32011: आङि ताच्छील्ये¶
Padacheda: आङि | S | 7 | 1 |
ताच्छील्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अच् comes after the verb हृञ् (when the object is in composition with it) the root taking the preposition आञ् and the sense of the word to be formed in inclination or accustomed occupation.
Vasu English Translation¶
The affix अच् comes after the verb हृञ् (when the object is in composition with it) the root taking the preposition आङ् and the sense of the word to be formed in inclination or accustomed occupation. The word ताच्छील्यं means a natural inclination or habitual occupation; as पुष्पाहरः (पुष्प + आहरति = पुष्प + आहर) ‘he who has a natural tendency towards fetching flowers or whose habitual occupation is to collect flowers’; so also फलाहरः ।
Why do we say ‘when denoting inclination’? Otherwise the affix will be अण्; as भारमाहरति = भाराहारः ‘who brings load’.
Kashika¶
आङ्पूर्वाद् हरतेः कर्मण्युपपदेऽच् प्रत्ययो भवति ताच्छील्ये गम्यमाने। ताच्छील्यं तत्स्वभावता। पुष्पाहरः। फलाहरः। पुष्पाद्याहरणे स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्येत्यर्थः। ताच्छील्य इति किम्? भारमाहरतीति भाराहारः॥
Siddhanta Kaumudi¶
पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥
Balamanorama¶
आङि ताच्छील्ये - आङि ताच्छील्ये । आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यं - तत्स्वभावता । पुष्पाहर इति । पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः ।
Padamanjari¶
आङ् ताच्छील्ये॥ पुष्पाद्याहिरणे इत्यादिना ताच्छील्यमुदाहरणे दर्शयति। स्वाभाविकीति। स्वभावे भवा स्वाभाविकी, अध्यात्मादिः। स्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते। भाष्यकारप्रयोगातु द्वारादिकार्याभावः, स्वार्थिकस्वाभाविकश्ब्दौ भाष्ये प्रयुक्तौ। अस्य विवरणम् - फलानपेक्षेति। कथं पुनः फलमनपेक्ष्य तत्र प्रवर्तते, न हि स्वभावः पर्यनुयोगमर्हति॥
Nyaas¶
अनुद्यमनमिति निवृत्तम्। तेनाविशेषाल्लभ्यते - उद्यमने चायं विधिरिति। ननु चानुद्यमने पूर्वेणैव सिद्धम्, परत्वाद्धि तृन् प्राप्नोति, वासरूपविधानादजपि भवति? नैतदस्ति; वक्ष्यति ह्रेतत् - ताच्छीलिकेषु वासरूपेण तृजादयो न भवन्तीति। ताच्छील्यं तत्स्वभावता इति। तत् पुनर्मानसो धर्मः। फलनिरपेक्षया प्रवृत्तिरनुमीयते। `पुष्पाहरः`इत्यादिना ताच्छील्यमुदाहरति॥
Prakriyasarvasvam¶
आहृञस्ताच्छील्ये द्योत्येऽच् । गन्धाहरो वायुः ।
Sutra Prayogas¶
समित्कुशफलाहरैः (रघुवंशम्): आङिताच्छील्ये इति हरतेराङ्पूर्वादच्प्रत्ययः।
**** (भट्टिकाव्यम्): अम्नौ चेः इति किप् ।
सुखाऽऽहरो (भट्टिकाव्यम्): आङि ताच्छील्ये इति सुखाऽऽहरो इत्यत्र अच्-प्रत्ययः।