31016: बाष्पोष्मभ्यामुद्वमने ============================ **Padacheda:** बाष्प-ऊष्मभ्याम् | S | 5 | 2 | उद्वमने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्यङ् is used in the sense of ejecting after the words वाष्प 'vapour' and ऊष्म 'heat' as the object of the action. Vasu English Translation ------------------------ The affix क्यङ् is used in the sense of ejecting after the words वाष्प 'vapour' and ऊष्म 'heat' as the object of the action. Thus, बाष्पायते 'it emits vapour'; उष्मायते 'it sends out heat'. So also फेनायते 'it ejects froth'. Bhashya ------- बाष्पोष्मभ्यामुद्वमने (633) (314 क्यङ्प्रत्ययविधिसूत्रम्॥ 6.1.2 आ. 8 सूत्रम्) (1754 न्यूनतापूरकवार्तिकम्॥ 1 ॥) - फेनाच्च- (भाष्यम्) फेनाच्चेति वक्तव्यम्। फेनायते। बाष्पो॥ 16 ॥ Kashika ------- कर्मण इति वर्तते। बाष्पशब्दादूष्मशब्दाच्च कर्मण उद्वमनेऽर्थे क्यङ् प्रत्ययो भवति। बाष्पमुद्वमति, बाष्पायते। ऊष्मायते॥ फेनाच्चेति वक्त व्यम्॥ फेनमुद्वमति, फेनायते॥ Siddhanta Kaumudi ----------------- आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते । (वार्तिकम्) ॥ फेनायते ॥ Balamanorama ------------ **बाष्पोष्माभ्यां उद्वमने** - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः । Nyaas ----- `फेनाच्चेति वक्तव्यम्` इति। फेनशब्दाद्वमनेऽर्थे वर्तमानात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु - `भृशादिभ्यः` (3.1.12) इत्यतः सूत्राच्चकारमनुक्तसमुच्चयार्थमनुवर्त्त्य कर्तव्यम्॥करणशब्देनात्र क्रियोच्यते, न साधकतमम्। यस्मात् `कर्मणः` (3.1.15) इत्यधिकाराच्छब्दादिभ्यः कर्मभ्य एव प्रत्ययेन भवितव्यम्। तत्र यदि साधकतमे प्रत्ययः स्यात् प्रकृतिप्रत्ययावसम्बद्धौ स्याताम्, क्रियापेक्षत्वाच्च कर्मत्वस्य क्रियाया अभावे कर्मत्वं न स्यात्। तस्मात् क्रियावचन एव करणशब्दं निश्चित्याह - `करणे करोत्यर्थे`इति।`सुदिन` इत्यादि। सुदिनादिभ्यः कर्मभ्यः करमए करोत्यर्थे क्यङप्रत्ययो भवति#ईत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु - इहापि तमेवानुक्तसमुच्चयार्थ चकारमनुवर्त्त्य कर्तव्यम्। अत एवानुक्तसमुच्चयार्थाच्चाकारादटादीनामपि ग्रहणम्। तेनटायत इत्याद्यपि सिद्धं भवति।`अटाट्ट` इत्यादि। अटादीनां ग्रहणमुपादानमित्यर्थः। अयञ्च `तत्करोति` (वा।200) इति णिचि प्राप्त आरम्भः; सोऽपीष्यते - शब्दयति, वैरयतीति। तस्मादेतदर्थापि चकारानुवृत्तिर्वेदितव्या॥ Prakriyasarvasvam ----------------- एषां किति ङिति च परे संप्रसारणं स्यात् । प्रतिगृह्यम् । ण्यति प्रतिग्राह्यम् । अपिगृह्यम् । अपिग्राह्यम् । अपिग्रहणमाच्छादनम् । Vartika ------- फेनाच्चेति वक्तव्यम् । Sutra Prayogas -------------- * **बाष्पायमाणो** (रघुवंशम्): `बाष्पोष्मभ्यामुद्वमने` इति क्यङ्प्रत्ययः।