31146: गस्थकन्

Padacheda: गः | S | 5 | 1 |

थकन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix थकन् (थक) comes after the verb गै ‘to sing’ when the agent so expressed, denotes an artist.

Vasu English Translation

The affix थकन् (थक) comes after the verb गै ‘to sing’ when the agent so expressed, denotes an artist. As, गै + थकन् = गाथकः (6.1.45) ‘a singer’, sem. गाथिका.

Kashika

गायतेस्थकन् प्रत्ययो भवति शिल्पिनि कर्तरि। गाथकः। गाथिका॥

Siddhanta Kaumudi

गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥

Balamanorama

गस्थकन् - गस्थकन् ।गः - थक्न्निति च्छेदः । गैधातोः कृतात्वस्य ‘ग’ इति पञ्चम्यन्तम् । तदाह — गायतेरिति ।

Tattvabodhini

गस्थकन् - गस्थकन् । गामादागर्हणेष्वविशेषेऽपि गै शब्द इत्ययमेवेह गृह्रते न तु गाङ् गताविति, थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थं इत्याशयेनाह — गायतेरिति ।

Padamanjari

गस्थकन्॥ गायतेरिति।’कै गै शब्दे’ ‘गामादाग्रहणे ष्वविशेषः’ इति’गाङ् गतौ’ इत्यस्यापि ग्रहणं प्राप्तम्, अनभिधानान्न भवति। थकन्प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः॥

Nyaas

गः इति। आतो धातोः (6.4.140) इत्याकारलोपं कृत्वा गै शब्दे (धातुपाठः-917) इत्यस्यायं निर्देशः। अत एवाह - गायतेः`इति। ननु च `गामादाग्रहणेष्वविशेषणः (व्या।प।124) इति गाङ् गतौ (धातुपाठः-950) इत्यास्यपि ग्रहणेन भवितव्यम्? नैतत्; यस्माद् गाथक इति थकन्प्रत्ययान्तेन गायत्यर्थविशेष एव शिल्पिनि कर्त्तृत्वं विज्ञायते; न तु गाङर्थविषये। थकनो नकार आद्युदात्तार्थः॥

Prakriyasarvasvam

गानशिल्पी गाथकः ।

Sutra Prayogas

  • गाथकैः (भट्टिकाव्यम्): गस्थकन् इति।

  • गायनान् (भट्टिकाव्यम्): गस्थकन् इति ण्युट् च।