32074: आतो मनिन्क्वनिब्वनिपश्च

Padacheda: आतः | S | 5 | 1 |

मनिन्-क्वनिप्-वनिपः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affixes मनिन् (मन्), वनिप् (वन्), विनय (वन्) and विच् come in the छन्दस् (Vedas) after the verbs which end in long आ , when used in a case-inflected word or उपसर्ग in in composition.

Vasu English Translation

The affixes मनिन् (मन्), वनिप् (वन्), विनय (वन्) and विच् come in the छन्दस् (Vedas) after the verbs which end in long आ , when used in a case-inflected word or उपसर्ग in in composition. The force of ‘and’ is to include विच्. Thus सुदा + मनिन् = सुदामन्, 1st. sing. सुदामा (Rig. VI.20.7) ‘one who gives liberally’; अश्व + स्था + मनिन् = अश्वत्थामन्, 1st. sing. अश्वत्थामा ‘the name of Asvatthaman’; सुधा + क्वनिप् = सुधी + वन् (VI.4 .66) = सुधीवन्, 1st. sing. सुधीवा ‘having good understanding’; सुपा + क्वनिप् = सुपीवन्, 1st. sing. सुपीवा ‘a good drinker’. भूरि + दा + वनिप् = भूरिदावन्, 1st. sing. भूरिदावा (Rig. II.27.17) ‘liberal’; घृतपावन् 1st. sing. घृतपावा (Yaj. VI.19) ghee-drinker’.

The affix विच् is also included in this aphorism. As कीलाल + पा + विच् = कीलालपाः (Rig. X. 91.14) ‘nectar-drinker’; शुभंवाः (Rig. IV. 3.6.) and Panini (7.3.46) ‘beautifully going’; रामस्योपदाः ‘an offering of Rama.’ (see sutra (3.3.106) and Yajur. Ved. XXX. 9).

Kashika

छन्दसीति वर्तते, सुप्युपसर्गेऽपीति च। आकारान्तेभ्यो धातुभ्यः सुप्युपपदे छन्दसि विषये मनिन् क्वनिब् वनिब् इत्येते प्रत्यया भवन्ति। चकाराद् विज् भवति। सुदा॑मा॒ (ऋ० ६.२०.७)। अश्वत्थामा। क्वनिप् — सुधीवा। सुपीवा । वनिप् — भू॑रि॒दावा॑ (ऋ० ९.८७.४)। घृ॒त॒पावा॒ (शौ०सं० १३.१.२४)। विच् खल्वपि — की॒ला॒ल॒पाः (ऋ० १०.९१.१४)। शुभं॒याः (ऋ० ४.३.६)। रामस्योपदाः॥

Siddhanta Kaumudi

सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप् - (SK2998) ॥

Padamanjari

आतो मनिन्क्वनिब्वनिपश्च॥ अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उतरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युतरत्रानुवर्तिष्यते॥

Nyaas

मनिनो नकार आद्युदात्तार्थः। क्वनिब्वनिपोः पकारानुदात्तार्थौ, इकार उच्चारणार्थः। क्वनिपः पकारः पित्कार्यार्थः, चकारो विचोऽनुकर्षणार्थः। शोभनं ददातीति सुदामासर्वनामस्थाने च (6.4.8) इत्यादिना दीर्घः। अआ इव तिष्ठतीत्यआत्थामा। पृषोदरादित्वात् सकारस्य तकारः। शोभनं दधातीति सुधीवा। शोभनं पिबतीति सुपीवा। धुमादिनेत्त्वम् (6.4.66) । भूरि ददातीति भूरिदावा। घृतं पिबतीति घृतपावा। कीलालं पिबतीति कीलालपाः

Prakriyasarvasvam

आदन्तेभ्य एते स्युः । चकाराद् विडपि । इकारा उक्त्यर्थाः । मनिन् । सुदामा । सुत्रामा । क्वनिपि