32127: तौ सत्

Padacheda: तौ | S | 1 | 2 |

सत् | S | 1 | 1 |

Sutrartha


Vasu English Summary

These two - शतृ and शानच् are called सत्.

Vasu English Translation

These two - शतृ and शानच् are called सत्. These participial affixes get collectively this name; and as such they are not limited by the conditions enumerated above; so that they replace not only the affixes of the Present tense but sometimes of Future also (3.3.14), as well as other tenses. Thus ब्राह्मणस्य कुर्वन्, करिष्यन्, कुर्वाणः, करिष्यमाणः ।

The word सत् occurs in sutra (2.2.11) &c.

Bhashya

तौ सत् (894) (522 सत्संज्ञासूत्रम्॥ 3 । 2 । 3 आ.) (आक्षेपभाष्यम्) तौग्रहणं किमर्थम्?। (प्रयोजनभाष्यम्) शतृशानचौ प्रतिनिर्दिश्येते॥ (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। प्रकृतौ शतृशानचावनुवर्तिष्यते। क्व प्रकृतौ?। लटः शतृशानचावप्रथमासमानाधिकरणे इति। (समाधानभाष्यम्) अत उत्तरं पठति। (3049 समाधानवार्तिकम्॥ 1 ॥) - तौ सदिति वचनमसंसर्गार्थम्- (भाष्यम्) तौ ग्रहणं क्रियते। (किमर्थम्?।) असंसर्गार्थम्। असंसक्तयोरेतैर्विशेषैः शतृशानचोः सत्संज्ञा यथा स्यादिति॥ (आक्षेपभाष्यम्) ननु चैते विशेषा निवर्तन्ते। (समाधानभाष्यम्) यद्यप्येते विशेषा निवर्तन्ते। अयं तु खलु वर्तमानः कालोऽवश्यमुत्तरार्थोनुर्वत्यः। तस्मिन्ननुवर्तमाने वर्तमानकालविहितयोरेव शतृशानचोः सत्संज्ञा स्यात्। भूतभविष्यत्कालविहितयोर्न स्यात्॥ (आक्षेपभाष्यम्) किं पुनर्भूतभविष्यत्कालविहितयोः सत्संज्ञावचने प्रयोजनम्?। (3042 वार्तिकम्॥ 2 ॥) - प्रयोजनं पूरणगुणसुहितार्थसदिति- (भाष्यम्) ब्राह्मणस्य पक्ष्यन्। ब्राह्मणस्य पक्ष्यमाणः॥ (आक्षेपभाष्यम्) अथ क्रियमाणेपि तौग्रहणे कथमेवासंसक्तयोरेतैर्विशेषैः सत्संज्ञा लभ्या?। (समाधानभाष्यम्) लभ्येत्याह। कथम्?। ताविति शब्दतः। सद् इति योगे क्रियमाणे तौ ग्रहणं योगाङ्गमुपजायते। सति च योगाङ्गे योगविभागः करिष्यते। तौ तावेतौ शतृशानचौ धातुमात्रात्परस्य प्रत्ययस्य भवतः। ततः सत्। सत्संज्ञौ भवतः शतृशानचाविति॥ (आक्षेपभाष्यम्) इहापि तर्हि प्राप्नुतः कारको हारक इति। (3043 वार्तिकम्॥ 3 ॥) - अवधारणं लृटि विधानम्- (भाष्यम्) लृटः सद्वेत्येतन्नियमार्थं भविष्यति। लृट एव धातुमात्रात्परस्य नान्यस्येति॥ (नियमार्थत्वानुपपत्तिभाष्यम्) कैमर्थक्यान्नियमो भवति। विधेयं नास्तीति कृत्वा। इह चास्ति विधेयम्॥ किम्?। नित्यौ शतृशानचौ प्राप्तौ तौ विभाषाविधेयौ। तत्रापूर्वो विधिरस्तु नियमोस्त्विति अपूर्व एव विधिः स्यान्न नियमः॥ (3044 नियमार्थत्वोपपत्तिवार्तिकम्॥ 4 ॥) - योगविभागतश्च विहितं सत्- (भाष्यम्) एवं तर्हि योगविभागः करिष्यते - लृटः सत्। लृटः सत्संज्ञकौ भवतः। किमर्थमिदम्?। नियमार्थम्। लृट एव धातुमात्रात्परस्य नान्यस्येति॥ ततो वा। वा च लृटः शतृशानचौ सत्संज्ञौ भवतः॥ तत्रायमप्यर्थः - सद्विधिर्नित्यमप्रथमासमानाधिकर णे इति वक्ष्यति, तन्न वक्तव्यं भवति॥ (आक्षेपभाष्यम्) अथ यावेतावुत्तरौ शत्रानौ किमेतौ लादेशौ, आहोस्विदलादेशौ। (प्रत्याक्षेपभाष्यम्) कश्चात्र विशेषः?॥ (3045 लादेशपक्षे दूषणवार्तिकम्॥ 5 ॥) - उत्तरयोर्लादेशे वावचनम्- (भाष्यम्) उत्तरयोर्लादेशे वावचनं कर्तव्यम्। पचमानः यजमानः। पचते यजत इत्यपि यथा स्यात्॥ (3046 दूषणान्तरवार्तिकम्॥ 6 ॥) - साधनाभिधानं च- (भाष्यम्) साधनाभिधानं च प्राप्नोति लः कर्मणि च भावे चाकर्मकेभ्य इति भावकर्मणोरपि प्राप्नुतः॥ (3047 दूषणवार्तिकम्॥ 7 ॥) - स्वरः- (भाष्यम्) स्वरश्च साध्यः । कतीह पचमानाः। अदुपदेशाल्लसार्वधातुकमनुदात्तं भवती त्येष स्वरः प्राप्नोति॥ (3048 दूषणवार्तिकम्॥ 8 ॥) - उपग्रहप्रतिषेधश्च- (भाष्यम्) उपग्रहस्य च प्रतिषेधो वक्तव्यः। कतीह निघ्नानाः तङानावात्मनेपदम् इत्यात्मनेपदसंज्ञा प्राप्नोति॥ (अलादेशपक्षाङ्गीकारभाष्यम्) स्तां तर्हि अलादेशौ। (3049 दूषणवार्तिकम्॥ 9 ॥) - अलादेशे षष्ठीप्रतिषेधः- (भाष्यम्) अलादेशे षष्ठीप्रतिषेधो वक्तव्यः सोमं पवमानः। नडमाघ्रानः। अधीयन्पारायणम्। लप्रयोगे नेति प्रतिषेधो न प्राप्नोति॥ (दूषणवारणभाष्यम्) मा भूदेवम् तृन्नित्येवं भविष्यति। कथम्?। तृन्निति नेदं प्रत्ययग्रहणम् किं तर्हि?॥ प्रत्याहारग्रहणम्॥ (प्रश्नभाष्यम्) क्व संनिविष्टानां प्रत्याहारः?। (समाधानभाष्यम्) लटः शतृ इत्यत आरभ्यातृनो नकारात्। (दूषणभाष्यम्) यदि प्रत्याहारग्रहणं चोरस्य द्विषन् वृषलस्य द्विषन् अत्रापि प्राप्नोति॥ (3050 समाधानवार्तिकम्॥ 10 ॥) - द्विषः शतुर्वावचनम्- (भाष्यम्) द्विषः शतुर्वेति वक्तव्यम्। तच्चावश्यं वक्तव्यम्। प्रत्ययग्रहणे सति प्रतिषेधार्थम्। तदेव प्रत्याहारग्रहणे सति विध्यर्थं भविष्यतीति॥ तौ सत्॥ 127 ॥

Kashika

तौ शतृशानचौ सत्संज्ञौ भवतः। तौग्रहणमुपाध्यसंसर्गार्थम्। शतृशानज्मात्रस्य संज्ञा भवति। ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। ब्राह्मणस्य करिष्यन्। ब्राह्मणस्य करिष्यमाणः। सत्प्रदेशाः — **पूरणगुणसुहितार्थसदव्ययतव्य०**(२.२.११) इत्येवमादयः॥

Siddhanta Kaumudi

तौ शतृशानचौ सत्संज्ञौ स्तः ॥

Laghu Siddhanta Kaumudi

तौ शतृशानचौ सत्संज्ञौ स्तः॥

Balamanorama

तौ सत् - तौ सत् । ‘लटः शतृशानचौ’ इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति । तदाह — तौ शतृशानचाविति ।

Padamanjari

तौ सत्॥ तौग्रहणं किमर्थम्, संज्ञाविधिर्यथा स्यात् सदित्यस्य प्रत्ययस्य विधिर्मा भूदिति? नैतदस्ति प्रयोजनम्, पूर्वसूत्रे शतृशानचौ स्वरयिष्येते, तत्सामर्थ्यातयोरनुवृतयोः संज्ञैव भविष्यति, तत्राह - तौग्रहणमुपाध्यसंसर्गार्थमिति। लट्स्थानिकत्वाद् वर्तमानकालविहितत्वं चोपाधिः, तेनोपाधिनाऽसंबन्धार्थः, तौग्रहणमित्यर्थः, किं सिद्धमित्याह - शतृशानज्मात्रस्येति। असति तौग्रहणे याद्दशौ शतृशानचौप्रकृतौ लट्स्थानिकौ वर्तमानकालौ च ताद्दशयोरेव संज्ञा स्यात्, ततश्च लृडादेशयोर्न स्यात्।’लृटस्सद्वा’ इत्येततु वचनं सत्संज्ञकप्रतिरूपयोर्विधानार्थ स्यात्, यथा - अमी पिष्टपिण्डाः सिंहाः क्रियन्तामिति तदाकाराः क्रियन्ते। विहितयोस्तूतरकालं संज्ञा न सिध्यति, ततश्च ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाण इति समासप्रतिषेधो न स्यात्; तस्यां दशायां सत्संज्ञाया अभावात्। एवं भूतकालयोरपि न स्यात्।’वर्तमानसामीप्ये वर्तमानवद्वा’ इति वचनाद्भूतेऽपि शतृशानचौ भवतः। एवं तत्रापि वर्तमानवदित्यतिदेशेन विधानमेव तयोर्भूते सिद्ध्यति, न तु संज्ञा। प्रत्ययाधिकाराद्वि प्रत्यय एवातिदिश्यते, न सज्ञा। तथा’ननौ पृष्टप्रतिवचने’ इत्यपि लटः शतृशानचौ भवत इत्युक्तम्, तयोरपि संज्ञा न भवेत्, तौग्रहणे सति तयोरपि संज्ञा भवति - ननु मां ब्राह्मणस्य कुर्वन्तम्पश्य ननु मां ब्राह्मणस्य कुर्वाणम्पश्येति। अथ क्रियमाणेऽपि तौग्रहणे कथमिव कालान्तरविहितयोः संज्ञा सिद्ध्यति, यावता प्रकृतस्यैव वस्तुनस्सर्वनाम्ना परामर्शः? सत्यम्; तौग्रहणसामर्थ्यातु विशेषणांशरित्यागेन शतृशषानचो रूपमात्रं परामृश्यते॥

Prakriyasarvasvam

शतृशानचौ सत्संज्ञौ ॥