32074: आतो मनिन्क्वनिब्वनिपश्च ============================== **Padacheda:** आतः | S | 5 | 1 | मनिन्-क्वनिप्-वनिपः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes मनिन् (मन्), वनिप् (वन्), विनय (वन्) and विच् come in the छन्दस् (Vedas) after the verbs which end in long आ , when used in a case-inflected word or उपसर्ग in in composition. Vasu English Translation ------------------------ The affixes मनिन् (मन्), वनिप् (वन्), विनय (वन्) and विच् come in the छन्दस् (Vedas) after the verbs which end in long आ , when used in a case-inflected word or उपसर्ग in in composition. The force of 'and' is to include विच्. Thus सुदा + मनिन् = सुदामन्, 1st. sing. सुदामा (*Rig*. VI.20.7) 'one who gives liberally'; अश्व + स्था + मनिन् = अश्वत्थामन्, 1st. sing. अश्वत्थामा 'the name of *Asvatthaman*'; सुधा + क्वनिप् = सुधी + वन् (VI.4 .66) = सुधीवन्, 1st. sing. सुधीवा 'having good understanding'; सुपा + क्वनिप् = सुपीवन्, 1st. sing. सुपीवा 'a good drinker'. भूरि + दा + वनिप् = भूरिदावन्, 1st. sing. भूरिदावा (*Rig*. II.27.17) 'liberal'; घृतपावन् 1st. sing. घृतपावा (*Yaj*. VI.19) ghee-drinker'. The affix विच् is also included in this aphorism. As कीलाल + पा + विच् = कीलालपाः (*Rig*. X. 91.14) 'nectar-drinker'; शुभंवाः (*Rig*. IV. 3.6.) and *Panini* (7.3.46) 'beautifully going'; रामस्योपदाः 'an offering of *Rama*.' (see *sutra* (3.3.106) and *Yajur*. *Ved*. XXX. 9). Kashika ------- छन्दसीति वर्तते, सुप्युपसर्गेऽपीति च। आकारान्तेभ्यो धातुभ्यः सुप्युपपदे छन्दसि विषये मनिन् क्वनिब् वनिब् इत्येते प्रत्यया भवन्ति। चकाराद् विज् भवति। सुदा॑मा॒ (ऋ० ६.२०.७)। अश्वत्थामा। क्वनिप् — सुधीवा। सुपीवा । वनिप् — भू॑रि॒दावा॑ (ऋ० ९.८७.४)। घृ॒त॒पावा॒ (शौ०सं० १३.१.२४)। विच् खल्वपि — की॒ला॒ल॒पाः (ऋ० १०.९१.१४)। शुभं॒याः (ऋ० ४.३.६)। रामस्योपदाः॥ Siddhanta Kaumudi ----------------- सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप् - (SK2998) ॥ Padamanjari ----------- आतो मनिन्क्वनिब्वनिपश्च॥ अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उतरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युतरत्रानुवर्तिष्यते॥ Nyaas ----- मनिनो नकार आद्युदात्तार्थः। क्वनिब्वनिपोः पकारानुदात्तार्थौ, इकार उच्चारणार्थः। क्वनिपः पकारः पित्कार्यार्थः, चकारो विचोऽनुकर्षणार्थः। शोभनं ददातीति `सुदामा`। `सर्वनामस्थाने च` (6.4.8) इत्यादिना दीर्घः। अआ इव तिष्ठतीत्यआत्थामा। पृषोदरादित्वात् सकारस्य तकारः। शोभनं दधातीति `सुधीवा`। शोभनं पिबतीति `सुपीवा`। धुमादिनेत्त्वम् (6.4.66) । भूरि ददातीति `भूरिदावा`। घृतं पिबतीति `घृतपावा`। कीलालं पिबतीति `कीलालपाः`॥ Prakriyasarvasvam ----------------- आदन्तेभ्य एते स्युः । चकाराद् विडपि । इकारा उक्त्यर्थाः । मनिन् । सुदामा । सुत्रामा । क्वनिपि