32132: सुञो यज्ञसंयोगे

Padacheda: सुञः | S | 5 | 1 |

यज्ञसंयोगे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix शतृ comes after the verb सु ‘to press out or extract juice’ when the sense is that of association with sacrifice.

Vasu English Translation

The affix शतृ comes after the verb सु ‘to press out or extract juice’ when the sense is that of association with sacrifice. The word यज्ञसंयोग is an instrumental compound, meaning association or connection (संयोग) with sacrifice. As सु + नु + शतृ (3.1.76), (3.4.113) = सुनु+ अत् (1.2.4) = सुन्वत् (6.1.77), Ist. sing. सुन्वन्, Ist. pl. सुन्वन्तः ‘the sacrificers’; as in सर्वे सुन्वन्तः ‘all are interested in, or partake of, or share in the sacrifice’.

The word संयोग indicates that the principal sacrificer. i.e. the यजमान is meant and not every person who is associated in the performance of a sacrifice in a subordinate capacity; such as याजकाः ‘the sacrificing priests’.

When connection with sacrifice is not meant we have the सुनोति सुराम् ‘he distils liquor’.

Kashika

यज्ञेन संयोगो यज्ञसंयोगः। यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेर्धातोः शतृप्रत्ययो भवति। सर्वे सुन्वन्तः। सर्वे यजमानाः सत्रिण उच्यन्ते। संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम्। याजकेषु मा भूत्। यज्ञसंयोग इति किम्? सुनोति सुराम्॥

Siddhanta Kaumudi

सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥

Balamanorama

सुञो यज्ञसंयोगे - सुञो यज्ञ । यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह — सर्वे सुन्वन्त इति ।

Tattvabodhini

सुञो यज्ञसंयोगे - सुञो यज्ञसंयोगे । सुनोतेः शतृप्रत्ययः स्याद्यज्ञेन संयुज्यमाने वृत्तिश्चेत् । नन्विहसुञो यज्ञे॑ इत्येवास्तु, यज्ञविषयकश्चेत्सुनोत्यर्थ इति व्याख्यायां सुरां सुनोतीत्यादेव्र्यावर्तयितुं शक्यत्वात् । अत्राहुः — संयोगग्रहणं प्रधानकर्तृसंप्रत्ययार्थं,तेन यजानादन्यत्र न भवतीति । एवं चाऽप्रधाने कर्तरिलटः शतृशानचौ॑ इत्यनेनाऽपि न भवति, संयोगग्रहणसामर्थ्यादिति हरदत्तः ।यः सुन्वन्तमवती॑त्यादीनामेकवचनान्तानां यजमानपरत्वसंभवेऽपि बहुवचनान्तानां तु न संभवति, एकस्मिन्यागे एकस्यैव यजमानत्वादित्याशङ्क्य यागविशेषे तु संभवतीति दर्शयितुमुदाहरति — सर्वे सुन्वन्त इत्यादि । सत्रयागे हि बहवो यजमानास्त एवं ऋत्विजां कर्म सोमाभिषवनं कुर्वन्तीतिसुन्वन्त॑ इत्यादिबहुवचनान्तस्यापि यजगानपरत्वं संभवतीति भावः ।

Padamanjari

सुञो यज्ञयंयोगे॥ कर्मसाधनस्संयोगशब्द इत्याद - यज्ञसंयुक्तेऽभिषव इति। सर्वे सुन्वन्त इति। प्रयोगः। तस्य विषयमाह - सर्वे यजमानास्सत्रिण उच्यन्ते इति। सूत्रेषु हि ये यजमानास्ते ऋत्विज इति सर्वे प्रधानकर्तारः। इह’सुञो यज्ञे’ इत्येव सिद्धम्, यज्ञविषयश्चेत्सुनोत्यर्थो भवतीत्यर्थः, तत्किं संयोगग्रहणेन? तत्राह - संयोगग्रहणमिति।’लटः शतृशानचौ’ इत्यनेनाप्यप्रधाने कर्तरि न भवति, संयोगग्रहणसामर्थ्यात्प्रधानकर्ताउअधिकारी॥

Nyaas

यज्ञसंयोगः इति। कर्मसाधनः संयोगशब्दः। अत एव वृत्तावाह - यज्ञसंयुक्तेऽभिषवे इति। संयुक्तः = सम्बद्धः, यज्ञेन संयुक्तो यज्ञसंयुक्तः। कदा चाभिषवो यज्ञसंयुक्तो भवति? यदा यज्ञाङ्गं भवति। सुन्वन्तः इत्यादि। स्वादिभ्यः श्नुः (3.1.73) । सर्वे यजमानाः इति। सुन्वन्त इत्यनेन यजमानाः सत्त्रिणो यज्ञस्य ये स्वामिनस्तेऽभिधीयन्ते, न तु याज्ञिका इति दर्शयति। कथं पुनरेषोऽर्थो लभ्यते, यावता यथाभिषवस्य यजमानाः, कर्तारस्तथा याजका अपीत्याह - संयोगग्रहणम् इत्यादि। इह सुञोयज्ञे इत्येतद्वेदितव्यम्, एवमपि ह्रुच्यमाने यज्ञसंयुक्तताभिषवस्य लभ्यत एव; यज्ञविषयश्चैष सुनोत्यर्थो भवतीत्यर्थस्य प्रतिपत्तेः, तस्मात् संयोगग्रहणमिति न कर्तव्यमेतत्? क्रियते प्रधानकर्त्तृप्रतिपत्त्यर्थम्। यागस्य ये कर्तारो भूत्वा फलं प्राप्नुवन्तः सुन्वन्तस्ते प्रधानकर्तारः, ते पुनर्यजमानाः,न याजकाः॥

Prakriyasarvasvam

सुञोऽस्मिन् द्योत्ये शतृ स्यात् । ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति शब्विषये श्नुः । श्नोरपि शित्त्वेन ङित्त्वाद् धातोरगुणः । सुनु अत् । शतुर्डित्त्वेन श्नोर्गुणाभावात् ‘अचि श्नु—’ (६-४-७७) इत्युवङि प्राप्ते ॥