31150: आशिषि च¶
Padacheda: आशिषि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix वुन् is applied after all verbs when Benediction is intended.
Vasu English Translation¶
The affix वुन् is applied after all verbs when Benediction is intended. As, जीव् + वुन् = जीवकः ‘may he live’; नन्दकः ‘may he be happy’.
The word आशीः means a sort of prayer; and it relates to action. The force of this affix is that of ‘an agent with the addition that the action is simply the object of a prayer of some one who wishes that that may be the action of that agent’.
Kashika¶
आशिषि गम्यमानायां धातुमात्राद् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स चेह क्रियाविषयः। अमुष्याः क्रियायाः कर्ता भवेदित्येवमाशास्यते॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमःपादः॥
Siddhanta Kaumudi¶
आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात् - नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥
Balamanorama¶
आशिषि च - आशिषि च । जीवक इत । आशास्यमानजीवनक्रियाश्रय इत्यर्थः । एवं नन्दकः । आशीरिति । आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं = नन्दकशब्दप्रयोगः । औचित्यादिति भावः । [इति तृतीयाध्यायस्य प्रथमः पादः] । अथ तृतीयाध्यायस्य द्वितीयः पादः ।
Tattvabodhini¶
आशिषि च - आशिषि च । अप्राप्तप्रार्थनमाशीः । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः,कर्तरि कृ॑दिति कत्र्रर्थे विधानादित्याशयेनाह — आशीर्विषयार्थेत्यादिना । जीवतादिति । जीवनं तव भूयादित्यर्थः । जीवक इति । स्त्रियां तु टापिआशिषि वुनश्च ने॑ति निषेधात्प्रत्ययस्था॑दिति इत्त्वाऽभावः । जीवका । कर्मण्यण् । उपपदसमास इति ।तत्रोपपदम॑मिति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम्उपपद[मति॑ ङिति] समास इत्यर्थः । कुम्भकार इति । अणि कृतेकर्तृकर्मणोः कृतिर॑ इति षष्ठन्तस्य कुम्भशब्दस्य कारशब्देन समासः । *ईक्षिक्षमिभ्यां च । शेषत्वविवक्षायामिति । पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तदन्तेन समास इति सुवचम् । स्यादेतत् — धातोर्विधीयमानस्याऽणादेः पदविधित्वाऽभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमित्यादावसमर्थादपि धातोरणादयः स्युरिति चेत् । अत्राहुः — कुम्भाद्युपपदे विधीयमानस्याऽणादेरपि पदाश्रितारविधित्वात्समर्थपरिभाषोपस्थानान्नोक्तदोषः । उपोच्चारितं पपदं ह्रुपपदं, पदं च सुप्तिङन्तमिति प्रागेवोक्तत्वादिति ।
Padamanjari¶
आशिषि च॥ आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्तरि कृत्ऽ इति कर्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थनाउआशीः। स चेत्क्रियाविषय इति।’धातोः’ इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तृधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो तृतीयस्याध्यायस्य प्रथमः पादः॥
Nyaas¶
आशिषि गम्यमानायाम् इति। न वाच्यायाम्। कर्तरि कृत् (3.4.67) इति कर्त्तुरेव प्रत्ययान्तवाच्यत्वात्। धातुमात्रात् इति। धातुसामान्यविवक्षितत्वात्, प्रुसृल्वाञ्च निवर्तितत्वात्। अन्यस्य चेह धातुविशेषस्यानाश्रयणात्। धातुमात्राश्रयो भवति, न तु कुतश्चिदेव विशेषात्। जीवतात्, नन्दतात् इति। आशिषि लोट्प्रयोगेण जीवकनन्दयोस्तत्समानार्थतां दर्शयति। का पुनरियमाशीर्नामेत्याह - आशीः प्रार्थनाविशेषः इति। अप्राप्तस्याभीष्टस्य वस्तुनः प्रार्थना = आशीः। सा चेह क्रियाविषया`इति। क्रिया विषयोऽस्या इति बहुव्रीहिः। एष चार्थो धातुग्रहणात्, धातोश्च क्रियावाचित्वाद्विज्ञायते। `अमुष्याः क्रियायाः इति। जीवनक्रियाया नन्दनक्रियायाश्च कर्ता भवेदित्येवमाशास्यते - जीवनं नन्दनञ्च ते भूयादिति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यप्रथमः पादः
Prakriyasarvasvam¶
आशिषि द्योत्यायां धातोः वुन् स्यात् । जयको भूयाद् भवान् ।