32010: वयसि च¶
Padacheda: वयसि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix अच् comes after the verb हृञ् when the object is in composition with it and when the meaning of the word to be formed is descriptive of age.
Vasu English Translation¶
The affix अच् comes after the verb हृञ् when the object is in composition with it and when the meaning of the word to be formed is descriptive of age. In this sutra the verb हृञ् has the sense of udyamana which was specifically excluded in the last. The word वयस् means the condition of human body as dependent upon time. This rule applies to those words which indicate the attainment of appropriate age for the accomplishment of objects described by the upapada, or the reaching of that age in which the thing described by the upapada naturally takes place; as अस्थिहरः श्वा ‘the dog that has reached the age when it can chew bones’ (lit. when it can raise it up); कवचहरः क्षत्रियकुमारः ‘the Kshatriya boy old enough to wear (lit. ‘to raise up or bear’) the shield’; so that the verb here has the sense of ‘raising up’.
Kashika¶
वयसि गम्यमाने हरतेः कर्मण्युपपदेऽच् प्रत्ययो भवति। उद्यमनार्थोऽयमारम्भः। कालकृता शरीरावस्था यौवनादिर्वयः। यदुद्यमनं क्रियमाणं संभाव्यमानं वा वयो गमयति, तत्रायं विधिः। अस्थिहरः श्वा। कवचहरः क्षत्रियकुमारः॥
Siddhanta Kaumudi¶
उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥
Balamanorama¶
वयसि च - वयसि च । कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः । ननुहरतेरनुद्यमनेऽ॑जित्येव सिद्धे किमर्थमिदमित्यत आह — उद्यमनार्थमिति ।
Tattvabodhini¶
वयसि च - कवचहर इति । कवचोद्यमनं क्रियमाणं, संभाव्यमानं वा वयो गमयति । तनाऽसत्यपि कवचग्रहणेकवचहर॑ इति भवत्येव ।
Padamanjari¶
वयसि च॥ संभाव्यमानं वेति। तेनासत्यपि कवचग्रहणे वयसि गम्यमाने कवचहर इति भवतीति भावः॥
Nyaas¶
उद्यमनार्थोऽयमारम्भः इति। अनुद्यमने पूर्वेणैव सिद्धत्वात्। `अस्थिहरः`इति। अस्थ्युत्क्षेपणसमर्थे वयसि वर्तत इत्यर्थः॥
Prakriyasarvasvam¶
वयसि द्योत्ये हृञोऽच् । कवचहरः ।
Sutra Prayogas¶
वर्महरं (रघुवंशम्): वयसि च इत्यच्प्रत्ययः।
वर्म-हरौ (भट्टिकाव्यम्): वयसि च इति वर्महरौ इत्यत्र अच्-प्रत्ययः।