32124: लटः शतृशानचावप्रथमासमानाधिकरणे

Padacheda: लटः | S | 6 | 1 |

शतृशानचौ | S | 1 | 2 |

अ-प्रथमासमानाधिकरणे | S | 7 | 1 |

Sutrartha

वर्तमानार्थे प्रथमाभिन्नविभक्तेः विषये लट्-लकारस्य शतृ-शानच्-आदेशौ भवतः ।

अनेन सूत्रेण लट्-लकारस्य स्थाने ‘शतृँ’ तथा ‘शानच्’ एतयोः द्वयोः कृत्-प्रत्यययोः विधानम् क्रियते । अयमादेशः ‘वर्तमानकालस्य’ अर्थे भवति । अस्मिन् सूत्रे ‘अप्रथमासमानाधिकरणे’ इत्यपि उक्तमस्ति, अतः अयमादेशः प्रथमाभिन्नविभक्तेः विवक्षा अस्ति चेदेव भवति । लः परस्मैपदम् (1.4.99) इत्यनेन शतृ-प्रत्ययः परस्मैपदसंज्ञकः भवति, तथा तङानावात्मनेपदम् (1.4.100) इत्यनेन शानच्-प्रत्ययः आत्मनेपदसंज्ञकः भवति । अतः शतृँ-प्रत्ययस्य प्रयोगः केवलं परस्मैपदस्य प्रयोगे एव भवति, तथा शानच्-प्रत्ययस्य प्रयोगः केवलमात्मनेपदस्य प्रयोगे एव भवति । ‘शतृँ’प्रत्यये शकारऋँकारौ इत्संज्ञकौ स्तः, अतः प्रयोगे केवलम् ‘अत्’ इत्यस्यैव प्रयोगः भवति । यथा - पठ् + शतृँ → पठत् । ‘शानच्’ प्रत्यये शकारचकारौ इत्संज्ञकौ स्तः, अतः प्रयोगे केवलम् ‘आन’ इत्यस्यैव प्रयोगः भवति । यथा - वन्द् + शानच् → वन्दमान । प्रक्रिया - 1) पठ् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → पठ् + शतृँ [लटः शतृशानचावप्रथमासमानाधिकरणे (3.2.124) इति शतृँ] → पठ् + शप् + अत् [कर्तरि शप् (3.1.68) इति विकरणम् शप्] → पठत् 2) वन्द् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → वन्द् + शानच् [लटः शतृशानचावप्रथमासमानाधिकरणे (3.2.124) इति शानच् ] → वन्द् + शप् + आन [कर्तरि शप् (3.1.68) इति विकरणम् शप्] → वन्द् + अ + मुक् + आन [आने मुक् (7.2.82) इति मुक्-आगमः] → वन्दमान प्रयोगस्य उदाहरणानि - पचन्तं देवदत्तम् पश्य । गच्छता रामेण सह लक्ष्मणः अपि याति । वन्दमानाय शिष्याय गुरुः दत्ते । कम्पमानात् वृक्षात् फलानि पतन्ति । ब्रूवाणस्य आचार्यस्य नाम देवदत्तः । धावति अश्वे अर्जुनः उपविशति । ज्ञातव्यम् - 1. शतृशानच्-प्रत्ययौ ‘कृत्-प्रत्ययौ’ स्तः । एतयोः प्रयोगेण प्रातिपदिकनिर्माणम् भवति । 2. तिङ्शित् सार्वधातुकम् (3.4.113) इत्यनेन शतृशानच्-प्रत्यययोः सार्वधातुकसंज्ञा भवति, अतः एतयोः प्रयोगे गणविकरणप्रत्ययः अपि यथायोग्यमागच्छति । यथा - नृत् + शतृँ → नृत्यत् । ज्ञा + शानच् → जानान । आप् + शतृँ → आप्नुवत् । कृ + शानच् → कुर्वाण । 3. ‘अप्रथमासमानाधिकरणम्’ शब्दस्य निर्माणम् एतादृशम् क्रियते - - अप्रथमा = प्रथमाभिन्नम् (इत्युक्ते - द्वितीया, तृतीया - आदयः) । - समानाधिकरणम् = समानमभिधेयम् । अतः अप्रथमासमानाधिकरणम् = अप्रथमया समानाधिकरणम् = प्रथमाभिन्नम् यस्य (प्रत्ययस्य) अभिधेयम्, सः । इत्युक्ते, शतृ/शानच्- प्रत्ययान्त-प्रातिपदिकात् परः तस्यैव सुप्-प्रत्ययस्य प्रयोगः भवितुमर्हति यः प्रथमाभिन्नविभक्तेः अभिधेयम् स्वीकरोति । यथा - पच् + शतृ + अम् → पचन्तम् । वन्द + शानच् + शस् → वन्दमानान् - आदयः । 4. केचन वैयाकरणाः अस्मिन् सूत्रे नन्वोर्विभाषा (3.2.121) इत्यस्मात् ‘विभाषा’ इति अपि अनुवर्तयन्ति । ‘विभाषा’ इत्युक्ते विकल्पः । अयम् विकल्पः ‘प्रथमासमानाधिकरणार्थम्’ अस्ति । इत्युक्ते, प्रथमायाः विषये अपि शतृ-शानच्-प्रत्यययोः प्रयोगः ‘विकल्पेन’ भवितुमर्हति । यथा - रामः पठन् अस्ति । छात्रः वन्दमानः अस्ति । माता पचन्ती अस्ति - आदयः । अस्मिन् विषये भाष्ये उक्तमस्ति - ‘किम् तर्हि इदानीम् विभाषा? - प्रथमासमानाधिकरणे । यथा - पचन् पचति, पचमानः पचते - इति’ । 5. यद्यपि अनेन सूत्रेण शतृ-शानच्-प्रत्यययोः प्रयोगः ‘वर्तमाने’ उक्तः अस्ति, तथापि लृटः सद्वा (3.3.14) अनेन सूत्रेण अनयोः प्रत्यययोः प्रयोगः लृट्-लकारस्य स्थाने (‘भविष्यति’ अस्मिन् अर्थे) अपि भवति । यथा - करिष्यन्तम् पश्य । करिष्यमाणम् पश्य । 6. संस्कृतभाषायाम् वर्तमानकालः एकः एव अस्ति, तस्य ‘present continuous / present perfect’ आदयः भेदाः न सन्ति । अतः शतृ-प्रत्ययस्य शानच्-प्रत्ययस्य च प्रथमाविभक्तेः प्रयोगः तमेव वर्तमानम् निर्देशयति यम् ‘लट्लकारः’ निर्देशयति । इत्युक्ते, ‘रामः पठन् अस्ति’ इत्युक्ते ‘रामः पठति’ इत्येव । द्वयोः वाक्ययोः अर्थयोः भेदः नास्ति ।

Sutrartha (English)

The लट्-लकार gets शतृ and शानच् as आदेशाः to denote the present-tense, provided a विभक्ति other than प्रथमा is used along with these.

Vasu English Summary

The affixes शतृ and शानच् are substitutes of लट् (Present Tense) when agreeing with what does not end with the 1st (Nominative Case) case-affix.

Vasu English Translation

The affixes शतृ and शानच् are substitutes of लट् (Present Tense) when agreeing with what does not end with the 1st (Nominative Case) case-affix. As पचमानं देवदत्तं पश्य ‘behold Devadatta who is cooking’; पचता कृतम् or पचमानेन कृतम् ‘done by one who is cooking’. पच् + शानच् = पच् + शप् + शानच् (3.4.113), (3.1.68) = पच् + अ + मुक् + आन (7.2.82) = पचमान । So also पच् + शप् + शतृ = पच् + अ + अत् = पचत् ।

Why do we say ‘when agreeing with what does not end with the first case-affix’ ? Observe देवदत्तः पचति ‘Devadatta cooks’.

Since the term लट् might have been supplied from the last aphorism, its double citation is for the sake of larger application of this rule; that is to say, this rule applies sometimes even when the word is in concord with a nominative case. As सन् ब्राह्मणः ‘who is a Brahmana’ = अस्ति ब्राह्मणः; so also विद्यते ब्राह्मणः and विद्यमानो ब्राह्मणः; जुहुत् and जुहोति; and अधीयानः and अधीते ।

Vart:- These affixes are employed after a verb, when the particle माङ् is in composition, and censure or curse is implied. As मा पचन् and मा पचमानः ‘may he not cook’; मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति ‘cursed be he (lit. may he not live) who though smitten by the pain of the contempt of others, still lives’. Some commentators read the anuvritti of the word ‘option’ from sutra 121 into this. That option, however, is a limited option (vyavasthita-vibhasha) and not of universal application. Whenever a particular form is found as differing from the general form, there it should be understood that the option has been allowed, and not everywhere.

Bhashya

लटः शतृशानचावप्रथमासमानाधिकरणे (819) (520 लटः शतृशानज्विधिसूत्रम्॥ 3 । 2 । 3 आ.1) (आदेशोपपादनाधिकरणम्) (3024 आदेशानुपपत्तिवार्तिकम्॥ 1 ॥) - लस्याप्रथमासमानाधिकरणेनायोगादादेशानुपपत्तिर्यथान्यत्र- (भाष्यम्) लस्य अप्रथमासमानाधिकरणेनायोगादादेशयोरनुपपत्तिर्यथान्यत्र। तद्यथा - अन्यत्रापि लस्याप्रथमासमानाधिकरणेन योगो न भवति। क्वान्यत्र?। लङि - अपचदोदनं देवदत्तं इति॥ (3025 अन्यथा दूषणापत्तिवार्तिकम्॥ 2 ॥) - योग इति चेदन्यत्रापि योगः स्यात्- (भाष्यम्) अथ मतमेतत् - भवति योग इति। अन्यत्रापि योगः स्यात्॥ क्वान्यत्र?। लङि - अपचदोदनं देवदत्त इति॥ (अनुपपत्तिपरिहारभाष्यम्) न क्वचिद्योग इति कृत्वातः सर्वत्र योगेन भवितव्यम्। क्वचिद्वाऽयोग इति कृत्वा सर्वत्रायोगेन॥ तद्यथा - समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न। न चेदानीं कश्चिदर्थवान् इति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः। तत्र किमस्माभिः शक्यं कर्तुं यल्लटोऽप्रथमासमानाधिकरणेन योगो भवति, लङो न भवति, स्वाभाविकमेतत्॥ (परिहारान्तरभाष्यम्) अथ वाऽऽदेशेन सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं प्रकृतेरपि सामानाधिकरण्यं भवतीति। तद्यथा - धूमं दृष्ट्वा अग्निरत्र इति गम्यते। त्रिविष्टब्धकं दृष्ट्वा परिव्राजक इति। (परिहारान्तरासंभवभाष्यम्) विषम उपन्यासः - प्रत्यक्षस्तेनाग्निधूमयोरभिसंबन्धः कृतो भवति, त्रिविष्टब्धकपरिव्राजकयोश्च ननु तद्विदेशस्थमपि दृष्ट्वाध्यवस्यति अग्निरत्र परिव्राजकोत्रेति। (प्रत्यक्षस्यानुमानाबाधकताभाष्यम्) भवति वै प्रत्यक्षादप्यनुमानबलीयस्त्वम्। तद्यथाऽलातचक्रं प्रत्यक्षं दृश्यते, अनुमानाच्च गम्यते नैतदस्तीति॥ (अनुमानसाधकव्याप्तिसाधकभाष्यम्) कस्यचित्खल्वपि सकृत्कृतोभिसंबन्धोऽत्यन्ताय कृतो भवति। तद्यथा - वृक्षपर्णयोः - अयं वृक्षः इदं पर्णम् इति। स तद्विदेशस्थमपि दृष्ट्वा जानाति वृक्षस्येदं पर्णम् इति॥ (आक्षेपभाष्यम्) किं पुनरयं पर्युदासो यदन्यत्प्रथमासमानाधिकरणादिति, आहोस्वित् प्रसज्यप्रतिषेधः प्रथमासमानाधिकरणेनेति। (प्रत्याक्षेपभाष्यम्) कश्चात्र विशेषः। (3026 पर्युदासे दूषणवार्तिकम्॥ 3 ॥) - लटः शतृशानचावप्रथमासमानाधिकरणे इति चेत्प्रत्ययोत्तरपदयोरुपसंख्यानम्- (भाष्यम्) लटः शतृशानचावप्रथमासमानाधिकरण इति चेत् प्रत्ययोत्तरपदयोरुपसंख्यानं कर्तव्यम्। कौर्वतः पाचतः कुर्वद्भक्तिः, पचतभक्तिः, कुर्वाणभक्तिः, पचमानभक्तिरिति। (प्रसज्यप्रतिषेधाङ्गीकारवार्तिकम्) अस्तु तर्हि प्रसज्यप्रतिषेधः प्रथमासमानाधिकरणे नेति। (3027 प्रसज्यप्रतिषेधदूषणवार्तिकम्॥ 4 ॥) - प्रथमाप्रतिषेधे उत्तरपदे आदेशानुपपत्तिः- (भाष्यम्) प्रथमाप्रतिषेधे उत्तरपदे आदेशयोरनुपपत्तिः कुर्वती चासौ भक्तिश्च कुर्वद्भक्तिः पचद्भक्तिः, कुर्वाणभक्तिः, पचमानभक्तिरिति। ये चाप्येते समानाधिकरणवृत्तयस्तद्धितास्तेषु शतृशानचौ न प्राप्नुतः। कुर्वत्तरः, पचत्तरः, कुर्वाणतरः, पचमानतरः कुर्वद्रूपः पचद्रूपः, कुर्वाणरूपः, पचमानरूपः, कुर्वत्कल्पः, पचत्कल्पः, कुर्वाणकल्पः, पचमानकल्प इति। (3028 समाधानवार्तिकम्॥ 5 ॥) (भाष्यम्) सिद्धमेतत्। कथम्?। प्रत्ययोत्तरपदयोश्च शतृशानचौ भवतः इति वक्तव्यम्। (3029 समाधानदूषणप्रत्ययाप्रसिद्धिवार्तिकम्॥ 6 ॥) - तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः- (भाष्यम्) तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः। आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तश्चादेशः तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते॥ (3030 समाधानदूषणोत्तरपदाप्रसिद्धिवार्तिकम्॥ 7 ॥) - उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः- (भाष्यम्) उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः। उत्तरपदनिमित्तः सुप्सुबन्तनिमित्तं चोत्तरपदम्। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते। (3031 प्रत्ययप्रसिद्धिसमाधानवार्तिकम्॥ 8 ॥ - न वा लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम्- (भाष्यम्) न वा एष दोषः। किं कारणम्?। लकारस्य कृत्त्वात् प्रातिपदिकत्वम्। लकारः कृत्। कृत् प्रातिपदिकमिति प्रातिपदिकसंज्ञा। तदाश्रयं प्रत्ययविधानम्। प्रातिपदिकाश्रया स्वाद्युत्पत्तिर्भविष्यति॥ (3032 उत्तरपदप्रसिद्धिसमाधानवार्तिकम्॥ 9 ॥) - तिङादेशात् सुबुत्पत्तिः- (भाष्यम्) तिङादेशः क्रियतां सुबुत्पत्तिरिति परत्वात्सुबुत्पत्तिर्भविष्यति। (3033 वार्तिकशेषवार्तिकम्॥ 10 ॥) - तस्मादुत्तरपदप्रसिद्धिः- (भाष्यम्) तस्मादुत्तरपदस्य प्रसिद्धिर्भविष्यति। उत्तरपदे प्रसिद्धे उत्तरपद इति शतृशानचौ भविष्यतः॥ (समाधानदूषणभाष्यम्) इहापि तर्हि तिङादेशात्सुबुत्पत्तिः स्यात् - पचति पठतीति॥ (दूषणपरिहारभाष्यम्) अस्त्यत्र विशेषः नित्योऽत्र तिङादेशः। उत्पन्नेऽपि सुपि प्राप्नोत्यनुत्पन्नेऽपि प्राप्नोति। नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिर्न भविष्यति॥ (दूषणभाष्यम्) इहापि तर्हि नित्यत्वात्तिङादेशः स्यात्। कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिरिति। (दूषणपरिहारभाष्यम्) अस्त्यत्र विशेषः। शतृशानचौ तिङपवादौ तौ चात्र निमित्तवन्तौ। न चापवादविषये उत्सर्गोऽभिनिविशते। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः। प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशते। न तावदत्र कदाचित् तिङ् भवति। अपवादौ शतृशानचौ प्रतीक्षते॥ (दूषणपरिहारदूषणभाष्यम्) तदेतत् क्व सिद्धं भवति। यत्र सामान्यादुत्पत्तिः। यत्र हि विशेषाद् अत इञ्ञ् इति इतरेतराश्रयमेव तत्र भवति। वीक्षमाणस्यापत्यं वैक्षमामणिरिति। इह च शतृशानचौ प्राप्नुतः पचतितरां जल्पतितरां पचतिरूपं जल्पतिरूपं पचतिकल्पं जल्पतिकल्पं पचति पठतीति॥ (प्रश्नभाष्यम्) तदेतत्कथं कृत्वा सिद्धं भवति?। (3034 समाधानवार्तिकम्॥ 11 ॥) - शतृशानचौ यदि लटो वा - (भाष्यम्) यदि लटः शतृशानचौ वा भवतः व्यवस्थितविभाषा च। तेनेह च भविष्यतः - कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः पचन्पठन्निति च लटः शतृशानचौ। इह च न भविष्यतः - पचतितरां जल्पतितरां पचतिरूपं जल्पतिरूपं पचतिकल्पं जल्पतिकल्पं पचति पठतीति च लटः शतृशानचौ॥ (प्रश्नभाष्यम्) तत्तर्हि वावचनं कर्तव्यम्॥ (समाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। नन्वोर्विभाषा इति। (आक्षेपभाष्यम्) यदि तदनुवर्तते वर्तमाने लट् इति लडपि विभाषा प्राप्नोति॥ (समाधानभाष्यम्) संबन्धमनुवर्तिष्यते। नन्वोर्विभाषा। पुरिलुङ्चास्मे विभाषा। लटः शतृशानचौ विभाषा। पुरि लुङ् चास्म इति निवृत्तिम्॥ (प्रश्नभाष्यम्) न तर्हीदानीमप्रथमासमानाधिकरण इति वक्तव्यम्?। (समाधानभाष्यम्) वक्तव्यं च। किं प्रयोजनम्?। नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ शतृशानचौ यथा स्याताम्॥ (आक्षेपभाष्यम्) क्व तर्हिदानीं विभाषा?। (समाधानभाष्यम्) प्रथमासमानाधिकरणे पचन् पचतीति पचमानः पचते इति॥ लटः शतृ॥ 124 ॥

Kashika

लटः शतृशानचावित्येतावादेशौ भवतः, अप्रथमान्तेन चेत् तस्य सामानाधिकरण्यं भवति। पचन्तं देवदत्तं पश्य। पचमानं देवदत्तं पश्य। पचता कृतम्। पचमानेन कृतम्। अप्रथमासमानाधिकरण इति किम्? देवदत्तः पचति। लडिति वर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम्। क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानो ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते॥ माङ्याक्रोशे॥ मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणमनुवर्तयन्ति **नन्वोर्विभाषा**(३.२.१२१) इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः॥

Siddhanta Kaumudi

अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥

Laghu Siddhanta Kaumudi

अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥

Balamanorama

लटः शतृशनचावप्रथमासमानाधिकरणे - लटः शतृशानचौ ।वर्तमाने ल॑डिति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ, अनन्तरस्येति न्यायादिति ‘वर्तमानसामीप्ये’ इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारावितौ । पचन्तमिति । पाकानुकूलव्यापाराश्रयमित्यर्थः,क्रियाप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि॑ति सिद्धान्तात् । शतुः शित्त्वेन सार्वधातुकच्छपि ‘अतो गुणे’ इति पररूपम् । शानचि शाचवितौ ।

Tattvabodhini

लटः शतृशनचावप्रथमासमानाधिकरणे - लटः शतृ । सामनाधिकरण्ये सतीति । यद्यप्यादेशरहितस्य लटः प्रयोगाऽभावात्सामानाधिकरण्यं दुर्लभं तथापि शतृशानचोस्तद्दृष्ट्वा स्थानिन्यपि सामानाधिकरण्यं कल्प्यते । शबादीति । शित्त्वेन सार्वधातुकत्वादिति भावः । पचन्तमिति । शतुरुगित्त्वान्नुम् । विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः ।

Padamanjari

लटः शतृशानचावप्रथमासमानाधिकरणे॥ शकारः सार्वधातुकसंज्ञार्थः, ऋकार उगित्कार्यार्थः, चकारः स्वरार्थः। प्रथमाशब्दस्सुपामाद्ये त्रिके प्रसिद्धः, प्रथमाया अन्याऽप्रथमाउद्वितीयादिः, तत्र प्रत्ययग्रहणपरिभाषया तदन्तविधिः, अप्रथमान्तं द्वितीयाद्यन्तमित्यर्थः। अधिकरणमुअभिधेयम्, समानमुसाधारणम्, अभिधेयं यस्य तत्समानाधिकरणम्, अप्रथमान्तेन समानाधिकरणमप्रथमासमानाधिकरणम्। तृतीयेति योगविभागात्समासः। द्विपदो वा बहुव्रीहीः - -अप्रथमासमानाधिकरणं यस्येति।’यस्य च भावेन’ इति सप्तमी अप्रथमासमानाधिकरणे लटि सति, तस्य लट इति षष्ठ।ल्र्थे सप्तमी। एष पर्युदासपक्षो दर्शितः। प्रसज्यप्रतिषेधपक्षे तु नञो भवतिना संबन्धः। प्रथमाशब्देन प्रथमान्तं गृह्यते। शेषं समानम्। तत्राद्ये पक्षे कुर्वतोऽपत्यं कौर्वतः, पाचतः, कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोतरपदयोः शतृशानचौ न स्याताम्, न ह्यत्र द्वितीयाद्यन्तेन सामानाधिकरण्यम्, न हि कुर्वतो देवदतस्य भक्तिः कुर्वतो देवदतस्यापत्यमित्यत्र समासतद्धितौ भवतः, सापेक्षत्वात् पदान्तरनिरपेक्षत्वे प्रथमान्तेन सामानाधिकरण्याभावः। प्रसज्यप्रतिषेधे तु प्रथमान्तेन सामानाधिकरण्याभावाददोषः। अस्तु तर्हि स एव? एवमपि कुर्वतो भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिरत्र न प्राप्नोति, ये चाप्येते समानाधिकरणवृतयस्तद्धितास्तेषु न स्यात् - कुर्वतरः, कुर्वाणतरः; कुर्वद्रूपः कुर्वत्कल्प इति? पर्युदासेऽप्येष दोषो द्रष्टव्यः। एवं तर्हि’प्रत्ययोतरपदयोश्च’ इति लक्षणशेषः कर्तव्यः, तत्र पृथगुतरपदग्रहणम् ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति समासार्थाया विभक्तेर्लुकिकृते प्रत्ययलक्षणप्रतिषेधात्प्रत्ययपरत्वार्थम्। ननु च प्रत्ययोतरपदयोः सतोः शतृशानचौ भवतः, तयोश्च कृत्वात्प्रातिपदिकत्वे सति विभक्त्युत्पतौ सत्यां तद्धिताः, समासश्च, समासे च सत्युतरपदं तदितरेतराश्रयं भवति? नैष दोषः; ड।लप्प्रतिपदिकातद्धिताः, ते लकारस्य कृत्वाद्भविष्यन्ति, उतरपदेऽपि विधानसामर्थ्यातिङदेशं बाधित्वा लान्तस्य प्रातिपदिकत्वमाश्रित्य सुबुत्पतौ समास इति सिद्धम्। एवमपि वीक्षमाणस्यापत्यं वैक्षमाणिरित्यकृते शानचि अकारान्तत्वाभावादत इञोऽप्रसङ्गः, पचतितरामित्यत्र शतृशानचौ प्राप्नुतः, तथा पचतिरूपमित्यादौ’तिङ्श्च’ इत्येततु लङदिविषयमेव स्यात्। तदेवं सर्वत्र दोषसद्भावे समासोऽपि तावन्न्याय्यो भवतीति पर्युदासमाश्रित्याह - अप्रथमान्तेन चेदित्यादि। तस्येति। लटः। कथं पुनर्लटो द्वितीयाद्यन्तेन सामानाधिकरण्यम्, यावता’लः कर्मणि च’ इत्यनेन कर्तृकर्मणोर्विधीयमानो लकारः क्रियां प्रति गुणभूते कर्तृकर्मणी प्रतिपादयति, तथा च क्रियाप्रधात्वादाख्यातस्य क्रियान्तरयोगाभावाच्छक्त्यन्तरावेशाभावः, न हि भवति पचत्योदनं देवदतं पश्य पच्यते ओदनेन तृप्तः अपचदोदनं देवदतं पश्य पच्यते ओदनेन तृप्त इति, यथा - अन्येषु कृत्सु पाकं पश्य, पाकेन तृप्त इति? सत्यम्; तिङ्भाविनो लकारस्यायं स्वभावः यदुक्तगुणभूते कर्तृकर्मणी प्रतिपादयति, शत्रादिविषयस्य क्रियोपसर्जनकर्त्राद्यभिधानम्, ततश्च क्रियान्तरयोगे सति तन्निमितं द्वितीयाद्यन्तसामानाघिकरण्यमुपपद्यते। यद्यपि केवलस्य लटः प्रयोगाभावादप्रथमान्तेन सामानाधिकरण्यं न क्वचिदुपलब्धम्, तथापि तदादेशयोः शतृशानचोर्दर्शनात् स्थानिनो लकारस्यापि तद्योग्यत्वमनुमीयते, तेन लटः प्रक्रियार्थ विहितस्य काल्पनिकप्रथमान्तेन सामानाधिकरण्यमस्तीति दोषाभावः। अथ लड्ग्रहणं किमर्थम् - आदेशौ यथा स्यातां प्रत्ययान्तरं मा भूतामिति? नैतदस्ति; पूर्वसूत्रत एव लड्ग्रहणं स्वरयिष्यते, तस्येहानुवृतस्यार्थात् षष्ठ।ल विपरिणामे तस्यैवादेशौ भविष्यतः, न प्रत्ययान्तरमत आह - लडिति वर्तमाने पुनर्लड्ग्रहणमिति। क्वचित्प्रथमासामानाधिकरण्येऽपि भवत इति। अप्रथमासमानाधकरणत्वाभावोपलक्षणमिदम्, तेन कौर्वतः, कुर्वद्भक्तिरित्यादयोऽपि भवन्ति। सन्निति। ठस् भुविऽ’श्नसोरल्लोपः’ । विद्यमान इति।’विद सतायाम्’ ‘दिवादिरनुदातेत्। जुह्वदिति।’नाभ्यस्ताच्छतुः’ इति नुमभावः। माङ्याक्रोश इति। माङ् लुङे’ पिवादः, तथा पुनर्लड्ग्रहणाद्योऽपि भूते लट्’ननौ पृष्टप्रतिवचने’ इति तस्यापि भवतः - ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणम्पश्येति। एतच्च’ननौ पृष्टप्रतिवचने’ इत्यत्र भाष्यकारेणोक्तम्। केचिदित्यादि। न चैवं पचन्तम्पश्येत्यादावपि विकल्पप्रसङ्ग इत्यत आह - व्यवस्थितविभाषा चेयमिति। यथादर्शनमिति। प्रथमासमानाधिकरणे विकल्पः, पचन्तं पश्येत्यादौ’प्रत्ययोतरपदयोश्च’ नित्यम्पचतितरामित्यादौ नैव भवतः, अन्यथा तिङेऽपि स्थानिवद्भावात्स्यात्प्रसङ्गः। न तर्हीदानीमिदं वक्तव्यम् - अप्रथमासमानाधिकरण इति? वक्तव्यं च। किं प्रयोजनम्? नित्यार्थम्। नन्वेतदपि विभाषयैव सिद्धम्? सत्यम्; स एवार्थो वचनेन स्पष्टीक्रियते। एतेन’सम्बीधनै च’ ‘लक्षणहेत्वोः’ इति च व्याख्यातम्॥

Nyaas

शतृशानचोः शकारौ सार्वधातुकार्थौ। ऋकार उगित्कार्यार्थः। अप्रथमासमानाधिकरण इति पर्युदासोऽयम्। प्रथमाशब्दोऽयं विभक्तिविशेषे सोरौजस्पर्य्नते शास्त्रे रूढः। प्रथमाया अन्या द्वितीयादिका विभक्तिः = अप्रथमा। समानशब्दोऽयं साधारणवचनः, यथा - देवदत्तयज्ञदत्तौ समानधनावित। अधिकरणशब्दोऽयमभिधेयवचनः समानञ्च तदधिकरणञ्चेति कर्मधारयः। अप्रथमया समानाधिकरणम् = अप्रथमासमानाधिकरणम्। तृतीया (2.1.29) इतियोगविभागात् समासः। ततः यस्य च भावेन भावलक्षणम् (2.3.37) इति सप्तमी। अप्रथमासमानाधिकरणभावेन शतृशानचोर्भावो लक्ष्यते। अप्रथमेति पर्युदासवृत्त्या द्वितीयादेर्विभक्तेग्र्रहणम्, तेन प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यतीत्याह - अप्रथमान्तेन चेत् इत्यादि। तस्य इति। लटः। सामानाधिकरण्यम्` इति। समानाभिधेयमिति। यदि द्वितीयान्तेन शब्देन सामानाधिकरण्यम् = समानाभिधेयत्वं सम्भवत्येवं शतृशानचौ भवतः, नान्यथेति वाक्यार्थः। एवं विवृम्वताऽप्रथमासमानाधिकरणेऽत्र पर्युदास आश्रितः, न प्रसज्यप्रतिषेध इति दश्र्यते, अन्यथा हि यदि प्रसज्यप्रतिषेध आश्रितः स्यात् प्रथमान्तेन चेत सामानाधिकरण्यं न भवतीत्येवं ब्राऊयात्। किं पुनः स्याद्यदि प्रसज्यप्रतिषेध आश्रितः? अप्रथासमानाधिकरण उत्तरपदे शतृशानचौ न स्याताम् - भज्यत इति भक्तिः, कुर्वन् भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणो भक्तिरस्य कुर्वाणभक्तिः। ये च प्रथमासमानाधिकरणवृत्तयस्तद्धितास्तेषु न स्याताम् - प्रशंसायां रूपप् (5.3.66) कुर्वद्रूपम्, कुर्वाणरूपमिति; ईषदसमाप्तौ कल्पशब्देश्यदेशीयरः (5.3.67) कुर्वत्कल्पः। ननु पर्युदासेऽपि भवत्येव दोषः, न ह्यत्राप्रथमान्तेन क्वचित् प्रथमासमानाधिकरणेऽपि भवत इति। प्रसज्यप्रतिषेधे तु प्रतिषेधं विधाय प्रतिषिद्धस्य च पुर्विधानमयुक्तम्। पचन्तं देवदत्तं पश्य इति। द्वितीयान्तेन सामानाधिकरण्यं दर्शयति। पचता इति। तृतीयान्तेन। विभक्तेर्विपरिणामं कृत्वा देवदत्तेनेति सम्बन्धात्। ननु च लडादेशस्यात्राप्रथमान्तेन सामानाधिकरण्यम्, न लटः; तस्य प्रयोगाभावात्। आदेशधर्मस्य स्थानिन्युपचारात् लटोऽप्युपचारितं सामानाधिकरण्यं भवतीत्यदोषः।अथ लड्ग्रहणं किमर्थम्, यावताऽनन्तरसूत्राल्लडित्यनुवर्तत एव? स्यादेतत्; प्रथमान्तञ्चैतत्। षष्ठीनिर्देशेन चेहार्थः, तस्मात् षष्ठीनिर्देशार्थ पुनर्लड्ग्रहणं कर्तव्यमिति, एतच्चायुक्तम्,प्रथमान्तस्यापि लड्ग्रहमस्यार्थद्विभक्तिविपरिणामो भविष्यतीति षष्ठन्तं विज्ञास्यत इत्यत आह - लडिति वर्तमाने इत्यादि। अप्रथमासमानाधिकरणे पुनर्लड्ग्रहणम्। तेन क्वचित् प्रथमासमानाधिकरणे भवतः - कुर्वन् ब्राआहृणः। सन् ब्राआहृणः इति। अस भुवि (धातुपाठः-1065), अदादित्वाच्छपो लुक्। श्नसोरलोपः (6.4.111) , इत्यकारलोपः। विद्यमानः इत्यादौ सर्वत्र ब्राआहृण इत्यपेक्षते। विद सत्तायाम् (धातुपाठः-1171), दिवादिरात्मनेपदी, श्यन्। जुह्वत् (7.1.78) इति। हु {दानादनयोः (आदाने इत्येके प्रीणनेऽपि इति भाष्यम्) -धातुपाठः-} दाने`(धातुपाठः-1083), **हुश्नुवोः सार्वधातुके** (6.4.87) इति यणादेशः, `नाभ्यस्ताच्छतुः (7.1.78) इति नुमागमाभावः। `अधीयानः`इति। `इङ अध्ययने (धातुपाठः-11046), अधिपूर्वः। पूर्ववत् अचिश्नु (6.4.77) इत्यादिना इयङ।माङ्याक्रोशे इति। माङ्युपपद आक्रोशे गम्यमाने लटः शतृशानचौ भवतः। मा पचन्, मा पचमानः इति। ननु चात्रैव माङि लुङा भवितव्यम्, एतस्मादेवाधिकविधानात्? पुनर्लड्ग्रहणादाक्रोशे न भवतीत्यदोषः। माङि लुङ (3.3.175) इत्यस्य यत्राक्रोशे नास्ति सोऽवकाशः।केचिद्विभाषाग्रहणमनुवर्तयन्ति इति। सन् ब्राआहृणोऽस्ति ब्राआहृण इत्यादौ विकल्पेन शतृशानचौ यथा स्यातामित्येवमर्थम्। केचिदिति वचनात् केचिन्नानुवर्तयन्तीत्युक्तं भवति। तेषामयमभिप्रायः - यदि प्रथमासमानाधिकरणे नित्यं तौ भवतस्तदाऽप्रथमासमानाधिकणग्रहणं न कुर्यात्, शतृशानचौ`इत्येवं ब्राऊयात्। तत्राप्ययमर्थः - सामान्येन प्रथमासानाधिकरणेऽन्यत्र शतृशानचोर्विधानात् पुनग्र्रहणं न कर्तव्यं भवति। तस्मादप्रथमासमानाधिकरणग्रहणसामर्थ्यादप्रथमासमानधिकरण एव नित्यौ तौ भवतः, प्रथमासमानादिकरणेष्वन्यथेति। यदि तर्हि विभाषाग्रहणमनुवर्तयन्ति, यथा सन् ब्राआहृणः, अस्ति ब्राआहृणः, विद्यमानो ब्राआहृणः,विद्यते ब्राआहृण इत्यादौ विकल्पेन भवतः; तथा कुर्वद्भक्तिः कुर्वाणभक्तिरित्येवमादावपि स्यातामित्यत आह - `सा च इत्यादि। तत्र इति। व्यवस्थितविभाषयां सत्याम्। यथादर्शनम् इति। यथा लक्ष्यस्य दर्शनं तदनुरूपाः प्रयोगा उन्नेयाः। एतदुक्तं भवति - लक्ष्यदर्शनवत् स्यात्। क्वचिन्नित्यं तौ शतृशानचौ वेदितव्यौ, क्वचित् पाक्षिकौ,क्वचिदविद्यमानाविति। तत्र कुर्वद्भक्तिः, कुर्वाणभक्तिः, कुर्वत्तरः, कुर्वत्तम इत्यादौ नित्यम् ; सन् ब्राआहृणः , अस्ति ब्राआहृण इत्यादौ पाक्षिकौ; तरप्तमवादिप्रत्यये परे तावविद्यमानावेव। पचतितराम इति। पचतिशब्दात् तिङश्च (5.3.56) इति तरप्, किमेत् (5.4.11) इत्यादिनामि कृते न भवतः॥

Prakriyasarvasvam

अप्रथमान्तेन सामानाधिकरण्ये लट एतौ स्तः । तङानावित्युक्तेरात्मनेपदि- नामेव शानच्, परस्मैपदिनां शतृ । द्वयोः शः सार्वधातुकत्वार्थः । ऋकार उगित्त्वार्थः । चः स्वरार्थः । शब्गुणपररूपत्वेषु कृतेषु भवत् । उगित्त्वान्नुम् । भवन्तं हरिं वन्दे । एधेः शानच् । शप् । एध आन,

Sutra Prayogas

  • समुन्नयन् (किरातार्जुनीयम्): लट: शतृशानचौ… इति शतृप्रत्ययः।