32123: वर्तमाने लट्

Padacheda: वर्त्तमाने | S | 7 | 1 |

लट् | S | 1 | 1 |

Sutrartha

वर्तमानस्य अर्थे धातोः परः लट्-प्रत्ययः भवति ।

किम् नाम ‘वर्तमानः’? ‘आरब्धः अपरिसमाप्तश्च वर्तमानः’ इति काशिकाकारः वदति । इत्युक्ते, या क्रिया आरब्धा अस्ति परन्तु समाप्ता नास्ति (प्रचलन्ती अस्ति) सा ‘वर्तमाना’ क्रिया अस्ति इत्यर्थः । एतादृशीं क्रियां दर्शयितुम् लट्-लकारस्य प्रयोगः भवति । यथा - ‘रामः पाठम् पठति’ इत्यत्र ‘पठति’ अस्मिन् तिङन्तरूपे लट्-लकारस्य प्रयोगः कृतः अस्ति, यतः अनेन सूत्रेण एतत् उच्यते यत् पठनक्रिया आरब्धा अस्ति परन्तु इदानीम् समाप्ता नास्ति । ज्ञातव्यम् - 1. ‘लट्’ प्रत्ययस्य अर्थः ‘वर्तमान’ इति न । ‘वर्तमानत्वम्’ इति तु क्रियायाः विशेषणमस्ति । तत् द्योतयितुम् ‘लट्’ प्रत्ययस्य प्रयोगः भवति । 2. वर्तमानकालस्य विषये भाष्यकारः वदति - ‘भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानकालः’ । इत्युक्ते - अ) यत्र क्रियायाः आरम्भः अपि जातः, समाप्तिः अपि जाता - सः भूतकालः । आ) यत्र क्रियायाः आरम्भः एव न जातः, समाप्तिः अपि च न जाता - सः भविष्यकालः । इ) एतयोः भिन्नः यः अस्ति सः वर्तमानकालः । अतः वर्तमानकालस्य वैशिष्ठ्यम् - ‘क्रियायाः आरम्भः जातः, समाप्ति च न जाता’ इति । 3. अन्यासु कासुचन भाषासु ‘सामान्यवर्तमानकाल’ (simple present), ‘सततवर्तमानकाल’ (present continuous), आदयः केचन भेदाः सन्ति । संस्कृते एतादृशाः भेदाः न सन्ति । अतः ‘Ram goes / राम जाता है’ तथा ‘Ram is going / राम जा रहा है’ एतयोः उभयोः अर्थे ‘रामः गच्छति’ इत्येव प्रयोगः क्रियते । 4. शतृ-प्रयोगस्य अर्थः लट्-लकारवत् एव । ‘रामः गच्छन् अस्ति’ तथा ‘रामः गच्छति’ एतयोः अर्थयोर्मध्ये कोऽपि भेदः नास्ति । 5. ‘लट्’ इत्यत्र टकारस्य हलन्त्यम् (1.3.3) तथा अकारस्य उपदेशेऽजनुनासिक इत् (1.3.2) इत्यनेन इत्संज्ञा भवति, तयोः तस्य लोपः (1.3.9) इत्यनेन च लोपः भवति । अत्र अकारः अनुनासिकः अस्ति, अतः वस्तुतः अयं लकारः ‘लँट्’ इति लेखनीयः ।

Vasu English Summary

The affix लट् (Present Tense) comes after a verb when denoting a present action.

Vasu English Translation

The affix लट् (Present Tense) comes after a verb when denoting a present action. The word वर्तमान means that which is begun and which has not yet come to an end. The action denoted by a verb in the present tense is yet continuing and has not stopped. As पचति ‘he is cooking’; पठति ‘he is reading’. So also whatever is constant, regular, uniform, is represented by the Present Indefinite. As तिष्ठन्ति पर्वताः ‘the mountains stand’; स्रवन्ति नद्यः ‘the rivers flow’.

Bhashya

वर्तमाने लट् (890) (अथ वर्तमानकालाधिकारः) (519 लट्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 2 आ.17) - प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमानत्वात्॥ - (भाष्यम्) प्रवृत्तस्याविरामे शासितव्या भवन्ती। इहाधीमहे, इह वसामः, इह पुष्यमित्रं याजयाम इति॥ किं पुनः कारणं न सिध्यति?। अवर्तमानत्वात्॥ (3020 आक्षेपवार्तिकम्॥ 2 ॥) - नित्यप्रवृत्ते च कालाविभागात्- (भाष्यम्) नित्यप्रवृत्ते च शासितव्या भवन्ती। तिष्ठन्ति पर्वताः स्रवन्ति नद्य इति। किं पुनः कारणं न सिध्यति? कालाविभागात्। इह भूतभविष्यत्प्रतिद्वन्द्वो वर्तमानः कालः। न चात्र भूतभविष्यन्तौ कालौ स्तः॥ (3021 प्रथमाक्षेपबाधकवार्तिकम्॥ 3॥) - न्याय्या त्वारम्भानपवर्गात्- (भाष्यम्) न्याय्या त्वेषा वर्तमानकालता। कुतः? न्याय्यं मन्यते भुङ्क्ते देवदत्त इति। आरम्भानपवर्गात्। आरम्भोत्रानपवृक्तः। एष एव च नाम न्याय्यो वर्तमानकालो यत्रारम्भो नपवृक्तः॥ (3022 वार्तिकगम्॥ 4 ॥) - अस्ति च मुक्तसंशये विरामः- (भाष्यम्) यं खल्वपि भवान्मुक्तसंशयं वर्तमानकालं न्यायं मन्यते भुङ्क्ते देवदत्त इति। तेनैतत्तुल्यम्। सोपि ह्यवश्यं भुञ्ञ्जानो हसति वा जल्पति वा पानीयं वा पिबति। यद्यत्र युक्ता वर्तमानकालता दृश्यते। इहापि युक्ता दृश्यताम्॥ (2023 द्वितीयाक्षेपबाधकवार्तिकम्॥ 5 ॥) - सन्ति च कालविभागाः- (भाष्यम्) सन्ति च खल्वपि कालविभागाः तिष्ठन्ति पर्वताः, स्थास्यन्ति पर्वताः, तस्थुः पर्वता इति। (आक्षेपभाष्यम्) किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतः सन्ति कालविभागाः?। (समाधानभाष्यम्) नावश्यं प्रयोगादेव। इह हि भूतभविष्यद्वर्तमानानां राज्ञां याः क्रियास्ताः तिष्ठतेरधिकरणम्। इह तावत् तिष्ठन्ति पर्वताः इति, संप्रति ये राजानस्तेषां याः क्रियास्तासु वर्तमानासु। स्थास्यन्ति पर्वताः इति इत उत्तरं ये राजानो भविष्यन्ति पर्वताः इति। इत उत्तरं ये राजानो भविष्यन्ति तेषां याः क्रियास्तासु भविष्यन्तीषु। तस्थुः पर्वताः इति, इह हि ये राजानो बभूवुस्तेषां याः क्रियास्तास्वतिक्रान्तासु॥ (आक्षेपभाष्यम्) अपर आहुः - नास्ति वर्तमानः काल इति॥ अपि चात्र श्लोकानुदाहरन्ति - (भाष्यम्) न वर्तते चक्रमिषुर्न पात्यते। न स्यन्दन्ते सरितः सागराय। कूटस्थोयं लोको न विचेष्टितास्ति। यो ह्येवं पश्यति सोप्यनन्धः॥ मीमांसको मन्यमानो युवा मेधाविसंमतः। काकं स्मेहानुपृच्छति किं ते पतितलक्षणम्॥ अनामते न पतसि अतिक्रान्ते च काक न। यदि संप्रति पतसि सर्वो लोकः पतत्ययम्॥ हिमवानपि गच्छति॥ अनागतमतिक्रान्तं वर्तमानमिति त्रयम्। सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते॥ (आक्षेपपरिहारभाष्यम्) क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम्। तत्समीक्ष्य प्रयुञ्ञ्जीत गच्छतीत्यविचारयन्॥ (मतान्तरेणाक्षेपपरिहारभाष्यम्) अपर आह - अस्ति वर्तमानः काल इति। आदित्यगतिवन्नोपलभ्यत इति॥ अपि चात्रश्लोकमुदाहरन्ति - विसस्य वाला इव दह्यमाना। न लक्ष्यते विकृतिः सन्निपाते। अस्तीति तां वेदयन्ते त्रिभावाः। सूक्ष्मो हि भावोऽनुमितेन गम्यः॥ इति॥ वर्तमाने लट्॥ 123 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्॥

Kashika

प्रारब्धोऽपरिसमाप्तश्च वर्तमानः। तस्मिन् वर्तमानेऽर्थे वर्तमानाद् धातोर्लट् प्रत्ययो भवति। पचति। पठति॥

Siddhanta Kaumudi

वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥

Laghu Siddhanta Kaumudi

वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारणसामर्थ्याल्लस्य नेत्त्वम्। भू सत्तायाम्॥ {$ {! 1 भू !} सत्तायाम् $} (धातुपाठे (01.0001))॥ कर्तृविवक्षायां भू ल् इति स्थिते-

Balamanorama

वर्त्तमाने लट् - वर्तमाने लट् ।धातो॑रिति सूत्रमा तृतीयाध्यायसमाप्तेरधिकृतम् । ‘वर्तमाने’ इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाद्धातोर्लडिति लभ्यते । फलितमाह — वर्तमानक्रियावृत्तेरिति । धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकालवृत्तित्वम् । कालस्य तु वर्तमानत्वम् — अतीतानागतभिन्नकालत्वम् ।भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः काल॑ इति भाष्यम् । वर्तमानत्वं च न प्रत्ययार्थभूतकत्र्रादिविशेषणम् । अतीतपाकादिक्रिये कर्तरि वर्तमाने पचतीत्याद्यापत्तेः, किंतु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट् तु तस्य द्योतक एव । अटाविताविति । न च अकार उच्चारणार्थ एवास्त्विति वाच्यं, लिडादि वैलक्षण्याय तस्यावश्यकत्वात् । तथा च तस्य इत्संज्ञां विना निवृत्त्युपायाऽभावादित्संज्ञैवादर्तव्येति भावः ।

Tattvabodhini

वर्त्तमाने लट् - वर्तमाने लट् । वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्याह — वर्तमानक्रियावृत्तेर्धातोरिति । धातोरिति सूत्रमा तृतीयाध्यायान्तमदिक्रियत इति भावः । लट् स्यादिति । तस्य वाच्यत्वमनुपदमेव स्फुटीभविष्यति । वर्तमानकालस्तु न तद्वाच्यः, किंतु द्योत्य एव । लङादिष्वपि भूतादिकालो यथायथं द्योत्य एवेत्यवगन्तव्यम् । वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि सुगम इति विध्यादिसूत्रे वक्ष्यामः॥ अटाविताविति ।अकार उच्चारणार्थ॑ इति तु नोक्तं, लिडादिवैलक्ष्ण्यसंपादनाय तस्यावश्यवक्तव्यत्वात् ।

Padamanjari

वर्तमाने लट्॥ प्रारब्धोऽपरिसमाप्तश्चेति। अधिश्रयणादिरधः श्रयणपर्यन्त ओदनफलावच्छिन्नो विततरूपो व्यापारनिचयः पचेरर्थः। एवं सर्वत्र स यावता कालेन निवर्तते स कालो वर्तमानः, तद्योगाद्वर्तमानो धात्वर्थ इत्यर्थः। तेन निष्पन्नस्यार्थस्य भूतत्वादनिष्पन्नस्य च भावित्वान्निष्पन्नानिष्पन्नव्यतिरेकेण राश्यन्तरस्याभावाद्वर्तमानाभाव इति चोद्यं परिहृतम्। इहाध्ययने प्रवृता यदा भोजनादिक्रियां कुर्वन्तो नाधीयते तदा अधीयत इति प्रयोगो न प्राप्नोति? नैष दोषः; आफलनिष्पतेरध्ययनमपरिसमाप्तमन्तरालवर्तितु भोजनादिक्वं नान्तरीयकं तस्यैव वावयवक्रिया। यमपि भवान्मुक्तसंशयं वर्तमानकालं न्याय्यं मन्यते - भुङ्क्ते देवदत इति, अत्राप्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबति, तत्र चेद्यौक्ता वर्तमानकालता, इहापि युक्ता द्दश्यताम्। उक्तं च - व्यवधानमिवोपैति निवृत इव द्दश्यते। क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः॥ न च विच्छिन्नरूपोऽपि स विरामान्निवर्तते। सर्वैव हि क्रियाऽन्येन सङ्कीर्णैवोपलभ्यते॥ तदन्तरालद्दष्टा वा सर्वैवावयवक्रिया। साद्दश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते॥ इति। एतदप्यनेनैवोक्तं प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति। इह तिष्ठन्ति पर्वताः, स्रवन्ति सिन्धव इति पर्वतादिस्थित्यादेः सर्वदाभावाद् भूतभविष्यदभावातत्प्रतिद्वन्द्विरूपस्य वर्तमानस्याप्यभाव इति लण् न प्राप्नोति? नैष दोषः; कालत्रयवर्तिनां राज्ञां याः क्रियाः पालनादिका भूतादिभेदेन भिन्नास्ताः पर्वतस्थित्यादेर्भेदिकाः, ततश्च ये सम्प्रति राजानस्तत्क्रियाभेदेन भिन्नाया पर्वतादिस्थितेर्वर्तमानत्वम्। एवं च कृत्वा भूतभविष्यत्कालयोगोऽप्युपपद्यते - -तस्थुः पर्वता नलदुष्यन्तादिकाले, स्थास्यन्ति पर्वताः कल्किविष्णुकाले। लटष्टकारष्टेरेत्वार्थः॥

Nyaas

प्रारब्धोऽपरिसमाप्तश्च इति। प्रारब्धो यः साधयितुं प्रस्तुतः, न च समाप्तिमुपगतः स वर्तमान इत्युच्यते। वर्तमानग्रहणं धात्वधिकारात् तदर्थस्यैव विशेषणं विज्ञायत इत्याह - वर्तमाने इत्यादि। न ह्रधात्वर्थे धातोर्वृत्तिः सम्भवति। लटष्टकारः टित आत्मनेपदानां टेरे (3.4.79) इति विशेषणार्थः। अकारः विदो लटो वा (3.4.83) इति विशेषणार्थः; इकारे ह्रच्चारिते लिडादीनां ग्रहणं स्यात्॥

Prakriyasarvasvam

धातोर्वर्तमानेऽर्थे लट् स्यात् ॥