32181: धः कर्मणि ष्ट्रन्¶
Padacheda: धः | S | 6 | 1 |
कर्मणि | S | 7 | 1 |
ष्ट्रन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ष्ट्रन् comes, in denoting the object after the verb धा ‘to feed’.
Vasu English Translation¶
The affix ष्ट्रन् comes, in denoting the object after the verb धा ‘to feed’. The indicatory ष denotes that the feminine is formed by ङीप् (ई) affix. As धात्री ‘a nurse whom the children suck (dhayanti)’; and ‘Amalaki fruit which holds (dadhati) all medicinal properties’.
Kashika¶
धयतेर्दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययो भवति। षकारो ङीषर्थः। धयन्ति तां दधति वा भैषज्यार्थमिति धात्री। स्तनदायिनी आमलकी चोच्यते॥
Siddhanta Kaumudi¶
धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥
Balamanorama¶
धः कर्मणि ष्ट्रन् - धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम् । तदाह — धेट इत्यादि । षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः । तदाह — धात्रीत्यादि ।
Tattvabodhini¶
धः कर्मणि ष्ट्रन् - धः कर्मणि । कर्मणीति नोपपदम्,ह्वावामश्चे॑त्यनन्तरमेवधः ष्ट्र॑न्निति वक्तव्ये पृथक्कर्मग्रहणाद्व्याख्यानाद्वेत्याशयेनाह — कर्मण्यर्थे इति । अत एव धीयते पीयत इति धात्री = स्तनदायिनीत्यादि व्याचक्षते ।
Padamanjari¶
धः कर्मणि ष्ट्रन्॥ कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात्’कर्मण्यण्’ इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोतरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः’कर्मणि’ इति प्रत्ययार्थ एव, नोपपदम्॥
Nyaas¶
धयतेः इति। धेट् पाने (धातुपाठः-९०२)। दधातेः इति। डुधाञ् धारणपोषणयोः (धातुपाठः-१०९२)। कर्मणि कारके इति। एतेन कर्मणः प्रत्ययार्थतां दर्शयन्नुपपदत्वमपाकरोति। यदि हि कर्मण उपपदत्वं स्यात् कर्मण्यण् ३.२.१ इत्यस्मिन्नेव प्रकरणे विदध्यात्। एवं हि द्विः कर्मग्रहणं न कर्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्रहणं न कर्तव्यं भवति, तदाप्युत्तरसूत्रेण ष्ट्रन्ग्रहणं कर्तव्यं जायते? जायतां नाम, लघीयो हि कर्मग्रहणात् ष्ट्रन्ग्रहणम्। नन्विह वर्तमान इत्यनुवृत्तेर्वर्तमानप्रत्ययो भवति, तत्र तु क्रियमाणे नैतल्लभ्यते? नैतदस्ति; इहापि क्रियमाणे नैव वर्तमाने प्रत्ययो भवति। न हि धात्रीत्युक्ते काप्यविशेषा प्रतीयते, किं तर्हि? क्रियाकारकसम्बन्धमात्रविशिष्टा स्त्री प्रतीयते - आमलकी च दधति तां भैषज्यार्थमिति कृत्वा। तस्मात् कर्मणि इति प्रत्ययार्थं एव, नोपपदम्॥
Prakriyasarvasvam¶
धेटो धाञोऽपि कर्मार्थे ष्ट्रन् स्यात् । षे लुप्ते ष्टुत्वनाशात् त्र इति प्रत्ययः । धेट आत्वम् । षित्त्वान् ङीष् । <karika>तत्र बाला धयन्त्येनामिति धात्र्युपमातरि । भैषज्यार्थं दधत्येनामिति स्यादामलक्यपि ॥ १३५ ॥</karika>
Sutra Prayogas¶
जन-मता (भट्टिकाव्यम्): मति-बुद्धि इत्यादिना क्तप्रत्ययः।