32181: धः कर्मणि ष्ट्रन् ======================== **Padacheda:** धः | S | 6 | 1 | कर्मणि | S | 7 | 1 | ष्ट्रन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ष्ट्रन् comes, in denoting the object after the verb धा 'to feed'. Vasu English Translation ------------------------ The affix ष्ट्रन् comes, in denoting the object after the verb धा 'to feed'. The indicatory ष denotes that the feminine is formed by ङीप् (ई) affix. As धात्री 'a nurse whom the children suck (*dhayanti*)'; and '*Amalaki* fruit which holds (*dadhati*) all medicinal properties'. Kashika ------- धयतेर्दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययो भवति। षकारो ङीषर्थः। धयन्ति तां दधति वा भैषज्यार्थमिति धात्री। स्तनदायिनी आमलकी चोच्यते॥ Siddhanta Kaumudi ----------------- धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ Balamanorama ------------ **धः कर्मणि ष्ट्रन्** - धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम् । तदाह — धेट इत्यादि । षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः । तदाह — धात्रीत्यादि । Tattvabodhini ------------- **धः कर्मणि ष्ट्रन्** - धः कर्मणि । कर्मणीति नोपपदम्,ह्वावामश्चे॑त्यनन्तरमेवधः ष्ट्र॑न्निति वक्तव्ये पृथक्कर्मग्रहणाद्व्याख्यानाद्वेत्याशयेनाह — कर्मण्यर्थे इति । अत एव धीयते पीयत इति धात्री = स्तनदायिनीत्यादि व्याचक्षते । Padamanjari ----------- धः कर्मणि ष्ट्रन्॥ कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात्'कर्मण्यण्' इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोतरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः'कर्मणि' इति प्रत्ययार्थ एव, नोपपदम्॥ Nyaas ----- `धयतेः` इति। `धेट् पाने` (धातुपाठः-९०२)। `दधातेः` इति। `डुधाञ् धारणपोषणयोः` (धातुपाठः-१०९२)। `कर्मणि कारके` इति। एतेन कर्मणः प्रत्ययार्थतां दर्शयन्नुपपदत्वमपाकरोति। यदि हि कर्मण उपपदत्वं स्यात् कर्मण्यण् ३.२.१ इत्यस्मिन्नेव प्रकरणे विदध्यात्। एवं हि द्विः कर्मग्रहणं न कर्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्रहणं न कर्तव्यं भवति, तदाप्युत्तरसूत्रेण ष्ट्रन्ग्रहणं कर्तव्यं जायते? जायतां नाम, लघीयो हि कर्मग्रहणात् ष्ट्रन्ग्रहणम्। नन्विह वर्तमान इत्यनुवृत्तेर्वर्तमानप्रत्ययो भवति, तत्र तु क्रियमाणे नैतल्लभ्यते? नैतदस्ति; इहापि क्रियमाणे नैव वर्तमाने प्रत्ययो भवति। न हि धात्रीत्युक्ते काप्यविशेषा प्रतीयते, किं तर्हि? क्रियाकारकसम्बन्धमात्रविशिष्टा स्त्री प्रतीयते - आमलकी च दधति तां भैषज्यार्थमिति कृत्वा। तस्मात् `कर्मणि` इति प्रत्ययार्थं एव, नोपपदम्॥ Prakriyasarvasvam ----------------- धेटो धाञोऽपि कर्मार्थे ष्ट्रन् स्यात् । षे लुप्ते ष्टुत्वनाशात् त्र इति प्रत्ययः । धेट आत्वम् । षित्त्वान् ङीष् । तत्र बाला धयन्त्येनामिति धात्र्युपमातरि । भैषज्यार्थं दधत्येनामिति स्यादामलक्यपि ॥ १३५ ॥ Sutra Prayogas -------------- * **जन-मता** (भट्टिकाव्यम्): `मति-बुद्धि` इत्यादिना क्तप्रत्ययः।