट्प्रतिषेधः, **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्॥ Prakriyasarvasvam ----------------- ञीद्वचो धातुभ्यो वर्तमान एव क्तः स्यात् । 'ञिभी भये' । भीतः ॥