31147: ण्युट् च

Padacheda: ण्युट् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix ण्युट् is also used after the verb गै ‘to sing’ when the agent so expressed denotes an artist.

Vasu English Translation

The affix ण्युट् is also used after the verb गै ‘to sing’ when the agent so expressed denotes an artist. By the word च ‘also’, the word गा of the last sutra is drawn into this. Thus गै + ण्युट् = गा + अन (VII.I.I) = गायनः fem. गायनी; the य is added by (7.3.33).

The separation of these rules (yoga-vibhaga ) relating to गै is for the purpose of the sutras that follow. Had गस्थकन् and ण्युट् च been made one aphorism, the anuvritti of both these affixes would have run into the subsequent sutras. But it is intended that the anuvritti of ण्युट् should only run, and hence this yoga-vibhaga or division of one sutra into two.

Kashika

चकारेण ग इत्यनुकृष्यते। गायतेर्ण्युट् प्रत्ययो भवति शिल्पिनि कर्तरि। गायनः। गायनी। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

गायनः । टित्त्वाद्गायनी ॥

Balamanorama

ण्युट् च - ण्युट् च । चकार उक्तसमुच्चये । गायतेर्ण्युट्, थकन् च शिल्पिनि कर्तरि । गायन इति । आत्वे युक् । ‘आदेचः’ इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात् । यद्यपिगस्थकन्- ण्युट् चे॑त्येकमेव सूत्रमुचितम्, तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः ।

Tattvabodhini

ण्युट् च - ण्युट् च । योगविभाग उत्तरत्र अस्यैवाऽनुवृत्त्यर्थः । गायन इति ।आतो युक् ।

Padamanjari

ण्युट् च॥ णकारो युगर्थः, टकारो ङीबर्थः। योगविभाग उतरार्थ इति। उतरत्र ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति॥

Nyaas

गायनः इति। आतो युक् चिण्कृतोः (7.3.33) इति युक्। गायनी। टित्त्वान्ङीप्। योगविभाग उत्तरार्थः इति। उत्तरत्र चकारेण ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति। गो ण्युट्थकनौ इत्येकयोगे थकन्नप्यनुकृष्येत॥

Prakriyasarvasvam

गाधातोः शिल्पिनि ण्युट् च स्यात् । टो ङीबर्थः । गायनः । गायनी ।