31016: बाष्पोष्मभ्यामुद्वमने

Padacheda: बाष्प-ऊष्मभ्याम् | S | 5 | 2 |

उद्वमने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix क्यङ् is used in the sense of ejecting after the words वाष्प ‘vapour’ and ऊष्म ‘heat’ as the object of the action.

Vasu English Translation

The affix क्यङ् is used in the sense of ejecting after the words वाष्प ‘vapour’ and ऊष्म ‘heat’ as the object of the action. Thus, बाष्पायते ‘it emits vapour’; उष्मायते ‘it sends out heat’. So also फेनायते ‘it ejects froth’.

Bhashya

बाष्पोष्मभ्यामुद्वमने (633) (314 क्यङ्प्रत्ययविधिसूत्रम्॥ 6.1.2 आ. 8 सूत्रम्) (1754 न्यूनतापूरकवार्तिकम्॥ 1 ॥) - फेनाच्च- (भाष्यम्) फेनाच्चेति वक्तव्यम्। फेनायते। बाष्पो॥ 16 ॥

Kashika

कर्मण इति वर्तते। बाष्पशब्दादूष्मशब्दाच्च कर्मण उद्वमनेऽर्थे क्यङ् प्रत्ययो भवति। बाष्पमुद्वमति, बाष्पायते। ऊष्मायते॥ फेनाच्चेति वक्त व्यम्॥ फेनमुद्वमति, फेनायते॥

Siddhanta Kaumudi

आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ।<!फेनाच्चेति वाच्यम् !> (वार्तिकम्) ॥ फेनायते ॥

Balamanorama

बाष्पोष्माभ्यां उद्वमने - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः ।

Nyaas

फेनाच्चेति वक्तव्यम् इति। फेनशब्दाद्वमनेऽर्थे वर्तमानात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु - भृशादिभ्यः (3.1.12) इत्यतः सूत्राच्चकारमनुक्तसमुच्चयार्थमनुवर्त्त्य कर्तव्यम्॥करणशब्देनात्र क्रियोच्यते, न साधकतमम्। यस्मात् कर्मणः (3.1.15) इत्यधिकाराच्छब्दादिभ्यः कर्मभ्य एव प्रत्ययेन भवितव्यम्। तत्र यदि साधकतमे प्रत्ययः स्यात् प्रकृतिप्रत्ययावसम्बद्धौ स्याताम्, क्रियापेक्षत्वाच्च कर्मत्वस्य क्रियाया अभावे कर्मत्वं न स्यात्। तस्मात् क्रियावचन एव करणशब्दं निश्चित्याह - करणे करोत्यर्थे`इति।`सुदिन इत्यादि। सुदिनादिभ्यः कर्मभ्यः करमए करोत्यर्थे क्यङप्रत्ययो भवति#ईत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु - इहापि तमेवानुक्तसमुच्चयार्थ चकारमनुवर्त्त्य कर्तव्यम्। अत एवानुक्तसमुच्चयार्थाच्चाकारादटादीनामपि ग्रहणम्। तेनटायत इत्याद्यपि सिद्धं भवति।अटाट्ट इत्यादि। अटादीनां ग्रहणमुपादानमित्यर्थः। अयञ्च तत्करोति (वा।200) इति णिचि प्राप्त आरम्भः; सोऽपीष्यते - शब्दयति, वैरयतीति। तस्मादेतदर्थापि चकारानुवृत्तिर्वेदितव्या॥

Prakriyasarvasvam

एषां किति ङिति च परे संप्रसारणं स्यात् । प्रतिगृह्यम् । ण्यति प्रतिग्राह्यम् । अपिगृह्यम् । अपिग्राह्यम् । अपिग्रहणमाच्छादनम् ।

Vartika

फेनाच्चेति वक्तव्यम् ।

Sutra Prayogas

  • बाष्पायमाणो (रघुवंशम्): बाष्पोष्मभ्यामुद्वमने इति क्यङ्प्रत्ययः।