31010: उपमानादाचारे =================== **Padacheda:** उपमानात् | S | 5 | 1 | आचारे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्यच् is optionally employed, in the sense of treatment after a word ending in a case-affix denoting the object of comparison. Vasu English Translation ------------------------ The affix क्यच् is optionally employed, in the sense of treatment after a word ending in a case-affix denoting the object of comparison. Thus, पुत्रमिवाचरति छात्रं = पुत्रीयति छात्रम् 'he treats the pupil as a son' Vart: So also in a locative case. As प्रासादीयति कुड्ये 'he dwells in hut as if it were a palace'. पर्यङ्कीयति मञ्चके 'in a cot he lies down as if he were on a royal bedstead; he treats a cot as a royal bedstead'. Bhashya ------- उपमानादाचारे (627) (688 क्यच्प्रत्ययविधिसूत्रम् ॥ 6.1.2 आ. 6 सूत्रम्) (1737 न्यूनतापूरकवार्तिकम्॥ 1 ॥ ) - अधिकरणाच्च- (भाष्यम्) अधिकरणाच्चेति वक्तव्यम्। इहापि यथा स्यात् - -कुटीयति प्रासादे। प्रासादीयति कुट्याम्॥ उपमानादाचारे॥ 10 ॥ Kashika ------- क्यजनुवर्तते, न काम्यच्। उपमानात् कर्मणः सुबन्तादाचारेऽर्थे वा क्यच् प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैवोपमानस्य कर्मता। पुत्रमिवाचरति, पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्॥ अधिकरणाच्चेति वक्तव्यम्॥ प्रासादीयति कुट्याम्। पर्यङ्कीयति मञ्चके॥ Siddhanta Kaumudi ----------------- उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । (वार्तिकम्) ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥ Laghu Siddhanta Kaumudi ----------------------- उपमानात्कर्मणः सुबन्तादाचारेर्थे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ **सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः** । अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥ Balamanorama ------------ **उपमानादाचारे** - उपमानादाचारे ।सुप आत्मनः क्य॑जित्यतः सुप इत्यनुवर्तते ।धातोः कर्मणः समानक्रतृका॑दित्यतः कर्मण इति । तदाह - उपमानात्कर्मण इत्यादिना । उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । 'धातोः कर्मणः' इत्यतो वेत्यनुवृत्तिरनेन सूचिता । छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति कुटआमिति । प्रासादे इव कुठआं ह्मष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुटआमिव प्रासादे क्लिष्टो वर्तते इत्यर्थः । Padamanjari ----------- उपमानादाचारे॥'कुड।ले' इत्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मविवक्षायामेतत्प्रयोगसम्भवाद्वचनारम्भः। कुट।लमिति तु युक्तः पाठः॥ Nyaas ----- `क्यजनुवर्तते न काम्यच्` इति। अत्र च कारणं पूर्वमुक्तम्। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयवोपमानस्य कर्मता; पूर्ववत् प्रत्यासत्तेः।`अधिकरणाच्च` इत्यादि। अधिकरणादाचारे क्यज्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। व्याख्यानन्तु पूर्ववच्चकारकरणमनुवर्त्त्य तस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कर्तव्यम्॥ Prakriyasarvasvam ----------------- उपमानात् कर्मणः सुबन्तादाचारेऽर्थे क्यज् वा स्यात् । पुत्रमिवाचरति पुत्रीयति शिष्यम् । वेत्युक्तेर्वाक्यमपि । सर्वमिच्छाक्यजन्तवत् । अस्य सकर्मकत्वमेव भेदः । (वा) । गृहे इवाचरति गृहीयति वने । Sudha ----- **उपमानादाचारे इति ** । **सुप आत्मनः क्यच्** (3.1.8) इत्यतः सुप् इत्यनुवर्तते । **धातोः कर्मणः समानकर्तृकात्** (3.1.7) इत्यतः कर्मण इति तदाह - **उपमानात्कर्मण इत्यादिना** । **पुत्रीयति छात्रमिति **। पुत्रमिवाचरति इत्यर्थे "पुत्र अम्" इति उपमानवाचककर्मणः **उपमानादाचारे** (3.1.10) इति क्यचि, कस्य चस्य च लोपे **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञायां **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यमो लुकि, **क्यचि च** (7.4.33) इति अस्य ईत्वे "पुत्रीय" इति भूते, तस्माल्लटस्तिपि, शपि अनुबन्धलोपे **अतो गुणे** (6.1.97) इति पररूपत्वे च कृते "पुत्रीयति" इति सिद्धम् । **विष्णूयति द्विजमिति ** । विष्णुमिवाचरति इत्यर्थे "विष्णु अम्" इति उपमानवाचकात्कर्मणः **उपमानादाचारे** (3.1.10) इति क्यचि, अनुबन्धलोपे, धातुसंज्ञायां **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति अमो लुकि,"विष्णु य" इति जाते **अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घे "विष्णूय" इति भूते, तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे, **अतो गुणे** (6.1.97) इति पररूपत्वे च कृते "विष्णूयति" इति रूपम् । लिडादौ - "विष्णूयाञ्चकार", "विष्णूयिता", "विष्णूयिष्यति", "विष्णूयतु", "अविष्णूयत्", "विष्णूयेत्", "विष्णूय्यात्", "अविष्णूयीत्", "अविष्णूयिष्यत्" । **सर्वप्रातिपदिकेभ्य इति ।** आचारे इति शेषः। "कृष्णति " । कृष्ण इव आचरति इत्यर्थे कृष्ण इति प्रातिपदिकात् इति क्विपि, **लशक्वतद्विते** (1.3.8) इति कस्येत्संज्ञायां **हलन्त्यम्** (1.3.3) इति पस्येत्संज्ञायाम् **उपदेशेऽजनुनासिक इत्** (1.3.2) इतीकारस्येत्संज्ञायां कृतायां **तस्य लोपः** (1.3.9) इति लोपे वस्य **वेरपृक्तस्य** (6.1.67) इति लोपे **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे **अतो गुणे** (6.1.97) इति पररूपत्वे च कृते "कृष्णति" इति रूपम् । लिटि - "कृष्णाञ्चकार" । लुटि - "कृष्णिता" । लृटि - "कृष्णिष्यति" । लोटि - "कृष्णतु" । लङि - "अकृष्णत्" । लिङि - "कृष्णेत्" । आशिषि - "कृष्ण्यात्" । लुङि - "अकृष्णीत्" । लृङि - "अकृष्णिष्यत्" इति । "स्वति" । एवमेव स्वशब्दात् उपमानवाचकात् आचरतीत्यर्थे क्विपि, क्विपः सर्वस्य अपहारे धातुसंज्ञायां लटस्तिपि, शपि, अनुबन्धलोपे पररूपे च तत्सिद्धिः । "सत्वौ ।" स्वशब्दात् इति क्विपि, तस्यापहारे धातुसंज्ञायां लिटि, लिटस्तिपि, तिपो णलि, अनुबन्धलोपे, द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये "स स्व अ" इति जाते, **अचो ञ्णिति** इति वृद्धौ, "स स्वा अ" इत्यत्र **आत औ णल:** (7.1.34) इति णलोऽकारस्यौत्वे **वृद्धिरेचि** इति वृद्धौ "सस्वौ" इति रूपम् । "सस्वौ", "सस्वतुः", "सस्वुः" । "सस्विथ", "सस्वथुः", "सस्व" । "सस्वौ", "सस्विव", "सस्विम" इति । लृडादौ - "स्विता", "स्विष्यति" । इत्यादि । Vartika ------- अधिकरणाच्चेति वक्तव्यम् । Sutra Prayogas -------------- * **विरज्यन्ति** (भट्टिकाव्यम्): `कुपि-रजोः प्राचां श्यन् परस्मैपदं च` इति श्यन् परस्मैपदं च।