31150: आशिषि च ============== **Padacheda:** आशिषि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुन् is applied after all verbs when Benediction is intended. Vasu English Translation ------------------------ The affix वुन् is applied after all verbs when Benediction is intended. As, जीव् + वुन् = जीवकः 'may he live'; नन्दकः 'may he be happy'. The word आशीः means a sort of prayer; and it relates to action. The force of this affix is that of 'an agent with the addition that the action is simply the object of a prayer of some one who wishes that that may be the action of that agent'. Kashika ------- आशिषि गम्यमानायां धातुमात्राद् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स चेह क्रियाविषयः। अमुष्याः क्रियायाः कर्ता भवेदित्येवमाशास्यते॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमःपादः॥ Siddhanta Kaumudi ----------------- आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात् - नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥ Balamanorama ------------ **आशिषि च** - आशिषि च । जीवक इत । आशास्यमानजीवनक्रियाश्रय इत्यर्थः । एवं नन्दकः । आशीरिति । आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं = नन्दकशब्दप्रयोगः । औचित्यादिति भावः । [इति तृतीयाध्यायस्य प्रथमः पादः] । अथ तृतीयाध्यायस्य द्वितीयः पादः । Tattvabodhini ------------- **आशिषि च** - आशिषि च । अप्राप्तप्रार्थनमाशीः । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः,कर्तरि कृ॑दिति कत्र्रर्थे विधानादित्याशयेनाह — आशीर्विषयार्थेत्यादिना । जीवतादिति । जीवनं तव भूयादित्यर्थः । जीवक इति । स्त्रियां तु टापिआशिषि वुनश्च ने॑ति निषेधात्प्रत्ययस्था॑दिति इत्त्वाऽभावः । जीवका । कर्मण्यण् । उपपदसमास इति ।तत्रोपपदम॑मिति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम्उपपद[मति॑ ङिति] समास इत्यर्थः । कुम्भकार इति । अणि कृतेकर्तृकर्मणोः कृतिर॑ इति षष्ठन्तस्य कुम्भशब्दस्य कारशब्देन समासः । *ईक्षिक्षमिभ्यां च । शेषत्वविवक्षायामिति । पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तदन्तेन समास इति सुवचम् । स्यादेतत् — धातोर्विधीयमानस्याऽणादेः पदविधित्वाऽभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमित्यादावसमर्थादपि धातोरणादयः स्युरिति चेत् । अत्राहुः — कुम्भाद्युपपदे विधीयमानस्याऽणादेरपि पदाश्रितारविधित्वात्समर्थपरिभाषोपस्थानान्नोक्तदोषः । उपोच्चारितं पपदं ह्रुपपदं, पदं च सुप्तिङन्तमिति प्रागेवोक्तत्वादिति । Padamanjari ----------- आशिषि च॥ आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्तरि कृत्ऽ इति कर्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थनाउआशीः। स चेत्क्रियाविषय इति।'धातोः' इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तृधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो तृतीयस्याध्यायस्य प्रथमः पादः॥ Nyaas ----- `आशिषि गम्यमानायाम्` इति। न वाच्यायाम्। `कर्तरि कृत्` (3.4.67) इति कर्त्तुरेव प्रत्ययान्तवाच्यत्वात्। `धातुमात्रात्` इति। धातुसामान्यविवक्षितत्वात्, प्रुसृल्वाञ्च निवर्तितत्वात्। अन्यस्य चेह धातुविशेषस्यानाश्रयणात्। धातुमात्राश्रयो भवति, न तु कुतश्चिदेव विशेषात्। `जीवतात्, नन्दतात्` इति। आशिषि लोट्प्रयोगेण जीवकनन्दयोस्तत्समानार्थतां दर्शयति। का पुनरियमाशीर्नामेत्याह - `आशीः प्रार्थनाविशेषः` इति। अप्राप्तस्याभीष्टस्य वस्तुनः प्रार्थना = आशीः। `सा चेह क्रियाविषया`इति। क्रिया विषयोऽस्या इति बहुव्रीहिः। एष चार्थो धातुग्रहणात्, धातोश्च क्रियावाचित्वाद्विज्ञायते। `अमुष्याः क्रियायाः` इति। जीवनक्रियाया नन्दनक्रियायाश्च कर्ता भवेदित्येवमाशास्यते - जीवनं नन्दनञ्च ते भूयादिति॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यप्रथमः पादः Prakriyasarvasvam ----------------- आशिषि द्योत्यायां धातोः वुन् स्यात् । जयको भूयाद् भवान् ।