32126: लक्षणहेत्वोः क्रियायाः

Padacheda: लक्षणहेत्वोः | S | 7 | 2 |

क्रियायाः | S | 6 | 1 |

Sutrartha


Vasu English Summary

The affixes शतृ and शानच् are substitutes of लट् (Present Tense) and come after a verb in expressing an attendant circumstance or characteristic and the cause of an action.

Vasu English Translation

The affixes शतृ and शानच् are substitutes of लट् (Present Tense) and come after a verb in expressing an attendant circumstance or characteristic and the cause of an action. The word लक्षण means that by which a thing is recognised or known i. e. an attribute; हेतु means producer or cause. Both these words are attributes of the word क्रिया. Of lakshana:- as, शयानाः भुञ्जते यवनाः ‘the Yavanas take their meals lying down’. तिष्ठन्तोऽनुशासति गणकाः । Of hetu :- as हरिं पश्यन् मुच्यते ‘by (reason of) seeing Hari, he gets absolution’; अधीयानो वसति ‘for the sake of study he dwells here’.

Why do we say ‘when denoting a characteristic or a cause’? Observe पचति ‘he cooks’; पठति ‘he reads’.

Why do we say ‘of the action’? Not so when the participle is the characteristic or cause of a substance or a quality. As यः कम्पते सोऽश्वत्थः ‘that which is shaking is the Aswattha’; यदुत्प्लवते तल्लभु ‘whatever floats is light’; यन्निषीदति तद्गुरु ‘that which sinks down is heavy’.

Vart:- This participle also defines the agent of an action as, योऽधीयान आस्ते स देवदत्तः ‘he is Devadatta who sits studying’.

Vart:- This participle is also used to state a general truth: as शयाना वर्धते दूर्वा ‘the Durva grass grows in a recumbent position’; आसीनं वर्धते बिसं ‘a lotus stalk grows in an upright position’. The compound लक्षणहेत्वोः of the sutra contradicts the rule by which a word of fewer syllables stands first (2.2.14). This shows that the rule (2.2.14) is not universal.

Bhashya

लक्षणहेत्वोः क्रियायाः (893) (521 शतृशानज्विधिसूत्रम् ॥ 3 । 2 । 3 आ. 2 ) (3035 वार्तिकम् ॥1 ॥) - लक्षणहेत्वोः क्रियायाः गुण उपसंख्यानम्- (भाष्यम्) लक्षणहेत्वोः क्रियाया गुण उपसंख्यानं कर्तव्यम्। तिष्ठन्मूत्रयति गच्छन्भक्षयतीति। (3036 शतृशानज्विधिवार्तिकम् ॥2 ॥) - कर्तुश्च लक्षणयोः पर्यायेणाच योगे- (भाष्यम्) कर्तुश्च लक्षणयोः पर्यायेणाचयोगउपसंख्यानं कर्तव्यम्। योधीयान आस्ते स देवदत्त इति। आसीनोधीते स देवदत्त इति ॥ (प्रश्नभाष्यम्) अचयोग इति किमर्थम्?। (प्रत्युदाहरणभाष्यम्) य आस्ते चाधीते च, स चैत्रः। (3037 शतृशानज्विधिवार्तिकम् ॥ 3 ॥) - तत्त्वाख्याने च- (भाष्यम्) तत्त्वाख्याने चोपसंख्यानं कर्तव्यम्। शयाना वर्धते दूर्वा, आसीनं वर्धते विसमिति ॥ (3038 विकल्पवार्तिकम् ॥ 4 ॥) - सदादयश्च बहुलम्- (भाष्यम्) सदादयश्च बहुलमिति वक्तव्यम्। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यते ब्राह्मण इति ॥ (3039 विकल्पवार्तिकम् ॥ 5 ॥) - इङ्जुहोत्योर्वावचनम्- (भाष्यम्) इङ्जुहोत्योर्वेति वक्तव्यम्। अधीते, अधीयानः। जुहोति, जुहुवत्। (3040 शतृशानज्विधिवार्तिकम् ॥ 6 ॥) - माङ्याक्रोशे- (भाष्यम्) माङ्याक्रोश इति वक्तव्यम्। मापचन्। मा पचमानः ॥ (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यम् ॥ (समाधानभाष्यम्) न वक्तव्यम्। लक्षणहेत्वोः क्रियायाः इत्येव सिद्धम्। इह तावत्तिष्ठन् मूत्रयतीति, तिष्ठतिक्रिया मूत्रयतिक्रियाया लक्षणम्। गच्छन्भक्षयतीति, गच्छतिक्रिया भक्षयतिक्रियाया लक्षणम्। योधीयान आस्ते स देवदत्त इति, अध्ययनक्रिया आसनक्रियाया लक्षणम्। य आसीनोधीते स देवदत्त इति आसिक्रियाऽध्ययनक्रियाया लक्षणम् ॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - अचयोग इति वक्ष्यामीति। इह मा भूत् - य आस्ते चाधीते च स चैत्र इति। (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। नैतत् क्रियालक्षणम्। किं तर्हि?। कर्तृलक्षणमेतत् - शयाना वर्धते दूर्वेति शेतिक्रिया वृद्धिक्रियाया लक्षणं भवति। आसीनं वर्धते विसमिति आसिक्रिया वृद्धिक्रियाया लक्षणमिति। सदादयश्च बहुलम् । इङ्जुहोत्योर्वा माङ्याक्रोश इत्येतद्वक्तव्यमेव ॥ लक्षणहेत्वोः ॥ 126 ॥

Kashika

लक्ष्यते चिह्न्यते येन तल्लक्षणम्। जनको हेतुः। धात्वर्थविशेषणं चैतत्। लक्षणे हेतौ चार्थे वर्तमानाद् धातोः परस्य लटः शतृशानचावादेशौ भवतः, तौ चेल्लक्षणहेतू क्रियाविषयौ भवतः। लक्षणे — शयाना भुञ्जते यवनाः। तिष्ठन्तोऽनुशासति गणकाः। हेतौ — अर्जयन् वसति। अधीयानो वसति। लक्षणहेत्वोरिति किम्? पचति। पठति। क्रियाया इति किम्? द्रव्यगुणयोर्मा भूत्। यः कम्पते सोऽश्वत्थः। यदुत्प्लवते तल्लघु। यन्निषीदति तद् गुरु। लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम्॥

Siddhanta Kaumudi

क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च । कृत्यचः (SK2835) । प्रपीयमाणः सोमः ॥

Balamanorama

लक्षणहेत्वोः क्रियायाः - लक्षणहेत्वोः । लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं = ज्ञापकम् । तदाह — क्रियायाः परिचायके इति । धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । कर्तैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति — अर्जयन्वसतीति । अर्जनाय वसतीत्यर्थः ।हेतावुदाहरणान्तरमाह — हरिं पश्यन्निति । हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः । ननु धनाद्यार्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह — हेतुः फलं कारणं चेति । इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुमिति भावः । प्रपीयमाण इति । अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह — कृत्यचेति ।

Tattvabodhini

लक्षणहेत्वोः क्रियायाः - लक्षणहेत्वोः । लक्ष्यतेऽनेनेति लक्षणं= परिचायकम् । शयाना इति । शीङ आत्मनेपदित्वात्परस्य लटः शानच् । अत्र शयनं लक्षणं = चिह्नं यवनकर्तृकभोजनस्य, न तु फलं,नापिकरणमिति हेत्वपेक्षया लक्षणस्य पृथङ्निर्देशः । अर्जयन्निति । अर्ज प्रतियत्ने चुरादिः । अर्जनार्थो वास इत्यर्थः । हरिमिति । हरिदर्शनं मुक्तौ कारणमित्यर्थः ।

Padamanjari

लक्षणहेत्वोः क्रियायाः॥ लक्ष्यते चिह्न्यते येनेति। चिह्नयतिरवधारयत्यादिवच्चुरादिषु द्रष्टव्यः। धात्वर्थविशेषणं चैतदिति। नोपपदं क्रियाया इति वचनात्। उपपदं हि धातोर्भवति, स च क्रियावचन इति क्रियाग्रहणमनर्थकमुपपदत्वे स्यात्। क्रियायाश्च लक्षणापेक्षया कर्मत्वम्, हेत्वपेक्षया तु शेषत्वम्, तत्रोभयानुग्रहाय कर्मणोऽपि शेषत्वविवक्षया शेषलक्षणैव षष्ठी, वृतौ तु वस्तुमात्रं प्रादर्शि। क्रियाविषयाविति। शयाना भुञ्जत इति। अत्र शयनं लक्षणं भोजनस्य। तिष्ठन्तोऽनुशासतीति। अत्रापि स्थानमनुशासनस्य। अर्जयन्वसतीति। ठर्ज प्रतियत्नेऽ चुरादिराङ्पूर्वः। लक्षणहेत्वोरिति किमिति। क्रियासम्बन्धिन्यर्थे वर्तमानादिति विज्ञायमाने लक्षणहेत्वोरपि भविष्यत इति प्रश्नः, अतिप्रसङ्गेन तूतरम्। पचति च पठतिचेति। अत्र द्वयोः क्रिययोरेकस्मिन्साधने समुच्चयातद्द्वारेण परस्परसम्बन्धोऽप्यस्तीत्युभयत्रापि प्रसङ्गः। यः कम्पते सोऽश्वत्थ इति। बहुषु वृक्षेषु तिष्ठत्सु कम्पनेनाश्वत्थो लक्ष्यते, तच्च द्रव्यम्। यदुत्प्लवते तल्लघ्विति। अत्राप्युत्प्लवनेन लाघवं गुणो लक्ष्यते। निषदनं निमज्जनं तेन गौरवं गुणो लक्ष्यते। इह तु योऽधीयान आस्ते स देवदत इति आसिक्रियाया एवाध्ययनक्रियालक्षणम्, न देवदतस्य, आसिक्रिया तु तस्य लक्षणम्। एवं यस्तिष्ठन्मूत्रयति स ब्राह्मणब्रुव इति, अत्रापि स्थितिक्रिया मूत्रणक्रियाया एव लक्षणम्, सैव तु देवदतस्याशौ चादेर्लक्षणं न स्थितिक्रियेति सूत्रेणैव सिद्ध आदेशः। कथं शयाना वर्धते दूर्वा, आसीनं वर्धते विषमिति, न ह्यासनशयते वृद्धेर्लक्षणम्, किं तर्हि? स्वभावमात्रकथनमेतत्? भवति वै स्वभावाख्यानमपि लक्षणम्, यथा - चैतन्यलक्षणं पुरुष इति। पूर्वनिपातव्यमिचारलिङ्गमिति।’द्वन्द्वे घि’ ,ठल्पाच्तरम्ऽ इति यौ पूर्वनिपातौ तयोर्व्यभिचारे लिङ्गमित्यर्थः। तेन धूमाग्नी, मृदङ्गशङ्खपणवा इत्यादिप्रयोगोपपतिः॥

Nyaas

धात्वर्थ विशेषणञ्चैतत् इति। धात्वधिकारात्। अथोपपदे कस्मान्न भवतः? क्रियाया इति वचनात्। यद्युपपदे स्यातां तदा क्रियाग्रहणमनर्थकं स्यात्। उपपदं हि धातोर्भवति, स च क्रियावचन इत्येन्तरेणापि क्रियाग्रहणं लक्षमहेतू क्रियाविषयौ विज्ञास्येते। तत् क्रियाग्रहणेन धात्वर्थविशेषणत्वे हि तयोः क्वचिद्धात्वर्थो द्रव्यस्य हेतुर्भवति, लक्षणं वा ; क्वचिद्गुणस्य , क्वचित्क्रियायाः। अतो द्रव्यादिनिवृत्त्यर्थं क्रियाग्रहणं युक्तम्; अतः क्रियायाः इति वचनम्। क्रियाविषयौ इति। क्रियाया इत्येतद्विवरणम्। क्रिया विषयो यथोस्तौ तथोक्तौ। एतेन क्रियायाः इति येयं षष्ठी सा सुब्व्यत्ययेन सप्तम्याः स्थाने विहितेति सूचयति। शयाना भुञ्जते इति। शीङोऽपवादित्वाच्छपो लुक्, शीङः सार्वधातुके (7.4.21) इति गुणः। अत्र शयनं लक्षणम्, भुजिक्रिया विषयः।तेन हि भुजिक्रिया लक्ष्यते तत्र शीङ वर्तते। तिष्ठन्तोऽनुशासति इति। तिष्ठतेः पाघ्रादिसूत्रेण (7.3.78) तिष्ठादेशः। अत्रावस्थानं लक्षणम्, तेनानुशासनक्रिया लक्ष्यते। अर्जयन् वसति अत्राध्ययनम्।पचति, पठति इति। नात्र क्रियाया लक्ष्यलक्षणभावो विवक्षितः। यः कम्पतेसोऽआत्थः`इति। अत्र हि कम्पनं लक्षणं भवतीति तेनाआत्थो लक्ष्यते, न तु क्रियाविषयम्, किं तर्हि? द्रव्यविषयम्; अआत्थस्य द्रव्यविषयत्वात्। `यदुत्प्लवते तल्लघु इति। अत्रोत्प्लवनेनलघुसंज्ञको गुणो लक्ष्यत इति गु विषयं तत्, न तु क्रियाविषयम्। वर्षतीति धावति, हन्तीति पलायत इत्यत्र यद्यपि वर्षणहननाभ्यां धावनपलायनक्रिये लक्ष्येते, तथापि शतृशानचौ न भवतः; नन्वोर्विभाषा (3.2.121) इत्यतो व्यवस्थितविभाषेत्यनुवर्तते; इतिकरणेन हेतुभावस्य द्योतितत्वात्। पूर्वनिपातलक्षमव्यभिचारलिङ्गम्` इति। द्वन्द्वे घि (2.2.32) इत्यनेन ध्यन्तस्य यः पूर्वनिपातः क्रियते तस्य व्यभिचारः। स्वविषये सत्यपि तस्य क्वचिदभावः। तस्य व्यभिचारस्य लिङ्गमयं निर्देशः।यदि ह्रभिचारी ध्यन्तस्य निपातः स्यात्, हेतुलक्षणयोः`इति निर्देशं कुर्यात्। व्यभिचारे तु सति धूमाग्नी इत्येवमादय उपपन्ना भवन्ति॥ननु च प्रकृतत्वादेव शतृशानचोरियं संज्ञा स्यात्, तत्क तौग्रहणमित्याह - `तौग्रहणम् इत्यादि। उपाधिना विशेषमेनासंसर्गार्थं तौग्रहणमित्यर्थः। उपाधिस्तु वर्तमानकालः, तत्र शतृशानचोर्विहित्वात्। उपाध्यसंगर्हार्थे तौग्रहणे सति किं भवतीत्याह - शतृशानज्मात्रस्य इत्यादि। मात्रग्रहणमुपाधिसंग्रहव्यवच्छेदार्थम्। असति हि तौग्रहणे यादृशौ प्रकृतौ तादृशयोरव संज्ञा स्यात्। कीदृशौ च तौ? वर्तमानकलाविहितौ। ततश्च लृडादेशयोर्भविष्यत्कालविहितयोः सदिति संज्ञा न स्यात्। ननु च लुटः सद्वा (3.3.14) इति सच्छब्देन तौ विधीयेते, ततो वचनसामर्थ्यात् तु भविष्यतः? न ब्राऊमः - विधानं तयोर्न सिध्यतीति, किं तर्हि? विहितयोरुत्तरकालसंज्ञा न सिध्यति। ततश्च ब्राआहृणस्य करिष्यन्, ब्राआहृणस्य करिष्यमाण इत्यत्र पूरणगुण (2.2.11) इत्यादिना षष्ठीसमासप्रतिषेधो न स्यात्। सद्ग्रहणं तु सच्छब्देनैव वर्तमानशतृशानजन्ते षष्ठीसमासप्रतिषेधार्थं स्यात्। तौग्रहणे शतृशानचोर्विशेषणमनपेक्ष्य रूपमात्रे संज्ञाऽऽख्यायत इति वर्तमानकाले विधानासंसक्तयोरपि संज्ञा सिध्यतीति॥

Prakriyasarvasvam

क्रियान्तरस्य लक्षणभूते हेतुभूते वा धात्वर्थे एतौ स्तः । स्मयमानो विवक्षति । अत्र स्मयनं विवक्षाक्रियायाश्चिह्नम् । कारणं प्रयोजनं चात्र हेतुः । तृष्यन् पिबति । अर्जयन् वसति । तर्षाद्धेतोरर्जनार्थं चेत्यर्थः ॥

Sutra Prayogas

  • सौष्ठवौदार्यविशेषशालिनीं (किरातार्जुनीयम्): लक्षणहेत्वोः क्रियायाः इति ज्ञापकात् पूर्वनिपातानियमः ।

  • मुपहरन् (शिशुपालवधम्): लक्षणहेत्वोः क्रियायाः इति हेत्वर्थे शतृप्रत्ययः।

  • कीर्तयन् (शिशुपालवधम्): लक्षणहेत्वोः क्रियायाः इति हेत्वर्थे लटः शत्रादेशः।

  • ब्रुवाणो (भट्टिकाव्यम्): लक्षणहेत्वोः क्रियायाः इति शानच्।

  • आकर्णयन्नुत्सुक (भट्टिकाव्यम्): लक्षण हेत्वो: इति शतृप्रत्ययः।

  • स्तूयमानः (भट्टिकाव्यम्): लक्षणहेत्वोः क्रियायाः इति शानच्।