31013: लोहितादिडाज्भ्यः क्यष्

Padacheda: लोहितादि-डाज्भ्यः | S | 5 | 3 |

क्यष् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix क्यष् in the sense of becoming what the thing previously was not, is used after the words लोहित etc. and after those that end with the affix डाच् – अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5.4.57), when these words do not take the affix च्वि – अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5.4.57).

Vasu English Translation

The affix क्यष् in the sense of becoming what the thing previously was not, is used after the words लोहित etc. and after those that end with the affix डाच् – अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5.4.57), when these words do not take the affix च्वि – अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5.4.57). Thus लोहितायते or लोहितायति ‘he becomes red’; पटपटायते or पटपटायति ‘he makes a noise like patapata’; (लोहित + य = लोहिता + य = लोहिताय, (7.4.25)).

The word पटपटायते is formed by adding the affix dach to the word पट which is first reduplicated, and then takes the denominative affix kyash. The affix dach is added to express inarticulate sounds.

There is no special class called lohitadi. The Vartika, therefore, proposes that the sutra should read without the word adi, as लोहितादिभ्यः क्यष्; ‘the affix kyash comes after lohita, and words ending in dach’.

This rule applies to words other than भ्रिशादि which are always invariably Atmanepadi owing to the ङित्, affix क्यङ्, while क्यष् is optionally both. (1.3.90). Thus वर्मायति or वर्मायते, निद्रायति or निद्रायते, करुणायति or करुणायते, कृपायति or कृपायते. The lohitadi is an आकृतिगण, the following being some of the words of this class; लोहित, नील, हरित, पीत, मद्र, फेन and मन्द.

The indicatory क in क्यष् is not for the sake of prohibiting guna and vriddhi (1.1.5). For guna or vriddhi takes place in a dhatu followed by a sarvadhatuka or ardhadhatuka affix. The affix क्यष् is not added to a dhatu but to a nominal stem : hence there is no scope for the operation of guna &c. The क is for the sake of grouping क्यच्, क्यङ् and क्यष् in one class as क्य; as in sutra नः क्ये (1.4.15). There is, however, no word ending in न among those enumerated above.

The affix डाच् (5.4.57) comes when the verb following is one of the three अस्, भू, or कृ; as पटपटाकरोति, -भवति or -स्यात्. The present sutra teaches by implication that when क्यष् follows डाच्, the above restriction, that the verb should be कृ, भू or अस्, is not applicable. Here डाच् comes without the addition of कृ, भू or अस्ति.

The anuvritti of अच्वेः comes from the last sutra; and hence the affix मयप् is added in the sense of अभूततद्भाव i.e. something becoming that which it was not before.

Bhashya

लोहितादिडाज्भ्यः क्यष् (630) (691 क्यष्प्रत्ययविधिसूत्रम्॥ 6.1.2 आ. 5. सूत्रम्) (ककारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थः ककारः?। (प्रयोजनभाष्यम्) गुणवृद्धिप्रतिषेधार्थः। क्ङिति चेति गुणवृद्धिप्रतिषेधो यथा स्यात्॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। सार्वधातुकार्द्धधातुकयोरङ्गस्य गुण उच्यते। धातोश्च विहितः प्रत्ययः शेष आर्द्धधातुकसंज्ञां लभते। न चायं धातोर्विधीयते। लोहितादीनि प्रातिपदिकानि॥ (प्रयोजनभाष्यम्) सामान्यग्रहणार्थस्तर्हि। क्व सामान्यग्रहणार्थेनार्थः?। नः क्ये इति॥ (प्रयोजननिरासभाष्यम्) नायं नान्ताद्विधीयते॥ (प्रयोजनभाष्यम्) इह तर्हि यस्य हलः क्यस्य विभाषा इति॥ (प्रयोजननिरासभाष्यम्) नायं हलन्ताद्विधीयते ॥ (प्रयोजनभाष्यम्) इह तर्हि आपत्यस्य च तद्धितेऽनाति, क्यच्व्योश्चेति ॥ (प्रयोजननिरासभाष्यम्) नायमापत्याद्विधीयते॥ (प्रयोजनभाष्यम्) इह तर्हि क्याच्छन्दसि इति॥ (प्रयोजननिरासभाष्यम्) याच्छन्दसीत्येव तद्वक्तव्यम्। चुरण्युस्तुरण्युर्भुरण्युरित्येवमर्थम्। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। यत्तद् -अकृद्यकार इति दीर्घत्वम्, तत्र क्ङिद्ग्रहणमनुवर्तते। तदिहापि यथा स्यात् - लोहितायतीति। किं पुनः कारणं तत्र क्ङिद्ग्रहणमनुवर्तते?। इह मा भूत् - उरुया धृष्णुयेति। (आक्षेपभाष्यम्) यदि तत्र क्ङिद्ग्रहणमनुवर्तते। पित्र्यमिति रीङभावो न प्राप्नोति॥ (समाधानभाष्यम्) रीङ्भावं क्ङिद्ग्रहणं निवर्तिष्यते॥ (आक्षेपभाष्यम्) यदि निवर्तते। कथमसूया वसूया च यजामह इति?॥ (समाधानभाष्यम्) असूयतेरसूया वसूयतेर्वसूया। (समाधानान्तरभाष्यम्) अथ वा छान्दसमेतत्। दृष्टानुविधिश्छन्दसि भवति॥ (सिद्धग्रहणानुवृत्तिवैर्यथ्यम्) यदि च्छान्दसत्वं हेतुः। नार्थः क्ङिद्ग्रहणेनानुवर्तमानेन॥ कस्मान्न भवति उरुया धृष्णुयेति?। छान्दसत्वात्॥ अथ वास्त्वत्र दीर्घत्वं, छान्दसं ह्रस्वत्वं भविष्यति। तद्यथा उपगायन्तु मां पत्नयो गर्भिण्यो युवतय इति॥ (षकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थः षकारः॥ (समाधानभाष्यम्) विशेषणार्थः। क्व विशेषणार्थेनार्थः?। वा क्यषः इति वा याद् इति ह्युच्यमाने पाश्या अत्रापि प्रसज्येत॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। परस्मैपदमित्युच्यते। न चात्र परस्मैपदं नाप्यात्मनेपदं पश्यमः॥ (समाधानान्तरभाष्यम्) सामान्यग्रहणाविघातार्थस्तर्हि॥ क्व सामान्यग्रहणाविघातार्थेनार्थः।?। क्यच् छन्दसि इति॥ (ककारप्रत्याख्यानभाष्यम्) याच् छन्दसि इत्येवं च तद्वक्तव्यम्। चुरण्युः तुरण्युर्भुरण्युरित्येवमर्थम्। (आदिशब्दप्रत्याख्यानाधिकरणम्) (1748 आदिशब्दप्रत्याख्यानवार्तिकम्॥ 1 ॥) - लोहितडाज्भ्यः क्यष्वचनम्- (भाष्यम्) लोहितडाज्भ्यः क्यष् वक्तव्यः। लोहितायति लोहितायते। (डाच्) पटपटायति पटपटायते। (दमदमायति। दमदमायते मटमटायति मटमटायते)। (आक्षेपभाष्यम्) अथान्यानि लोहितादीनि॥ (1749 समाधानवार्तिकम्॥ 2 ॥) - भृशादिष्वितराणि- (भाष्यम्) भृशादिष्वितराणि पठितव्यानि। किं प्रयोजनम्?। ङित इति नित्यमात्मनेपदं यथा स्यात्॥ लोहितादि॥ 13 ॥

Kashika

लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति। लोहितायति। लोहितायते। डाजन्तेभ्यः — पटपटायति। पटपटायते॥ लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि॥ यानि लोहितादिषु पठ्यन्ते तेभ्यःक्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति। वर्मायति। वर्मायते। निद्रायति। निद्रायते। करुणायति। करुणायते। कृपायति। कृपायते। आकृतिगणश्चायम्। तथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते नःक्ये (१.४.१५) इति। नहि पठितानां मध्ये नकारान्तः शब्दोऽस्ति। कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव वचनं ज्ञापकम्। अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष् विज्ञायते॥ लोहित। नील। हरित। पीत। मद्र। फेन। मन्द। लोहितादिः॥

Siddhanta Kaumudi

लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात् ॥

Balamanorama

लोहितादिडाज्भ्यः क्यष् - लोहितादि । भवत्यर्थे इति ।भृशादिभ्यो भुवी॑त्यतो भुवीत्यनुवृत्तेरिति भावः ।

Padamanjari

लोहितादिडाजभ्यः क्यष्॥ पटपटायतीति। अव्यक्तानुकरणादिति डाचि विवक्षिते’डाचि बहुलं द्वे भवतः’ इति द्विर्वचनम्, ततो डाप्, पटत्पटा इति स्थिते’नित्यमाम्रेडिते डाचि’ इति पटच्छब्दस्य यस्तकारे यश्च परः पकारस्तयोः पररूपं पकारः, लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणिऽ इति वार्तिकम्, तदेतत्पठिताभिप्रायं न पुनरनेनादिग्रहणं प्रत्याख्यायत इत्याह - यानि पठ।ल्न्ते इति। निद्राकरुणाकृपाशब्दा वृत्तिविषये तद्वति वर्तन्ते, अनिद्रो निद्रावान् भवति, अकरुणः करुणावान् भवति, अकृपः कृपावान् भवतीत्यत्रार्थे प्रत्ययः। ऊपरिपठितेभ्यस्तु क्यषेव भवतीत्यस्योपपादनम्। आकृतिगणश्चायमिति। कुत इत्यत आह - तथा चेति। क्व पुनः सामान्यग्रहणार्थः ककारः? क्यच्व्योश्चेति। ठापत्यस्यऽ इति वर्तते, न चायमापत्यादिष्यते। इह तर्हि’क्यस्य विभाषा’ ?’हलः’ इति वर्तते, न चायं हलन्तादिष्यते। इह तर्हि’क्याच्छन्दसि’ ? एतद्याच्छन्दसीति वक्तव्यम् - भुरण्युस्तुरण्युरिति, कण्ड्वादियगन्तादपि यथा स्यादिति।’वा क्यषः’ इत्येतद्वा यादित्येवास्तु। न चैवम्’पाशादिभ्यो यः’ पाश्या, अत्र प्रसङ्गः? सामान्यविहितानान्तिङं नियमार्थ प्रकरणम्। न च पाशादयात्पिरस्मैपदमात्मनेपदं वा प्राप्तमस्ति। अथाप्याचारक्विबन्तात्सम्भवेद्? एवमपि’वा यषः’ इत्येवास्तु तत्राह - नः क्ये इति। ककारमनुबन्धमासञ्जतः सूत्रकारस्याप्याकृतिगणत्वमभिप्रेतमित्याह - न हीति। भाष्ये त्वादिग्रहणप्रत्याख्यानपरमेव वार्तिकं व्याख्यातम्। ककारोऽपि प्रत्याख्यातः। कथं पुनः पटपटायताति क्यष्योगे डाज् भवति, यावता कृभ्वस्तियोगे स विधीयते? तत्राह - कृभ्वस्तिभिरिवेत्यादि। भवत्यर्थे क्यष् विधीयते, स भवतिप्रयोगे न भवति, तेनैवोक्तत्वातस्यार्थस्य। अतो भवतेरप्रयोग एव क्यषा भवितव्यम्। यदि च क्यषा योगो डाज्च न स्याड्डाजन्तात् क्यष्विधानमनुपपन्नं स्यादिति भावः। अथ किमर्थम्’वा क्यष’ इति सूत्रमारभ्यते, न क्यष् चेति चकारोऽत्र कर्तव्यः, लोहितादिभ्यः क्यष् भवति चकारात् क्यङ् च, तत्र क्यङ्पक्षे आत्मनेपदम्, क्यष्पक्षे परस्मैपदमिति सिद्धमिष्टम्? अहो सूक्ष्मदर्शी देवानांप्रियः, यदिदमपि न द्दष्टम् -‘क्यङ्मानिनोश्च’ इति। इह तर्हि’प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति लोहिनीशब्दादप्ययं क्यष् भवति, सति चैवं क्यङ्न्तादात्मनेपदं क्यषन्तात्परस्मैपदमिति विज्ञायमाने आत्मनेपदपक्षे’क्यङ्मानिनोश्च’ इति पुंवद्भावे सति अलोहिनी लोहिनी भवति लोहितायत इति प्राप्नोति, अद्य पुनः क्यषन्तादात्मनेपदे विकल्पिते लोहिनीयते लोहिनीयतीतीष्ट्ंअ सिद्ध्यतीति स्पष्ट एव फलभेदः॥

Nyaas

लोहितयाते इति। वा क्यषः (1.3.90) इत्यात्मनेपदम्। पटपटायते इति। पटच्छब्दात् अव्यक्तानुकरणात् (5.4.57) इति डाच्। डाचि बहुलं द्वे (वा।888) इति द्विर्वचनं डाचः प्रागेव भवति; डाचीत्यस्य हि विषयसप्तमीत्वात्। डाचि कृते टिलोपः। द्विर्वचने योऽच्छब्दस्तदवयवस्य तकारस्य नित्यमाम्रेडिते डाचि (6.1.100) इति पररूपम् - पकारः। लोहितडाज्भ्यः क्यष्वचनम् इत्यादि। लोहितादिसूत्रेण यदेतत् क्यषो विधानं तल्लोहितात्, डाजन्तेभ्यश्चेत्यर्थः। ननु चान्यान्यपि नीलादिशब्दरूपाणि लोहितादिषु पठन्ते, अतस्तेभ्योऽपि क्यषा भवितव्यमित्याह - भृषादिषु इत्यादि। लोहितशब्दादितराणि यानि तानि भृशादिषु द्रष्टव्यानि। यस्त्विह तेषां पाठः, स प्रमादतः। अर्वाक्कालभावित्वादनार्ष इत्यभिप्रायः। यदि तर्हि भृशादिष्वितराणि पठन्ते, एवमादिशब्दस्यानर्थक्यम्, न हि किञ्चिदस्ति यत् तेनोपादीयेत? अत आह - यानि इत्यादि। यानि प्रामादाल्लोहितादिषु पठन्ते तेषां भृशादिषु पाठो वेदितव्यः। न त्वपरिपठितानां वर्मादीनाम्। अतस्तेषामादिग्रहणेन ग्रहणे सति क्यषेव भवति। वर्मायते इति। नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः, अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घः। निद्रादयोऽत्र शब्दाः पठन्ते, ते यद्यपि धरममात्रवचनास्तथापि क्यष्वृत्तिविषये तद्वपि द्रव्ये वर्तन्ते; शब्दशक्तिस्वाभाव्यात्। निद्रायते इति। अनिद्रावान् निद्रावान् भवतीत्यर्थः। कथं पुनरपरिपठितानां लोहितादित्वं भवतीत्याह - आकृतिगणश्चायम् इति। कथमेतज्ज्ञायत इत्याह - तथा च इत्यादि। केयति सामान्यग्रहणार्थमित्याह - नः क्ये इति। तत्रैतत् स्यात्। परिपठितानां मध्ये यो नकारान्तस्तस्य पदसंज्ञार्थः ककारोऽनुबध्यत इत्याह - न हि इत्यादि। कथं पुनः क्यषा योगे डाज्भवति, यावता कृभ्वस्तियोगे इत्यनुवृत्तेः करोत्यादियोगे डाज् विधीयते, न क्यषा? इत्याह - {कृभ्वस्तिभिरेव इति मुद्रितः पाठः}कृभ्वस्तिभिरिव` इत्यादि। यदेतत् डाजन्तेभ्यः क्यषो विधानमेतदेव ज्ञापयति - यथा कृभ्वस्तिभिर्योगे डाज्भवति तथा क्यषापीति। अन्यथा डज्ग्रहणमनर्थकं यदि क्यषा योगे डाज् न स्यात्। ननु च यदा भवतियोगे डाज्भवति तदा तदन्तात् क्यष् भविष्यति, त्तकुत आनर्थक्यम्? नैतत्; न हीदानां क्यष् भवितुमर्हति, भुवो भवतिनैवोक्तार्थत्वात्। अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष्विज्ञायते इति। मञिवयुक्तन्यायेनेति भावः। यथैव हि पूर्वसूत्रेऽच्वेरिति प्रतिषेधादमुना न्यायेनाभूततद्भावविषये क्यङ विधीयते, तथेहापि क्यषिति॥

Prakriyasarvasvam

लोहितादिभ्यो डाजन्तेभ्यश्च उक्तेऽर्थे क्यष् स्यात् ।

Vartika

भृशादिष्वितराणि ।

Sutra Prayogas

  • श्यामायमानानि (रघुवंशम्): लोहितादिडाज्भ्यः क्यष् इति क्यष्प्रत्ययः।

  • मन्दायते (रघुवंशम्): लोहितादिडाज्भ्यः क्यष् इति लोहितादित्वात् क्यष्प्रत्ययः।

  • लोहितायति (कुमारसम्भवम्): लोहितादिडाज्भ्यः क्यष् इति क्यष्प्रत्ययः।

  • लोहितायाति (किरातार्जुनीयम्): लोहितादिडाज्भ्यः क्यप् इति क्यप् प्रत्ययः।

  • किलकिलायन्तो (भट्टिकाव्यम्): लोहितादिडाज्भ्यः क्यष् इति क्यष्।