31010: उपमानादाचारे¶
Padacheda: उपमानात् | S | 5 | 1 |
आचारे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्यच् is optionally employed, in the sense of treatment after a word ending in a case-affix denoting the object of comparison.
Vasu English Translation¶
The affix क्यच् is optionally employed, in the sense of treatment after a word ending in a case-affix denoting the object of comparison. Thus, पुत्रमिवाचरति छात्रं = पुत्रीयति छात्रम् ‘he treats the pupil as a son’
Vart: So also in a locative case. As प्रासादीयति कुड्ये ‘he dwells in hut as if it were a palace’. पर्यङ्कीयति मञ्चके ‘in a cot he lies down as if he were on a royal bedstead; he treats a cot as a royal bedstead’.
Bhashya¶
उपमानादाचारे (627) (688 क्यच्प्रत्ययविधिसूत्रम् ॥ 6.1.2 आ. 6 सूत्रम्) (1737 न्यूनतापूरकवार्तिकम्॥ 1 ॥ ) - अधिकरणाच्च- (भाष्यम्) अधिकरणाच्चेति वक्तव्यम्। इहापि यथा स्यात् - -कुटीयति प्रासादे। प्रासादीयति कुट्याम्॥ उपमानादाचारे॥ 10 ॥
Kashika¶
क्यजनुवर्तते, न काम्यच्। उपमानात् कर्मणः सुबन्तादाचारेऽर्थे वा क्यच् प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैवोपमानस्य कर्मता। पुत्रमिवाचरति, पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्॥ अधिकरणाच्चेति वक्तव्यम्॥ प्रासादीयति कुट्याम्। पर्यङ्कीयति मञ्चके॥
Siddhanta Kaumudi¶
उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ।<!अधिकरणाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥
Laghu Siddhanta Kaumudi¶
उपमानात्कर्मणः सुबन्तादाचारेर्थे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः । अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥
Balamanorama¶
उपमानादाचारे - उपमानादाचारे ।सुप आत्मनः क्य॑जित्यतः सुप इत्यनुवर्तते ।धातोः कर्मणः समानक्रतृका॑दित्यतः कर्मण इति । तदाह - उपमानात्कर्मण इत्यादिना । उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । ‘धातोः कर्मणः’ इत्यतो वेत्यनुवृत्तिरनेन सूचिता । छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति कुटआमिति । प्रासादे इव कुठआं ह्मष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुटआमिव प्रासादे क्लिष्टो वर्तते इत्यर्थः ।
Padamanjari¶
उपमानादाचारे॥’कुड।ले’ इत्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मविवक्षायामेतत्प्रयोगसम्भवाद्वचनारम्भः। कुट।लमिति तु युक्तः पाठः॥
Nyaas¶
क्यजनुवर्तते न काम्यच् इति। अत्र च कारणं पूर्वमुक्तम्। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयवोपमानस्य कर्मता; पूर्ववत् प्रत्यासत्तेः।अधिकरणाच्च इत्यादि। अधिकरणादाचारे क्यज्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। व्याख्यानन्तु पूर्ववच्चकारकरणमनुवर्त्त्य तस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्॥
Prakriyasarvasvam¶
उपमानात् कर्मणः सुबन्तादाचारेऽर्थे क्यज् वा स्यात् । पुत्रमिवाचरति पुत्रीयति शिष्यम् । वेत्युक्तेर्वाक्यमपि । सर्वमिच्छाक्यजन्तवत् । अस्य सकर्मकत्वमेव भेदः ।<!अधिकरणच्चेति वाच्यम्!> (वा) । गृहे इवाचरति गृहीयति वने ।
Sudha¶
उपमानादाचारे इति ** । **सुप आत्मनः क्यच् (3.1.8) इत्यतः सुप् इत्यनुवर्तते । धातोः कर्मणः समानकर्तृकात् (3.1.7) इत्यतः कर्मण इति तदाह - उपमानात्कर्मण इत्यादिना । पुत्रीयति छात्रमिति **। पुत्रमिवाचरति इत्यर्थे “पुत्र अम्” इति उपमानवाचककर्मणः **उपमानादाचारे (3.1.10) इति क्यचि, कस्य चस्य च लोपे सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यमो लुकि, क्यचि च (7.4.33) इति अस्य ईत्वे “पुत्रीय” इति भूते, तस्माल्लटस्तिपि, शपि अनुबन्धलोपे अतो गुणे (6.1.97) इति पररूपत्वे च कृते “पुत्रीयति” इति सिद्धम् । विष्णूयति द्विजमिति ** । विष्णुमिवाचरति इत्यर्थे “विष्णु अम्” इति उपमानवाचकात्कर्मणः **उपमानादाचारे (3.1.10) इति क्यचि, अनुबन्धलोपे, धातुसंज्ञायां सुपो धातुप्रातिपदिकयोः (2.4.71) इति अमो लुकि,”विष्णु य” इति जाते अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) इति दीर्घे “विष्णूय” इति भूते, तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे, अतो गुणे (6.1.97) इति पररूपत्वे च कृते “विष्णूयति” इति रूपम् । लिडादौ - “विष्णूयाञ्चकार”, “विष्णूयिता”, “विष्णूयिष्यति”, “विष्णूयतु”, “अविष्णूयत्”, “विष्णूयेत्”, “विष्णूय्यात्”, “अविष्णूयीत्”, “अविष्णूयिष्यत्” । सर्वप्रातिपदिकेभ्य इति । आचारे इति शेषः। “कृष्णति “ । कृष्ण इव आचरति इत्यर्थे कृष्ण इति प्रातिपदिकात् <!सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्यः!> इति क्विपि, लशक्वतद्विते (1.3.8) इति कस्येत्संज्ञायां हलन्त्यम् (1.3.3) इति पस्येत्संज्ञायाम् उपदेशेऽजनुनासिक इत् (1.3.2) इतीकारस्येत्संज्ञायां कृतायां तस्य लोपः (1.3.9) इति लोपे वस्य वेरपृक्तस्य (6.1.67) इति लोपे सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे अतो गुणे (6.1.97) इति पररूपत्वे च कृते “कृष्णति” इति रूपम् । लिटि - “कृष्णाञ्चकार” । लुटि - “कृष्णिता” । लृटि - “कृष्णिष्यति” । लोटि - “कृष्णतु” । लङि - “अकृष्णत्” । लिङि - “कृष्णेत्” । आशिषि - “कृष्ण्यात्” । लुङि - “अकृष्णीत्” । लृङि - “अकृष्णिष्यत्” इति । “स्वति” । एवमेव स्वशब्दात् उपमानवाचकात् आचरतीत्यर्थे क्विपि, क्विपः सर्वस्य अपहारे धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे पररूपे च तत्सिद्धिः । “सत्वौ ।” स्वशब्दात् <!सर्वप्रातिपदिकेभ्यः!> इति क्विपि, तस्यापहारे धातुसंज्ञायां लिटि, लिटस्तिपि, तिपो णलि, अनुबन्धलोपे, द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये “स स्व अ” इति जाते, अचो ञ्णिति इति वृद्धौ, “स स्वा अ” इत्यत्र आत औ णल: (7.1.34) इति णलोऽकारस्यौत्वे वृद्धिरेचि इति वृद्धौ “सस्वौ” इति रूपम् । “सस्वौ”, “सस्वतुः”, “सस्वुः” । “सस्विथ”, “सस्वथुः”, “सस्व” । “सस्वौ”, “सस्विव”, “सस्विम” इति । लृडादौ - “स्विता”, “स्विष्यति” । इत्यादि ।
Vartika¶
अधिकरणाच्चेति वक्तव्यम् ।
Sutra Prayogas¶
विरज्यन्ति (भट्टिकाव्यम्): कुपि-रजोः प्राचां श्यन् परस्मैपदं च इति श्यन् परस्मैपदं च।