32037: उग्रम्पश्येरम्मदपाणिन्धमाश्च =================================== **Padacheda:** उग्रम्पश्य-इरम्मद-पाणिन्धमाः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The words उग्रम्पश्य , इरम्मद , पाणिन्धम are irregularly formed. Vasu English Translation ------------------------ The words उग्रम्पश्य , इरम्मद , पाणिन्धम are irregularly formed. Thus उग्रं पश्यति = उग्रम्पश्यः 'fierce-looking'; इरया मद्यति = इरम्मदः 'delighting in drinking an epithet of *Agni*, a flash of lightning'. So पाणिन्धमाः पन्थानः 'chilly roads'. Kashika ------- उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उगं्र पश्यतीत्युग्रम्पश्यः। इरया माद्यतीतीरम्मदः। पाणयो ध्मायन्त एष्विति पाणिन्धमाः पन्थानः॥ Siddhanta Kaumudi ----------------- एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् न श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥ Balamanorama ------------ **उग्रम्पश्येरम्मदपाणिन्धमाश्च** - उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् — उदकमिति । इरम्मद इति ।खित्यनव्ययस्ये॑ति ह्रस्वः । मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह — निपातनाच्छ्यन्नेति । पाणिन्धम इति । शपिपाघ्रे॑ति धमादेशः । Padamanjari ----------- उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति।'मदी हर्षे' दिवादित्वाच्छयनि प्राप्ते तदभावो निपातनात्। इराऊदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्तेउशब्द्यन्ते॥ Nyaas ----- `उग्रम्पश्य` इति। **कर्मण्यण्** (3.2.1) इति प्राप्ते दृशेः खश् निपात्यते। पूर्ववत् पश्यादेशः। `इरम्मदः`इति। `इरया माद्यति`इति। `मदी हर्षे` (धातुपाठः-1208)। तृजादिषु प्राप्तेषु खश् निपात्यते। तत्र दिवादित्वाच्छ्यनि प्राप्ते तदभावो निपात्यते। `पाणिन्धमाः` इति। अधिकरणे ल्युटि प्राप्ते खश् निपात्यते। पूर्ववद्धमादेशः। Prakriyasarvasvam ----------------- उग्रम्पश्यः क्रूरदृष्टिरुग्रं पापं विदन्नपि । इरया वारिणा माद्यन् वैद्युताग्निरिरम्मदः ॥ ८५ ॥ सर्पास्पृश्यादिरोधार्थं ध्मायन्ते यत्र पाण्यः । सोऽध्वा पाणिन्धमोऽत्राधिकरणार्थो निपातनात् ॥ ८६ ॥ चकारात् करन्धमः शुनिन्धमश्चेति कौमुदी । Sutra Prayogas -------------- * **उग्रं-पश्या** (भट्टिकाव्यम्): `उग्रम्पश्य` इत्यादिना खशु निपात्यते। * **उग्रं-पश्येन** (भट्टिकाव्यम्): `उग्रम्पश्येरिम्मदपाणिन्धमाश्च` इति निपातितम्।