32037: उग्रम्पश्येरम्मदपाणिन्धमाश्च¶
Padacheda: उग्रम्पश्य-इरम्मद-पाणिन्धमाः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The words उग्रम्पश्य , इरम्मद , पाणिन्धम are irregularly formed.
Vasu English Translation¶
The words उग्रम्पश्य , इरम्मद , पाणिन्धम are irregularly formed. Thus उग्रं पश्यति = उग्रम्पश्यः ‘fierce-looking’; इरया मद्यति = इरम्मदः ‘delighting in drinking an epithet of Agni, a flash of lightning’. So पाणिन्धमाः पन्थानः ‘chilly roads’.
Kashika¶
उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उगं्र पश्यतीत्युग्रम्पश्यः। इरया माद्यतीतीरम्मदः। पाणयो ध्मायन्त एष्विति पाणिन्धमाः पन्थानः॥
Siddhanta Kaumudi¶
एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् न श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥
Balamanorama¶
उग्रम्पश्येरम्मदपाणिन्धमाश्च - उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् — उदकमिति । इरम्मद इति ।खित्यनव्ययस्ये॑ति ह्रस्वः । मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह — निपातनाच्छ्यन्नेति । पाणिन्धम इति । शपिपाघ्रे॑ति धमादेशः ।
Padamanjari¶
उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति।’मदी हर्षे’ दिवादित्वाच्छयनि प्राप्ते तदभावो निपातनात्। इराऊदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्तेउशब्द्यन्ते॥
Nyaas¶
उग्रम्पश्य इति। कर्मण्यण् (3.2.1) इति प्राप्ते दृशेः खश् निपात्यते। पूर्ववत् पश्यादेशः। इरम्मदः`इति। `इरया माद्यति`इति। `मदी हर्षे (धातुपाठः-1208)। तृजादिषु प्राप्तेषु खश् निपात्यते। तत्र दिवादित्वाच्छ्यनि प्राप्ते तदभावो निपात्यते। पाणिन्धमाः इति। अधिकरणे ल्युटि प्राप्ते खश् निपात्यते। पूर्ववद्धमादेशः।
Prakriyasarvasvam¶
<karika>उग्रम्पश्यः क्रूरदृष्टिरुग्रं पापं विदन्नपि । इरया वारिणा माद्यन् वैद्युताग्निरिरम्मदः ॥ ८५ ॥</karika> <karika>सर्पास्पृश्यादिरोधार्थं ध्मायन्ते यत्र पाण्यः । सोऽध्वा पाणिन्धमोऽत्राधिकरणार्थो निपातनात् ॥ ८६ ॥</karika> चकारात् करन्धमः शुनिन्धमश्चेति कौमुदी ।
Sutra Prayogas¶
उग्रं-पश्या (भट्टिकाव्यम्): उग्रम्पश्य इत्यादिना खशु निपात्यते।
उग्रं-पश्येन (भट्टिकाव्यम्): उग्रम्पश्येरिम्मदपाणिन्धमाश्च इति निपातितम्।