31012: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः¶
Padacheda: भृशादिभ्यः | S | 5 | 3 |
भुवि | S | 7 | 1 |
अच्वेः | S | 5 | 1 |
लोपः | S | 1 | 1 |
च | S | 0 | 0 |
हलः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्यङ् in the sense of becoming what the thing previously was not, is used after the crude forms भृश् etc. which do not end with the affix च्वि – अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50), and there is लोप (elision) of the final consonant of these words, if they end in a consonant.
Vasu English Translation¶
The affix क्यङ् in the sense of becoming what the thing previously was not, is used after the crude forms भृश् etc. which do not end with the affix च्वि – अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50), and there is लोप (elision) of the final consonant of these words, if they end in a consonant. Thus, अभृशो भृशो भवति = भृशायते ‘he becomes much (from a little)’; शीघ्रायते ‘he becomes swift (from being tardy)’. All these roots will be Atmanepadi (1.3.12).
The phrase अच्वेः ‘not ending in the adverbial affix ई’, refers to every one of the words belonging to the class भ्रिशादि. It may be objected, what was the necessity of adding this condition, since the affix च्वि itself denotes that something has become what it was not before; and therefore a word which has taken the affix च्वि, will not again take क्यङ् in that very sense. The repetition of च्वि here shows that the words भृश् &c. never take the affix च्वि, in the sense of ‘something becoming what it was not before’. Thus the present sutra is an exception to sutra (5.4.50) which ordains च्वि.
भृशादिः
भृश्, शीघ्, मन्द, चपल, पण्डित, उत्सुक, उन्मनस्, अभिमनस्, सुमनस्, दुर्म्मनस्, रहस्, रोहस्, शश्वत्, वहत्, वहेत्, नृपत्, शुधि, अधर, ओजस्, वर्चस्, (विमनस्, रभन्, रोहत्, हन्, शुचिस्, अरजस्) ।
Bhashya¶
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः (629) (690 क्यङ्प्रत्ययविधिसूत्रम्॥ 6.1.2 आ 5 सूत्रम्।) (हल्लोपस्यान्वाचयशिष्टत्वाधिकरणम्) (आक्षेपभाष्यम्) हलो लोपसन्नियोगेनायं क्यङ् विधीयते। तेन यत्रैव हलो लोपः, तत्रैव प्राप्नोति॥ (आक्षेपपरिहारभाष्यम्) नैष दोषः। प्रधानशिष्टः क्यङ्, अन्वाचयशिष्टो हलो लोपः यत्र च हलं पश्यसीति॥ (1742 न्यूनतावार्तिकम्॥ 1 ॥) - भृशादिष्वभूततद्भावग्रहणम्- (भाष्यम्) भृशादिष्वभूततद्भावग्रहणं कर्त्तव्यम्। इह मा भूत् - क्व दिवा भृशा भवन्तीति॥ (1743 अच्विग्रहणवैर्यथ्यवार्तिकम्॥ 2 ॥) - च्विप्रतिषेधानर्थक्यं च भवत्यर्थे क्यङ्वचनात्- (भाष्यम्) च्विप्रतिषेधश्चानर्थकः। किं कारणम्। भवत्यर्थे क्यङ्वचनात्। भवत्यर्थे क्यङ्विधीयते॥ (1744 वैर्यथ्यसाधकवार्तिकम्॥ 3 ॥) - भवति योगे च्विविधानम्- (भाष्यम्) भवतिना योगे च्विर्विधीयते। तत्र च्विनोक्तत्वात्तस्यार्थस्य क्यङ् न भविष्यति॥ (डाजन्तात्क्यषोऽनुपपत्तिभाष्यम्) डाजन्तादपि तर्हि न प्राप्नोति - पटपटायते। डाजपि हि भवतिना योगे विधीयते। भविष्यत्यर्थे क्यष् विधीयते॥ (1745 डाजन्तात्क्यषुपपत्तिवार्तिकम्॥ 4 ॥) - डाचि वचनप्रामाण्यात्- (भाष्यम्) डाचि वचनप्रामाण्याद्भविष्यति॥ किं वचनप्रामाण्यम्?। लोहितादिडाज्भ्यः क्यष् इति। (आक्षेपभाष्यम्) इह किंचिदक्रियमाणां चोद्यते। किंचिच्च क्रियमाणं प्रत्याख्यायते। सूत्रभेदः कृतो भवति। (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - इह कस्मान्न भवति क्व दिवा भृशा भवन्तीति। (परिहारभाष्यम्) नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः। नञ्ञ्युक्तमिवयुक्तं वा यत् किंचिदिह दृश्यते ततः अन्यस्मिंस्तत्सदृशे कार्यं विज्ञायते। तथा ह्यर्थो गम्यते। अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश एवानीयते नासौ लोष्टमानीय कृती भवति। एवमिहाप्यच्वेरिति प्रतिषेधादन्यस्मिन्नच्व्यन्ते च्विसदृशे कार्यं विज्ञायते। किं चान्यदतोऽच्व्यन्तं च्विसदृशम्। अभूततद्भावः॥ (विप्रतिपत्तिभाष्यम्) इह काश्चित्प्रकृतयः सोपसर्गाः पठ्यन्ते - अभिमनस् सुमनस् उन्मनस् दुर्मनस्। तत्र विचार्यते - भृशादिषूपसर्गः प्रत्ययार्थविशेषणं वा स्यात् अभिभवतौ सुभवतौ उद्भवतौ दुर्भवताविति। प्रकृत्यर्थविशेषणं वा अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दाद्वेति। (आक्षेपभाष्यम्) युक्तं पुनरिदं विचारयितुम्॥ (आक्षेपोपपादकभाष्यम्) नन्वनेनासंदिग्धेन प्रकृत्यर्थविशेषणेन भवितव्यम्। यावता प्राक् प्रकृतेः पठ्यन्ते, यदि प्रत्ययार्थविशेषणं स्युः प्राग्भवतेः पठ्येरन्॥ (विचारौचित्यसाधकभाष्यम्) नेमे शक्याः प्राग्भवतेः पठितुम्। एवं हि विशिष्टे प्रत्ययार्थे भृशादिमात्रादुत्पत्तिः प्रसज्येत। तस्मान्नैवं शक्यं वक्तुम्। न चेदेवम् जायते विचारणा॥ (विशेषानुयोगभाष्यम्) कश्चात्र विशेषः?। (1746 प्रत्ययार्थविशेषणपक्षदूषणवार्तिकम्॥ 5 ॥) - भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषः- (भाष्यम्) भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषो भवति। अभिमनायते - तिङ्ङतिङ इति निघातः प्रसज्येत॥ (प्रकृत्यर्थविशेषणपक्षाश्रयणभाष्यम्) अस्तु तर्हि प्रकृत्यर्थविशेषणम्। (1747 दूषणवार्तिकम्॥ 6 ॥) - सोपसर्गादिति चेदटि दोषः- (भाष्यम्) सोपसर्गादिति चेदटि दोषो भवति। स्वमनायतेति॥ (वार्तिकान्तरावतरणभाष्यम्) अत्यल्पमिदमुच्यते(अटि इति)। (वार्तिकम्) - अट्ल्यप्द्विर्वचनेषु- (भाष्यम्) अट्ल्यप्द्विर्वचनेष्विति वक्तव्यम्। अटि उदाहृतम्। ल्यपि - सुमनाय्य। द्विर्वचने - अभिमिमनायिषते। (दूषणपरिहारभाष्यम्) नैष दोषः। अवश्यं संग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्या -असंग्रामयत शूर इत्येवमर्थम्। तन्नियमार्थं भविष्यति संग्रामयतेरेव सोपसर्गान्नान्यस्मात्सोपसर्गादिति। (आक्षेपभाष्यम्) यदि नियमः क्रियेत। स्वरो न सिध्यति॥ (समाधानभाष्यम्) एवं तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावं वक्ष्यामि। (आक्षेपभाष्यम्) यदि पराङ्गवद्भाव उच्यते। अट्ल्यब्द्विर्वचनानि न सिध्यन्ति॥ (समाधानभाष्यम्) स्वरविधाविति वक्ष्यामि॥ (प्रत्ययार्थविशेषणपक्षाङ्गीकारभाष्यम्) एवं च कृत्वास्तु प्रत्ययार्थविशेषणमिति॥ (दूषणस्मारणभाष्यम्) ननु चोक्तं भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोष इति॥ (परिहारस्मारणभाष्यम्) स्वरे पराङ्गवद्भावेन परिहृतम्॥ (प्रत्ययार्थविशेषणपक्षदूषणभाष्यम्) अयं तर्हि प्रत्ययार्थविशेषणे सति दोषः। क्यङो क्तत्वात्तस्यार्थस्य उपसर्गस्य प्रयोगो न प्राप्नोति। किं कारणम्?। उक्तार्थानामप्रयोग इति। तद्यथा - अपि काकः श्येनायते इत्यत्र क्यङोक्तत्वादाचारार्थस्य आङ्प्रयोगो न भवति॥ (प्रत्ययार्थविशेषणपक्षे दत्तदूषणपरिहारभाष्यम्) अस्त्यत्र विशेषः। एकेनात्र विशिष्टे प्रत्ययार्थे प्रत्यय उत्पद्यते। इह पुनरनेकेन। तत्र मनायत इत्युक्ते संदेहः स्यात् - अभिभवतौ सुभवतौ दुर्भवतौ उद्भवताविति। तत्रासंदेहार्थमुपसर्गः प्रयुज्यते॥ (प्रश्नभाष्यम्) यत्र तर्ह्येकेन उत्पुच्छयते॥ (समाधानभाष्यम्) अत्राप्यनेकेन - पुच्छादुदसने पुच्छाद्व्यसने पुच्छात्पर्यसने चेति॥ भृशादिभ्यो भुव्यच्वेः॥ 12 ॥
Kashika¶
भृश इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ् प्रत्ययो भवति, हलन्तानां च लोपः। अच्वेरिति प्रत्येकमभिसंबध्यते। किमर्थं पुनरिदमुच्यते, यावता भवतियोगे च्विर्विधीयते, तेनोक्तार्थत्वाच् च्व्यन्तेभ्यो न क्यङ् भविष्यति? तत्सदृश — प्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते। अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ् प्रत्ययः। अभृशो भृशो भवति, भृशायते। शीघ्रायते॥ भृश। शीघ्र। मन्द। चपल। पण्डित। उत्सुक। उन्मनस्। अभिमनस्। सुमनस्। दुर्मनस्। रहस्। रेहस्। शश्वत्। बृहत्। वेहत्। नृषत्। शुधि। अधर। ओजस्। वर्चस्। भृशादिः। अच्वेरिति किम्? भृशीभवति॥
Siddhanta Kaumudi¶
अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । सुमनस् । अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् । तथा हि । उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्च (SK269) इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्टे स्थितम् ॥
Balamanorama¶
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः - भृशादिभ्यो । भवनं भूः, भावे क्विप् । तदाह — भवत्यर्थे इति । भवने इत्यर्थः । क्यङ् स्यादिति ।कर्तुः क्यङ् स लोपश्चे॑त्यतस्तदनुवृत्तेरिति भावः । हलन्तानामेषामिति । भृशादिषु ये हलन्तास्तेषां लोपः, क्यङ् चेत्यर्थः । ननु ‘अभूततद्भावे’ इतिकुतो लब्धमित्यत आह — अच्वेरिति पर्युदासबलादिति ।अभूततद्भावग्रहण॑मिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशा इति । प्रकाशाऽतिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति — सुमनसिति । सुमनायते इति । असुमनाःसुमना भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारेअप्सुमनस्समासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितं, तथापि तद्देवादिपर्यायरूढविषयम् । सु = शोभनं मनो यस्येति सुमना इति बहुव्रीहिर्यौगिक इति भावः । सुमनायते इति । क्यङि सलोपेअकृत्सार्वे॑ति दीर्घः । ननु लङि मनश्शब्दात्प्रागटिस्वमनायते॑ति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात्सुमनश्शब्दस्य समस्तस्यैव लङं प्रत्यङ्गत्वात्,प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहण॑मिति न्यायादित्याशङ्क्याह — चुरादौ सङ्ग्राम युद्धे इति पठते इति । ततश्च क्वचित्सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादौसङ्ग्रामे॑ति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः । एवं चास्य प्रातिपदिकत्वाऽभावात्सोपसर्गात्क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमकमित्यत आह — तत्र सङ्ग्रामेति प्रातिपदिकमिति ।ग्रसेरा॑चे॑त्यौणादिके मन्प्रत्ययेनिष्पन्नस्य ग्रामशब्दस्यकृत्तद्धिते॑ति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षेअर्थवदधातु॑रिति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादकणिजर्थः । एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह — तस्मादिति । तस्मात्सङ्ग्रामेति प्रातिपदिकाच्चौरादिकणिजसंभवेऽपितत्करोती॑त्यर्थे णिच् सिद्ध इत्यर्थः । ननुतत्करोती॑त्यनेनैव सङ्ग्रामशब्दात्प्रातिपदिकाण्णिच्सिद्धे किमर्थमिह चुरादौ तस्य पाठ इत्यत आह — तत्संनियोगेनेति । णिच्संनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः । न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाऽभावादससङ्ग्रामत्येत्यत्र ‘णौ चङ्युपधायाः’ इत्युपधाह्रस्वः स्यादिति वाच्यं, सङ्ग्रामेत्ययं हि कथादित्व#आददन्तः । तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः । एवं च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्रस्वः । कथादित्वलक्षणाऽदन्तत्वलाभायैवाऽस्य चुरादौ पाठ इति भावः । ननु चुरादौ सङ्ग्रामशब्दस्यतत्करोती॑ति णिचि परे अस्त्वनुबन्धाऽऽसङ्गः, तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यतर् कथमस्य ज्ञापतेत्यत आह — युद्धे इति । सामर्थ्यादिति । ‘ग्राम युद्धे’ इत्येतावतैव सङ्ग्रामशब्दो लभ्यते, केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादित्यर्थः । विशिष्टपाठ इति । सङ्ग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह — सामानाकारमिति । सङ्ग्रामशब्दे युद्धवाचिनिस॑मित्यस्य क्रि#आययोगाऽभावात्समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति ।क्विबादा॑विति शेषः । पृथक्क्रियते इति । तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः । ततः किमित्यत आह — तेनेति ।स॑मित्यस्य धातुसंज्ञाप्रवेशाऽभावेनेत्यर्थः । तथा च सुमनश्शब्दादाचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्तः प्रागेव अट्, न तु सुमनसिति समुदायात्प्रागित्यर्थः । एतेनसङ्ग्रामयतेरेव सोपसर्गान्नाऽन्यास्मा॑दित्यादि भाष्यं ‘भृषादिभ्य’ इति सूत्रस्थं व्याख्यातमिति बोध्यम् । उन्मनायते इति । भृशादित्वात् क्यङि सलोपः । एवं चेति । एवमुक्तरीत्याआचारेऽवगल्भे॑ति क्विब्विधावपि अवेत्यस्य पृथक्करमाद्गल्भशब्दात्प्रागेव अडित्यर्थः । ननु आ ऊढः ओढः ।कुगती॑ति समासः । अस्माद्भृशादित्वात्क्यङि ‘ओढायते’ इत्यादि रूपम् । अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात्, तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्रागाटि न रूपे विशेषः, उभयथापि औढायतेत्येव रूपं सिद्धमेव । तथापि ओढायेति क्यङन्तात्क्वाप्रत्ययेअतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः ‘कुगतिप्रादयः’ इति क्त्वाप्रत्ययान्तेन अतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः ‘कुगतिप्रादयः’ इति क्त्वापत्र्ययान्तेन समासे सतिसमासेऽनञ्पूर्वे क्त्वो ल्य॑बिति ल्यप् स्यादित्यत आह — ज्ञापकं च सजातीयविषयमिति । तदेवोपपादयति — तेनेति । चुरादौसङ्ग्राम युद्धेट इति सङ्ग्रहणस्य उक्तार्थे पृथक्कृतिरिति ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपमविकृतं श्रूयते नत्वेकादेशेनापह्मतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, सङ्ग्रामे सङ्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः । ततः किमित्यत आह — एवं चेति । ओढायित्वेति । ओढशब्दाद्भृशादित्वात् क्यङि ओढायेत्यस्मात्क्यङ्नतात्क्वाप्रत्यये अतो लोपे रूपम् । अत्रेति । अत्र न ल्यबित्यन्वयः । क्यङि विवक्षिते आङ एकादेशेनापह्मत्वेन पृथक्करणाऽभावे सति तस्य आङः क्त्वाप्रत्ययान्तेन समासाऽभावान्न ल्यबिति भावः । उन्मनाय्य, अवगल्भ्येतिवदिति व्यतिरेकदृष्टान्तः । उन्मनस्शब्दाद्भृशादित्वादाचारे क्यङि सकारलोपेअकृत्सार्वे॑ति दीर्घे उन्मनायेत्यस्मात्क्त्वोल्यपि, अतो लोपे, उन्मनाय्येति रूपम् । अवगल्भशब्दादाचारेऽवगल्भेति क्विबन्तात्क्वो ल्यपि रूपम् । अत्रउ॑दित्यस्यअवे॑त्यस्य च उपसर्गस्वरूपस्य अनपगृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः । इह तु ओढायित्वेत्यत्र न ततेति व्यतिरेकदृष्टान्तोऽयम् । ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति — ज्ञापकस्येति । षाष्ठं वार्तिकं दर्शयति — उस्योमाङ्क्ष्विति । उसि, ओम्, आङ् एषां द्वन्द्वः । षष्ठ्स्य प्रथमे पादेओमाङोश्चे॑ति सूत्रे इदं वार्तिकं पठतिम् । तद्व्याचष्टे — उस्योमाङोश्च परयोरिति ।एङि पररूप॑मित्यत#ः पररूपग्रहणानुवृतिंत मत्वा आह — पररूपं नेति । उसि तावदुदाहरति — औरुआईयदिति । उरुआआमात्मन ऐच्छदित्यर्थे ‘सुप आत्मनः’ इति क्यजन्ताल्लङि उरुआईयशब्दादङ्गात्प्रागटि कृतेउस्यपदान्ता॑दिति पररूपं प्राप्तमनेन निषिध्यते । अर्थवद्गर्हणपरिभाषा त्वनित्या, अस्मादेव भाष्योदाहरणात् । अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात्, क्यजन्ताल्लङि अङ्गस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । आङि उदाहरति — औढीयदिति । आ ऊढः ओढः, तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । उदाहरणत्रयमिदं भाष्ये स्थितम् । तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात्तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याऽप्रसक्कतेराङि पररूपप्रतिषेधो व्यर्थः स्यात् । उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात्पृथक्करणाऽभावादोढशब्दात् प्रागाडागमे सति आङि पररूपप्राप्तेस्तन्निषेधोऽर्थवान् भवति । अतो ज्ञापकस्य सजातीयविषयत्वे ‘उस्योमाङ्क्षु’ इत्याङ्ग्रहणम्, औढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः । ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह — आटश्चेति चशब्देनेति ।आटश्चे॑ति सचकारः पुनर्वृद्धिविधानार्थः । तथा च आटोऽचि वृद्धिरेव यता स्यान्नाऽन्यत्पररूपमितिलभ्यते इत्यपि षष्ठाध्यायेओमाङोश्चे॑ति सूत्रे,आटश्चे॑ति सूत्रे च भाष्ये स्थितमित्यर्थः । एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चाऽत्र ज्ञापकमित्युक्तं भवति ।
Tattvabodhini¶
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः - भृशादिभ्यो ।भुवी॑त्येतद्व्याचष्टे — भवत्यर्थ इति । भृश, शीघ्र, मन्द, पण्डित, दुर्मनस्ष सुमनस्, उन्मनस्, इत्यादयो भृशादयः ।क्व दिवे॑त्यादि भाष्यकारीयं प्रत्युदाहरणं व्याचष्टे - ये रात्रावित्यादिना । प्रातिपदिकमिति । न त्वयं धातुः,ग्रसेरा च॑ इत्यौणादिकेन मन्प्रत्ययान्ततया निष्पादितत्वात् । एवं च वक्ष्यमाणज्ञापकं सङ्गच्छत इति भावः । अनुबन्ध इति । सङ्ग्रामेति मशब्दाकाराद्भिन्नोऽकारोऽनुबन्ध इत्यर्थः । तथा च अत्रअतो गुणे॑ इति पररूपं ज्ञेयम् । यदि तु मकारादकारोऽनुबन्धः स्यात्तर्हि असङ्ग्रमतेत्यत्रणौ चङी॑त्युपधाह्रस्वः स्यात् । णिच्सन्नयोगेनाऽनुबन्धकरणे तु अनुदात्तेत्वलक्षणस्यात्मनेपदस्याऽप्रवृत्तयाणिचश्चे॑ति कर्तृगामिनि क्रियाफल एवात्मनेपदं स्यान्न तु परगामिनीति विवेकः । सामर्थ्यादिति । केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादिति भावः । क्रियायोगाऽभावादुपसर्गो नेत्यभिप्रेत्याह — — समामाकारमिति । पूर्वपदमिति । तच्च समास एवं संभवति । तेन आन्दोलयित्वा प्रेङ्कोलयित्वेत्यादौ आ — प्रेत्यादीनां न पृथक्करणम् । अन्यथा तेषां क्त्वाप्रत्ययान्तेन समासे सति ल्यप् स्यादिति भावः । पृथक्करणस्य फलमाह — तेन#एति । सुमिमनायिषति उन्मिमनायिषतीत्यादौ मनश्शब्दस्य द्विर्वचनं पृथक्करणस्य फलमिति बोध्यम् । अवागल्भतेति ।आचारेऽवगल्भे॑ति क्विब्विधौ अवेत्यस्य पृथक्करणाद्गल्भशब्दात्प्रागट् । किं तत्साजात्यमित्यत आह — तेनेति । उरुआआमिति ।माहेयी सौरभेयी गौरुरुआआ माता च शृङ्गिणी॑त्यमरः । औरुआईयदिति । क्यज्नतादुरुआआशब्दाल्लङि अङ्गसयाऽऽटि च कृतेउस्यपदान्ता॑दिति पररूपं प्राप्तम् । न चानर्थकोऽमुस् न ग्रहीष्यत इति वाच्यं, छिन्द्युर्भिन्द्युरित्यादावप्सुसोऽनर्थकत्वादागमसहितस्यैवार्थवत्त्वात् । तथा चाऽयः, अपुरित्यादावेव स्यात् । एवं चाऽयमेवाऽऽडागमस्य उसि परे प्रतिषेधोऽर्थवद्ग्रहपरिभाषाया अत्राऽप्रवृत्तौ ज्ञापक इति स्थितम् । अतएवउस्यपदान्ता॑ दित्यत्राऽपदान्तात् किं, कोरुओति भाष्ये प्रत्युदाहृतम् ।*उस्योमाङ्क्ष्वाटः प्रतिषेधः । औङ्कारीयदिति ।ओमाङोश्चे॑ति पररूपं प्राप्तम् । आडागमस्याऽऽङि परे उदाहरणमाह — औढियदिति । यत्रादेशेनाऽपह्मतं तत्रापि यदि पृथक्कृतिस्तदा आङः परत्राऽऽटा भाव्यमित्याडागमस्याऽऽङि परे पररूपनिषेधो व्यर्थः स्यात् । तथा च ज्ञापकस्य विशेषविषयत्वे प्रमाणमयमेव निषेध इति भावः ।च॑शब्दं प्रयुञ्जानः सूत्रकारोऽपि ज्ञापकस्य विशेषविषयत्वेऽनुकूल इत्याह - चशब्देनेति । षाष्ठे स्थितमिति । भाष्यकारोऽप्युक्तार्थे प्रमामभूत इति भावः । स्यादेतत् -अवधीरयती॑ त्यादाववशब्दस्य पृथक्करणमस्ति वा, न वा । आद्ये बोपदेवेनाऽवशब्दात् प्रागाडागमं वकारद्वित्वं च कृत्वा चङि आववधीरदित्युदाहृतं, तन्न संङ्ग्छेत् । द्वितीये तु॒इतीव धारामवधीर्य मण्डलीक्रियाश्रियाऽभण्डि तुरङ्गमैर्मही॑ति श्रीहर्षप्रयोगो न सङ्गच्छेतेति चेत् । अवधीरेत्यस्यापि । प्रयोगद्वयप्रामाण्यान्मुनित्रयविरोधाऽभावाच्च । यदा त्ववधीरेति विशिष्टस्यैव धातुत्वं तदाऽवधीरयित्वेति साधुः । धीरेत्यस्यैव धातुत्वे तु अवधीर्येत्यस्य साधुत्वमिति । तस्येति
Nyaas¶
भुवि इति। भवनं भूः, सम्पदादित्वाद्भावे क्विप्। इह हल्ग्रहणेन यथासम्भवं भृशादयो विशिष्यन्ते, विशेषेणेन न तदन्तविधिर्भवतीत्याह - हलन्तानाञ्च इत्यादि। इहापि पूर्ववदन्वाचयशिष्टो हलो लोपः, तेन तदभावेऽपि क्यङ भवत्येव। हलो लोपविधौ भृशादिभ्य इति स्थानषष्ठी सम्पद्यते, अर्थाद्विभक्तिविपरिणामात्। तत्र अलोऽन्त्यस्य (1.1.52) इति नियमे सति भृशायत इत्यादावहलन्त्यस्य हलो लोपो न भवति। ननु च भृशादीनां बहुत्वात् तत्सम्ब्नधेनाच्विभ्य इति बहुवचनेन भवितव्यम्, तत्कथमच्वेरित्येकवचनेन निर्देश इत्याह - अच्वेः इत्यादि। भृशादच्वेः, शीघ्रादच्वेरिति प्रत्येकमभिसम्बध्यते। तस्मादेकवचनं न्याय्यम्।किमर्थं पुनः ` इत्यादि। अच्वेरित्यधिकृत्य प्रश्नः। कस्मान्न कर्तव्यमित्याह - `यावता इत्यादि। अभूततद्भाव इत्यादिना भवतिप्रयोगे च्विर्विधीयते। तत्र तेनैवोक्तार्थत्वाच्च्व्यन्तेभ्यः क्यङ न भविष्यति, उक्तार्थानामप्रयोगे (व्या।प।60) इति कृत्वा। ननु चानुप्रयोगं बाधित्वा क्यङेव स्यात्? नैतदस्ति; अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्च क्यङ। क्व? अच्च्व्यन्ता ये भुशादयस्तत्र; अच्व्यन्तात् च्वेर्विकल्पेन विधानात्। तत्राच्वेरित्यनुवर्तमाने ज्व्यन्तेषूभयप्रसङ्गे परत्वादनुप्रयोगेणैव भवितव्यम्, अत एवाह - तत्सदृश इत्यादि। नञिवयुक्तमनयसदृशाधिकरणे तथा ह्रर्थगतिः (व्या।प।65) इति च्व्यन्तसदृशाभृशादयः कथं नाम प्रतीयेरन्नित्येवर्थोऽच्वेरिति प्रतिषेधः। तत्सांदृश्यं च्व्यन्तस्याभूततद्भावविषयत्वात् अर्थकृतमेवाश्रीयते, न शब्दादिकृतमित्याह - अभूततद्भावविषयेभ्यः इत्यादि। इह भृशादिषु कैश्चिन्मनस्प्रभृतयः सोपसर्गाः पठन्ते, तेभ्यः सोपसर्गेभ्य एव प्रत्ययः स्यात्। ततशचोदमनायतेति सोपसर्गस्याङ्गसंज्ञात्वादुपसर्गात् प्रागडागमः स्यात्। सुमनाय्य गत इत्यत्र सोपसर्गस्य क्वान्तेऽनुप्रवेशात् तद्व्यतिरिक्त उपसर्गो नास्तीति समासो न स्यात्, ततश्च लब्न स्यात्? नैतदस्ति; यथैव हि प्रकृर्त्तुमैच्छदिति सोपसर्गस्यापि कर्मत्वे धातुग्रहणेनोपसर्गान्निष्कृष्य धातुमात्रात् प्रत्ययो भवति, तथेहापि भविष्यति। ननु तत्र धातुग्रहणमस्तीति चेत्? इहापि सुब्ग्रहणमनुवर्तत इति हेतुः। सुमनस् इत्यादीनि सुबन्तसमुदायानि। तेन सुबन्तसमुदायात् क्यङ। लङ कस्मान्न भवति? उच्यते - लङविधावपि धातुग्रहणमनुवर्तते। अथ लोपः (3.1.11) इत्यनुवर्तमाने पुनर्लोपग्रहणं किमर्थम्? सकारनिवृत्त्यर्थम्। पूर्वकं हि लोपग्रहणं सकारेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, ततश्च तस्यानन्तस्यापि लोपः प्रसज्येत; इतरथा हि तदनुवृत्तिरपार्थिका स्यात्॥
Prakriyasarvasvam¶
अच्व्यन्तेत्यश्च्व्यर्थयुक्तेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात्, एषु हलन्ता- नामन्त्यलोपश्च स्यात् । <karika> भृशशीघ्रमन्दमन्दा अण्डरशुचिमुण्डपण्डिताश्चपलः । हरितो नीलो मेधा भद्रोत्सुकफेनकन्धराश्च बृहत् ॥ ७९४ ॥ सश्रत् तृपच्च शश्वद् रेहद् रोहच्च वेहद्प्योजः । वर्चश्चोत्स्वभिदुर्भ्यो मनश्च ते भोजमाधवाभिहिताः ॥ ७९५ ॥ </karika> अभृशो भृशो भवति भृशायते । एवं शीघ्रायत इत्यादि । अण्डरो मूर्खो मुष्करश्च । मेधा तद्वति । मेधायते वटुः । अफेनाः फेना भवन्ति फेनायन्ते बुद्बुदाः । स्थिरा कन्धरा अस्यास्तीति अर्शआद्यचि कन्धरः । कन्धरायते भारभृत् । बृहदादेर्ह५लो लोपः । बृहायते । सश्रत् व्याजमान् । सश्रायते । तृपत् चन्द्रः समुद्रश्च । तृपायते जलम् । शश्वायते सुखं मुक्तौ । रेहद् रहसि निर्घृणत्वे च । रेहायते पुरम् । रेहायते शूरः । रोहत् सरोषः । रोहायते । वेहायते पशुः । ओजोवर्चसी तद्वति । ओजस्वीभवत्योजायते । एवं वर्चायते । उन्मनायते । सुमनायते । अभिमनायते । दुर्मनायते । उपसर्गस्य पृथक्त्वाद् उदमनायत इत्यादि । प्रतीपायत इत्यपि शङ्करः । विरलायमानादिषु क्यङ् मृग्य इति वामनः । एषु१ क्विब् वेति कौमुदी । क्विपः सर्वालोपे प्रातिपदिकमात्रस्य धातुत्वे तदस्तिपृशबादि । भृशो भृशो भवति भृशति । शीघ्रति । इत्यादि ।
Sutra Prayogas¶
भृशायते (किरातार्जुनीयम्): भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः इति क्यङ् ।