32133: अर्हः प्रशंसायाम्¶
Padacheda: अर्हः | S | 5 | 1 |
प्रशंसायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix शतृ comes after the verb अर्ह in expressing praise.
Vasu English Translation¶
The affix शतृ comes after the verb अर्ह in expressing praise. As अर्हन्निह भवान्विद्याम् ‘thou art worthy of this knowledge here’; अर्हन्निह भवान्पूजाम् ‘thou art worthy of honor in this place’.
Why do we say ‘when meaning to praise’ ? Witness अर्हति चौरो वधम् ‘the thief deserves death’.
Kashika¶
प्रशंसा स्तुतिः। अर्हतेर्धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायामिति किम्? अर्हति चौरो वधम्॥
Siddhanta Kaumudi¶
अर्हन् ॥
Balamanorama¶
अर्हः पूजायाम् - अर्हः प्रशंसायाम् । अर्ह इति पञ्चमी । ‘शतृप्रत्यय’ इति शेषः । अर्हन्निति । पूजां प्राप्तुं योग्य इत्यर्थः । अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते ।
Tattvabodhini¶
अर्हः पूजायाम् - अर्हः । प्रशंसायां किम् । अर्हति चौरो वधम् ।
Padamanjari¶
अर्हः प्रसंसायाम्॥ अर्हति चौरो वधमिति।’लटः शतृशानचौ’ इत्यनेनापि न भवति, प्रथमासमानाधिकरणत्वात्। अस्तु वा ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातः॥
Prakriyasarvasvam¶
शतृ स्यात् । जामर्हन् द्विजः । अप्रशस्ते तु वधमर्हति चोरः ॥
Sutra Prayogas¶
अर्हते (रघुवंशम्): अर्हः प्रशंसायाम् इति शतृप्रत्ययः।