31003: आद्युदात्तश्च¶
Padacheda: आद्युदात्तः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते आद्युदात्ताः स्युः ।
अस्य अधिकारस्य व्याप्तिः अपि प्रत्ययः (3.1.1) तथा परश्च (3.1.2) अधिकारवत् त्रिषु अध्यायेषु वर्तते । सर्वेषु प्रत्ययेषु आदिस्वरः अनेन सूत्रेण उदात्तसंज्ञकः भवति । किम् नाम ‘उदात्त’? उच्चैरुदात्तः (1.2.29) अनेन सूत्रेण उदात्तसंज्ञा दीयते । यस्य स्वरस्य उच्चारणं तस्य उच्चारणस्थानस्य ऊर्ध्वभागात् जायते, सः स्वरः उदात्तसंज्ञकः भवति । यथा - तुमुन् इत्यत्र तकारात् परः यः उकारः, तस्य अनेन सूत्रेण उदात्तसंज्ञा भवति । ज्ञातव्यम् - 1. ‘उदात्तत्वम्’ केवलं स्वराणाम् भवितुं शक्यते, व्यञ्जनानाम् न । अतः अनेन सूत्रेण प्रत्ययेषु यः प्रथमः स्वरः, तस्य उदात्तसंज्ञा भवति । 2. अनेन सूत्रेण प्रत्ययस्य आदिस्वरस्य उदात्तसंज्ञा भवति, प्रत्ययान्तशब्दस्य आदिस्वरस्य न ।
Sutrartha (English)¶
The first स्वर of all the प्रत्ययाः mentioned in this अधिकार becomes उदात्त.
Vasu English Summary¶
That which is called an affix has an acute accent on its first syllable.
Vasu English Translation¶
That which is called an affix has an acute accent on its first syllable. This sutra may also be treated as a Paribhasha or an Adhikara sutra. The udatta accent falls on the affix, and if it consists of more than one vowel, then on the first of the vowels. Thus the affix तव्य has udatta on the first अ as in कर्त्तव्यम्. This general rule of accent applies only where there is no special rule laid down. Thus, rule (VI.I.163), declares that affixes having an indicatory च will have udatta on the final; those having an indicatory र have accent on the middle (VI.I.217); those that have an indicatory प are anudatta; those having an indicatory ज, throw the acute accent on the syllable immediately preceding the affix (VI.I.193); the affixes having an indicatory प्र and न throw the acute accent on the first syllable of the word to which they are added (VI.I.197); the taddhita affix having an indicatory क takes acute accent on the final (VI.I.165); and the affix having an indicatory त is svarita (VI.I.185).
Bhashya¶
आद्युदात्तश्च (619) (382 अधिकारसूत्रम्॥ 6.1.1 आ. 3 सूत्रम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते?। (समाधानभाष्यम्) आद्युदात्तो यथा स्यात्। अन्तोदात्तो मा भूदिति। (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। यमिच्छत्यन्तोदात्तम्, करोति तत्र चकारमनुबन्धम्। आह च - चितोन्तउदात्तः इति॥ (प्रयोजनभाष्यम्) मध्योदात्तस्तर्हि मा भूदिति॥ (प्रयोजननिराकरणभाष्यम्) मध्योदात्तमपि यमिच्छति, तत्र रेफमनुबन्धं करोति। आह च - उपोत्तमं रितीति॥ (प्रयोजनभाष्यम्) अनुदात्तस्तर्हि मा भूदिति॥ (प्रयोजननिराकरणभाष्यम्) अनुदात्तमपि यमिच्छति, तत्र पकारमनुबन्धं करोति। आह च अनुदात्तौ सुप्पितौ इति॥ (प्रयोजनभाष्यम्) स्वरितस्तर्हि मा भूदिति॥ (प्रयोजननिराकरणभाष्यम्) स्वरितमपि यमिच्छति, करोति तत्र तकारमनुबन्धमनुबन्धम्। आह च तित्स्वरितम् इति॥ (प्रयोजननिराकणोपसंहारभाष्यम्) एवमपि येषामेव प्रत्ययानां स्वरो नियम्यते त एव नियतस्वराः स्युः य इदानीमनियतस्वरः स कदाचिदाद्युदात्तः कदाचिदन्तोदात्तः कदाचिन्मध्योदात्तः कदाचिदनुदात्तः कदाचित्स्वरितः स्यात्। आद्युदात्त एव यथा स्यादित्येवमर्थमिदमुच्यते॥ (स्वरप्रकरणं विनाप्यत्र प्रत्ययसंज्ञासंनियोगेन स्वरविधिप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थं प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वमनुदात्तत्वं चोच्यते, न यत्रैवान्यः स्वरः, तत्रैवाय मप्युच्येत - ञ्ञ्नित्यादिर्नित्यम् - ठप्रत्ययस्य च - अदुपदेशाल्लसार्वधातुकमनुदात्तम् - सुप्पितौ चेति। तत्रायमप्यर्थः - द्विराद्युदात्तग्रहणं द्विश्चानुदात्तग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते॥ (समाधानभाष्यम्) - आद्युदात्तस्य प्रत्ययसंज्ञासन्नियोगे प्रयोजनं यस्य संज्ञाकरणं तस्याद्युदात्तार्थम्- (भाष्यम्) आद्युदात्तस्य प्रत्ययसंज्ञासंनियोगकरण एतत् प्रयोजनम् - यस्य संज्ञा क्रियते तस्याद्युदात्तत्वं यथा स्यात्॥ (समाधानवार्तिकद्वितीयखण्डम्॥ 1 ॥) - असन्नियोगे हि यस्मात्स विहितस्तदादेराद्युदात्तत्वं तदन्तस्य चानुदात्तत्वम्- (भाष्यम्) अक्रियमाणे हि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतिइति तदादेरेवाद्युदात्तत्वं प्रसज्येत, तदन्तस्य चानुदात्तत्वम्॥ (आक्षेपभाष्यम्) अथ क्रियमाणेपि प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे अनुदात्तत्वे च कस्मादेव तदादेराद्युदात्तत्वं न भवति तदन्तस्य वानुदात्तत्वम्॥ (समाधानभाष्यम्) उत्पन्न प्रत्ययः प्रत्ययाश्रयाणां कार्याणां निमित्तं भवति नोत्पद्यमानः। तद्यथा - -कृतो घटो घटाश्रयाणां कार्याणां निमित्तं भवति, न क्रियमाणः॥ (1700 समाधानवार्तिकम्॥ 2 ॥ ) - न वा प्रकृतेराद्युदात्तवचनं ज्ञापकं तदादेरग्रहणस्य - (भाष्यम्) न वैष दोषः। किं कारणम्?। यदयं ञ्ञ्नित्यादिर्नित्यम् इति प्रकृतेराद्युदात्तत्वं शास्ति। तज् ज्ञापयत्याचार्यः - न तदादेराद्युदात्तत्वं भवतीति॥ (आपत्तिभाष्यम्) तदन्तस्य तर्ह्यनुदात्तत्वं प्राप्नोति॥ (1701 आपत्तिवारणवार्तिकम्॥ 3 ॥ - प्रकृतिस्वरविधानसार्मथ्यात् प्रत्ययस्वराभावः- (भाष्यम्) यदयं धातोरन्तः प्रातिपदिकस्य चान्त इति प्रकृतेरन्तोदात्तत्वं शास्ति, तज्ज्ञापयत्याचार्यः - -न तदन्तस्यानुदात्तत्वं भवती ति॥ कथं कृत्वा ज्ञापकम्?। यत्र ह्यनुदात्तः प्रत्ययः प्रकृतिस्वरस्तत्र प्रयोजयति। (1702 अत्रसूत्रप्रयोजनवार्तिकम्॥ 4 ॥) - आगमानुदात्तार्थं वा - (भाष्यम्) आगमानुदात्तार्थे तर्हि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वमुच्यते। प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे कृते आगमा अनुदात्ता यथा स्युरिति॥ (1703 आगमानुदात्तत्वप्रयोजननिराकरणवार्तिकम्॥ 5 ॥ - न वागमानुदात्तवचनात्- (भाष्यम्) न वा एतदपि प्रयोजनमस्ति॥ किं कारणम्?। आगमानुदात्तवचनात्। आगमा अनुदात्ता भवन्तीति वक्ष्यामि॥ (अनुयोगभाष्यम्) के पुनरागमा अनुदात्तत्वं प्रयोजयन्ति?। (उत्तरभाष्यम्) इट् - लविता। ?B(इडागमानुदात्तत्वस्य प्रयोजनत्वनिराकरणभाष्यम्) इट् तावन्न प्रयोजयति॥ (इडागमे प्रयोजनोपपादकभाष्यम्) इदमिह संप्रधार्यम् - इट् क्रियतामाद्युदात्तत्वमिति॥ किमत्र कर्तव्यम्?। परत्वादिट्॥ नित्यमाद्युदात्तत्वम्। कृतेपीटि प्राप्नोति अकृतेपि प्राप्नोति॥ इडपि नित्यः। कृतेप्याद्युदात्तत्वे प्राप्नोति अकृतेपि॥ अनित्य इट्। अन्यथा स्वरस्य कृते आद्युदात्तत्वे प्राप्नोति। अन्यथा स्वरस्याकृते प्राप्नोति। स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति॥ आद्युदात्तत्वमपि अनित्यम्। अन्यस्य कृते इटि प्राप्नोति। अन्यस्याकृते। शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति॥ उभयोरनित्ययोः परत्वादिडागमः॥ (इडागमे प्रयोजननिराकरणोपपादनभाष्यम्) अन्तरङ्गं तर्हि आद्युदात्तत्वम्। काऽन्तरङ्गता?। उत्पत्तिसन्नियोगेनाद्युदात्तत्वमुच्यते। उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्येडागमः॥ आद्युदात्तत्वमपि नान्तरङ्गम्। यावता प्रत्यय आश्रिते प्रकृतिरप्याश्रिता भवति॥ अन्तरङ्गमेवाद्युदात्तत्वम्॥ कथम्?। इदानीमेव ह्युक्तं - न प्रत्ययस्वरवि धौ तदादिविधिर्भवतीति॥ (सीयुडागमे प्रयोजनभाष्यम्) सीयुट् तर्हि प्रयोजयति। (1704 सीयुडागमे प्रयोजनोपपादनवार्तिकम्॥ 6 ॥) - अवचने हि सीयुडादेराद्युदात्तत्वम्- (भाष्यम्) अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणेपि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे सीयुडादेर्लिङ आद्युदात्तत्वं प्रसज्येत। लविषीय पविषीय॥ (वार्तिककरणानुयोगभाष्यम्) तत्तर्हि वक्तव्यम् - आगमा अनुदात्ता भवन्तीति॥ (तद्वार्तिकस्य ज्ञापकसिद्धत्वकरणभाष्यम्) न वक्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति - -आगमा अनुदात्ता भवन्तीति, यदयं यासुट् परस्मैपदेषूदात्तो ङिच्चेत्याह॥ (ज्ञापकत्वानुपपत्तिभाष्यम्) नैतदस्ति ज्ञापकम्। वक्ष्यत्येतत् यासुटो ङिद्वचनं पिदर्थमुदात्तवचनं चेति। (ज्ञापकत्वमण्डनभाष्यम्) शक्यमनेन वक्तुम् - -यासुट् परस्मैपदेषु भवति, अपिच्च लिङ् भवतीति। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद्ररीयांसं यत्नमारभते तज्ज्ञापयत्वाचार्यः - आगमा अविद्यमानवद्भवन्तीति। (1705 प्रत्ययसंज्ञासंनियोगेनस्वरविधिप्रयोजन वार्तिकम्॥ 7 ॥) - आद्युदात्तस्य वा लोपार्थम्- (भाष्यम्) आद्युदात्तस्य तर्हि लोपार्थे प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वमुच्यते। प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरः सिद्धो भवति। स्रौग्घ्नी। माथुरी। अत्र हि परत्वाल्लोपाः स्वरं बाधेत॥ (1706 प्रयोजननिराकरणवार्तिकम्॥ 8 ॥) - न वा बहिरङ्गलक्षणत्वात्- (भाष्यम्) न वैतदपि प्रयोजनमस्ति। किं कारणम्?। बहिरङ्गलक्षणत्वात्। बहिरङ्गलक्षणो लोपः। अन्तरङ्गः स्वरः। असिद्धं बहिरङ्गमन्तरङ्गे॥ अवश्यं चैषा परिभाषा आश्रयितव्या। (17007 परिभाषाभावे दूषणवार्तिकम्॥ 9 ॥) - अवचने हि ञ्ञ्नित्कित्स्वतिप्रसङ्गः- (व्याख्यानभाष्यम्) अक्रियमाणायां ह्यस्यां परिभाषायां क्रियमाणेपि प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे ञ्ञ्नित्कित्सु अतिप्रसङ्गः स्यात्। औत्सी कंसिकी आत्रेयीति। अत्र हि परत्वाल्लोपो ञ्ञिन्नित्कित्स्वरान् बाधेत॥ (अन्तरङ्गपरिभाषानङ्गीकारेपि दूषणोद्धारभाष्यम्) नैष दोषः। ञ्ञिन्नित्कित्स्वराः प्रत्ययस्वरस्यापवादाः। न चापवादविषये उत्सर्गोभिनिविशते। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः। प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशते। न तावदत्र कदाचित्प्रत्ययस्वरो भवति, अपवादान् ञ्ञ्नित्कित्स्वरान् प्रतीक्षते॥ कंसिक्यां भूयान् परिहारः - -अन्यस्यात्र उदात्तत्वम्, अन्यस्य लोपः। आदेरुदात्तत्वमन्त्यस्य लोपः॥ (परिभाषास्वीकारस्यावश्यकत्वेन प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वस्वरविधेरनावश्यकत्वभाष्यम्) इदं तर्हि आत्रेयी परत्वाल्लोपः कित्स्वरं बाधेत। तस्मादेषा परिभाषाश्रयितव्या। एतस्यां च सत्यां शक्यं प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वमवक्तुम्। (1708 संनियोगस्वरविधौ प्रयोजनान्तरवार्तिकम्॥ 10 ॥) - प्रत्ययाद्युदात्तत्वाद् धातोरन्तः- (भाष्यम्) प्रत्ययाद्युदात्तत्वाद् धातोरन्त इत्येतद्भवति विप्रतिषेधेन। प्रत्ययाद्युदात्तत्वस्यावकाशः - यत्रानुदात्ता प्रकृतिः - समत्वम् सिमत्वम्। धातोरन्त इत्येतस्यावकाशः - यत्रानुदात्तः प्रत्ययः - पचति पठतीति। इहोभयं प्राप्नोति - गोपायति धूपायति। धातोरन्त इत्येतद्भवति विप्रतिषेधेन॥ (1709 प्रासङि्गकं प्रत्ययसंज्ञासंनियोगेनस्वरान्तरविधि प्रयोजनवार्तिकम्॥ 11 ॥) - पित्स्वरात्तित्स्वरष्टापि- (भाष्यम्) पित्स्वरात्तित्स्वरष्टापि भवति विप्रतिषेधेन। पित्स्वरस्यावकाशः - पचति पठति। तित्स्वरस्यावकाशः - कार्यं हार्यम्। इहोभयं प्राप्नोति - -कार्या हार्या। तित्स्वरो भवति विप्रतिषेधेन ॥ (1710 प्रत्ययसंज्ञासंनियोगशिष्टस्वरविधिप्रयोजन वार्तिकम्॥ 12 ॥) - चित्स्वरश्चापि पित्स्वरात्- (भाष्यम्) पित्स्वराच्चित्स्वरश्चापि भवति विप्रतिषेधेन। चित्स्वरस्यावकाशः - चलनः कम्पनः। पित्स्वरस्य - स एव। इहोभयं प्राप्नोति आम्बष्ठ्या सौवीर्या। चित्स्वरो भवति विप्रतिषेधेन॥ (1711 विप्रतिषेधरूपप्रयोजननिराकरणवार्तिकम्॥ 13 ॥) - न वाद्युदात्तत्वस्य प्रत्ययसंज्ञासन्नियोगात्- (भाष्यम्) न वार्थो विप्रतिषेधेन ॥ किं कारणम्?। आद्युदात्तत्वस्य प्रत्ययसंज्ञासन्नियोगात्। प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे कृते सति शिष्टत्वाद्धातुस्वरो भविष्यति॥ (विप्रतिषेधस्यायुक्तत्ववर्णनभाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च। किं कारणम्?। (1712 विप्रतिषेधायुक्तत्वहेतुवार्तिकम्॥ 14 ॥) - टापि स्वरितेनैकादेशः- (भाष्यम्) टाप्यपि स्वरितेनैकादेशो भविष्यति॥ इदमिह संप्रधार्यम् - स्वरितत्वं क्रियताम्,एकादेश इति। किमत्र कर्तव्यम्?। परत्वात्स्वरितत्वम्॥ नित्य एकादेशः। कृते स्वरितत्वे प्राप्नोति अकृतेपि॥ स्वरितत्वमपि नित्यम्। कृतेप्येकादेशे प्राप्नोति अकृतेपि॥ अनित्यं स्वरितत्वम्। अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्याकृते शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति॥ एकादेशोप्यनित्यः। अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्याकृते स्वरभिन्नस्य च प्राप्नोति अन्यथास्वरस्याकृते स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति॥ (उभयोरनित्ययोः परत्वात् स्वरितत्वम्)॥ अन्तरङ्गस्तर्हि एकादेशः। कान्तरङ्गता?। वर्णावाश्रित्यैकादेशः, पदस्य स्वरितत्वम्॥ स्वरितत्वमप्यन्तरङ्गम्॥ कथम्?। वक्ष्यत्येतत् - पदग्रहणं परिमाणार्थम् इति। उभयोरन्तरङ्गयोः परत्वात् स्वरितत्वम्। स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोरेकादेशः स्वरितो भविष्यति॥ (पित्स्वरचित्स्वरविप्रतिषेधायुक्तत्वभाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च॥ किं कारणम्?। (1713 हेतुवार्तिकम्॥ 14 ॥) - चापि चित्करणात्- (भाष्यम्) चापि चित्करणसार्मथ्यादन्तोदात्तत्वं भविष्यति॥ आद्युदात्तश्च॥ 6 ॥
Kashika¶
अयमप्यधिकारः परिभाषा वा। आद्युदात्तश्च स भवति यः प्रत्ययसंज्ञः। अनियतस्वर — प्रत्ययप्रसङ्गेऽनेकाक्षु च प्रत्ययेषु देशस्यानियमे सति वचनमिदमादेरुदात्तार्थम्।कर्तव्यम्। तैत्तिरीयम्॥
Siddhanta Kaumudi¶
प्रत्ययः आद्युदात्तः एव स्यात् । अग्निः । कर्तव्यम् ॥
Padamanjari¶
आद्युदातश्च॥ उहास्वरकस्याच उच्चारणासम्भवात्सर्व एव स्वरविधिर्नियमार्थः, तत्र’चितः’ एवान्त उदातः, रित्येव मध्य उदातः, तिदेव स्वरितः, सुप्पितावेवानुदातो, दूरात्सम्बुद्धावेवैकश्रुत्यमति। स्वरान्तराणामन्यत्र नियमात् पारिशेष्यादाद्यौदात एव प्रत्ययो भविष्यति, नास्वरकः नाप्यन्यस्वरकः, तत्राह - अनियतस्वरप्रत्ययप्रसङ्ग इति। अनियतः स्वरो यस्य सोऽनियतस्वरः, स चासौ प्रत्ययश्चानियतस्वरप्रत्ययः तस्य प्रसङ्गे प्रत्ययोऽनियतस्वरो मा भूदित्येवमर्थमित्यर्थः। अनियतस्वरप्रसङ्ग इति पाठे त्वनियतस्य स्वरस्य प्रसङ्ग इत्यर्थः। अयमभिप्रायः - आद्यौदातत्वमपि’ञ्नित्यादिर्नित्यम्’ इत्यादौ नियतत्वान्न स्याद्, अन्यत्रानियमः स्यादेव यत्रायं नियमो नास्ति। किञ्च त्वदुक्ते नियमे चिदातीनामनियमः स्याद्। अतश्चितोऽन्त एव, तित्स्वरित एवेत्यादिकं तत्र तत्र नियमस्वरूपमाश्रणीयम्, ततश्च प्रत्ययस्यानियतस्वरत्वमेव स्यात्। किञ्च, रित्येवोपोतमनुदातमित्यपि नियमेऽन्यत्रोपोतमनुदातं मा भूद्। मध्यान्तरं तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। तस्माद्ये एकाचः प्रत्ययास्तेष्वनियतस्वरप्रसङ्गे वचनमिदमुदातार्थम्। ये पुनरनेकाचः प्रत्ययास्तेषु देशस्याप्यनियमः प्राप्नोतिकदाचिदादेः, कदाचिन्मध्यस्य, कदाचिदन्त्यस्येति। तेषु वचनमिदमुदातार्थम्, तत्राप्यदेरुदातार्थमिति। किमर्थ पुनः प्रत्ययसंज्ञासन्नियोगेनायं स्वर उच्यते, न’ञ्नित्यादिर्नित्यम्’ प्रत्ययस्य च लसार्वधातुकमनुदातं सुप्पितौ चेति स्वरप्रकरण एवोच्येत, एवं हि प्रकरणमभिन्नं भवति? किञ्च, द्विराद्यौदातग्रहणं द्विश्चाद्यौदातग्रहणं न कर्तव्यं भवति? स्यादेतत् - तत्र क्रियमाणे प्रत्ययग्रहणपरिभाषया तदन्तस्य स्वरः प्राप्नोति, इह तु क्रियमाणे नायं दोषो भवेद्, उत्पन्नो हि प्रत्ययस्तदाश्रयाणां तदन्तविध्यादीनां निमितं भवति, न तूत्पद्यमानः, न खलूत्पद्यमानो घट उदकाहरणादीनां निमितमवकल्पते, ततश्च ठाद्यौदातश्चऽ इत्यस्य प्रतियोगमुपस्थाने सति उत्पद्यमान एव तव्यदादिराद्यौदातो भवति, एवं तिबादिरनुदात इति दोषाभावः, अतः प्रत्ययसंज्ञासन्नियोगेन चस्वरो विधीयत इति? तन्न; ज्ञापकात्सिद्धम्, यदयं ञ्नित्यादिरुदातो भवतीत्याह, तज् ज्ञापयति - प्रत्ययस्य चेत्यत्र न तदन्तविधिर्भवतीत्यनुदातत्वमपि तदन्तस्य न भविष्यति; धातोरन्त उदातो भवतीत्यादेः प्रकृतिस्वरस्य विधानसामर्थ्यात्। यत्र ह्यनुदातः प्रत्ययः - याति, वृक्षाभ्यामित्यादौ, तत्र प्रकृतिस्वरः श्रूयते; यातः, यान्ति, वृक्षत्वमित्यादौ सतिशिष्टेन प्रत्ययाद्यौदातत्वेन बाध्यते। यदि च प्रत्ययान्तस्यानुदातत्वं स्याद् निर्विषयं धातुप्रातिपदिकान्तोदातत्वं स्यात्। इदं तर्हि प्रयोजनम् - लवितव्यमित्यादौ प्रत्ययोत्पतिकाले एवाग्युदातत्वे कृते पश्चाद्भवन्निडनुदातो यथा स्यात्, अन्यथा लूअतव्य इति स्थिते आद्यौदातत्वं शब्दान्तरप्राप्त्याऽनित्यम्, इट् तु स्वरभिन्नस्य प्राप्नोति, उभयोरनित्ययोः परत्वादिटि कृते तस्य प्रत्ययग्रहणेन ग्रहणे सति इट एवाद्यौदातत्वं स्यात्? एतदपि ज्ञापकात्सिद्धम्, यदयम्’यासुट्परस्मैपदेषूदातो ङ्च्चि’ इत्याह, तज्ज्ञापयति - आगमा अनुदाता इति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्सस्यात्। ननु पिदर्थमेतत्सस्यात्, अन्यथा चिनुयादित्यादौ पिद्भक्तो यासुङ्नुदातः स्यात्? यद्योतावत्प्रयोजनं स्याद्, यासुट् परस्मैपदेषु भवति, अपिच्च लिङ्भवतीति पित्वमेव प्रतिषेधेत्। अवश्यं चैतज्ज्ञापकमाश्रयणीयम्, अन्यथा प्रत्ययसंज्ञासन्नियोगेनाद्यौदातत्वविधावपि लविषीयेत्यादौ लावस्थायामनच्कत्वादसति स्वरे विशेषविहितत्वात्परत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययाद्यौदातत्वमित्यानुपूर्व्या सीयुट एव स्यात्। ज्ञापकाश्रयणे तु सीयुडनुदातः ठिटोऽत्ऽ इत्यकार उदातो भवति। कथं भवति, यावता सीयुटि कृतेऽकारस्य विच्छिन्नमादित्वम्? नैष दोषः; यासुट उदातवचनं ज्ञापकम् - प्रत्ययाद्यौदातत्वे कर्तव्ये आगमा अविद्यमानवद्भवन्तीति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्स्यात्। किञ्च, लवितव्यमित्यादौ पूर्वमाद्यौदातत्वे सत्यपि पश्चाद्भवन्निट् किमित्यनुदातो भवति शेषनिघातेन? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वातस्य। यस्मिन्पदे यस्यामवस्थायां यस्याच उदातः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इत्यर्थः। न चायं प्रकारोऽत्र सम्भवति। इह तर्हि स्त्रुघ्ने भवा स्त्रौघ्नी प्रत्ययसन्नियोगेनाण उदातत्वे सति ङीप उदातनिवृत्तिस्वरः सिद्धो भवति; अन्यथा स्त्रौघ्न ई इति स्थिते’प्रत्ययस्य च’ इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्यभावान्न स्यात्, न वा बहिरङ्गलक्षणत्वात्। लोपो हि ङीप उत्पत्तिमपेक्षते, स्वरस्तु निरपेक्षः। अवश्यं चात्रान्तरङ्गत्वमेवाश्रयणीयम्, अन्यथा कंसेन क्रीता’कंसाट्टिठन्’ टित इति ङीप्, कंस ठ ई इति स्थिते’ञ्नित्यादिः’ इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपः स्यात्, ततश्च नित्स्वरे लोपेन बाधिते प्रत्ययसंज्ञासन्नियोगेन विधीयमानमाद्यौदातत्वमकारस्य स्थितमिति तस्य लोपे ङीप उदातनिवृत्तिस्वरः स्यात्। ननु च ठचश्चित्करणात्पूर्वमिकारदेशस्ततः प्रत्ययाद्यौदातत्वमिति नास्त्युदातलोपः। इह तर्हि उत्से जाता ठुत्सादिभ्योऽञ्ऽ,ङीप्, उत्स अ ई इति स्थिते ञित्स्वरं बाधित्वा परत्वाद्यस्येति लोपे पूर्वाक्तया नीत्या डीप उदातनिवृत्तिस्वरः स्यात्? नैष दोषः; नित्स्वरो हि प्रत्ययस्वरस्यापवादः, न चापवादविषय उत्सर्गोऽभिनिविशते, तत्र तावदत्र प्रत्ययाद्यौदातत्वं भवति, अपवादं ञ्नित्स्वरं प्रतीक्ष्यत इति कुत उदातलोपः! इह तर्हि अत्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, आयन्नादिषूपदेशिवचनं स्वरसिद्ध्यर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः, ङीप् आत्रेय ई इति स्थिते तद्धितस्य कित इति स्वरं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्तिस्वर ईकारस्य न प्राप्नोति तस्मादान्तरङ्गत्वमेवाश्रयणीयम्। एवं च स्रौघ्नीत्यत्रापि अन्तरङ्गत्वादेव सिद्धमिष्टमिति नार्थ एतदर्थेन प्रत्ययसंज्ञासन्नियोगेनाद्यौदातवचनेन। इदं तर्हि प्रयोजनम् - गोपायाति धूपायति, उत्पत्तिसन्नियोगेनाद्यौदातत्वे पश्चात्’सनाद्यन्ता धातवः’ इति धातुसंज्ञायां धातोरित्यन्तोदातत्वं भवति। यदि तु ञ्नित्यादिर्नित्यं प्रत्ययस्य चेत्युच्येत, परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। स्यादेतत्। अनुदातस्य तर्ह्यत्र प्रदेशे करणे किं प्रयोजनम्? स्यादेतत् - कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्व प्रत्यन्तवद्भावातित्स्वरितश्च प्राप्नोति, परं प्रत्यादिवद्भावात्पित्स्वरश्च, परत्वात्स्वरितो भवति। यदि तु लसार्वधातुकमनुदातं सुप्पितौ चेत्युच्येत परत्वादनुदात्वं स्यादिति? तन्न; तत्र हि टाबु त्पतेरपि प्रागेव स्वरितो भवति, सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरितत्वे कृते आन्तर्यतः स्वरितानुदातयोरेकादेशः स्वरितो भविष्यति। इदं तर्हि - आम्बष्ठ।ल यङ्श्चाप्येकादेशे कृते पित्स्वरश्च प्राप्नोति चित्स्वरश्च, परत्वाच्चित्स्वरो भवति, अन्यत्र क्रियमाणो पित्स्वरः स्यात्? अत्रापि चापश्चित्करणसामर्थ्यादेवच चित्स्वरो भविष्यति। सामान्यग्रहणाविघातार्थे हि चकारे टाप्प्रकरण एव यङ्ष्टापं विदधीत। एवं तर्हि तदेव तस्मिन्प्रयोजनं तदन्तविधिर्मा भूदिति। यदुक्त प्रकृतिस्वरस्य विधानसामर्थ्यादिति? तत्र आस्ते शेत इत्यादौ लसार्वधातुकमात्रस्यानुदातत्वे सति धातुस्वरस्य सावकाशत्वात्। प्रातिपदिकान्तोदातत्वमपि अग्निमान्, वायुमान्, अग्रीनामित्यादौ’ह्रस्वनुड्भ्यां मतुप्’ ‘नामन्यतरस्याम्’ इति स्वरसिद्ध्यर्थ स्यात्, अत्र ह्यन्तोदातादिति वर्तत इत्यलमपि कर्कशेन क्षोदेन॥
Nyaas¶
अनियतस्वरप्रत्ययप्रसङ्गे इत्यादिना सूत्रारम्भस्य प्रयोजनं दर्शयति। अनियतोऽव्यवस्थितः स्वरो यस्य स तथा, स चासौ प्रत्ययश्चेति कर्मधारयः, तस्य प्रसङ्गशब्देन षष्ठीसमासः। अनियतस्वरो यः प्रत्ययस्तस्य प्रसङ्गे सति वचनमिदमादेरुदात्तार्थम्। अनियतस्वरप्रसङ्गे इति क्वचित्पाठः। तत्रानियतशब्दस्य स्वरशब्देन विशेषमसमासं कृत्वा प्रसङ्गशब्देन षष्ठीसमासः। अनियतानामुदात्तादीनां स्वराणां प्रसङ्गे सत्यादेरुदात्तार्थ वचनम्। अनेकाक्षु च इत्यादि। अनेकेऽचो येषां तेऽनेकाचः। तेष्वनेकाक्षु प्रत्ययेषु देशस्यानियमे सति वचनमादेरुदात्तार्थम् - आदेरेवोदात्तत्वं यथा स्यात्, मध्येऽन्ते च मा भूदिति। ये ह्रेकाचः प्रत्ययास्तत्र देशस्याभावादसत्यप्यादिग्रहणे देश्यानियमो न सम्भवति, अतोऽनेकाक्षु चेत्युक्तम्।अनेकाचां ह्रसत्यादिग्रह आदिमध्यान्तानामनियमेन स्वरः प्रसज्येतनेकाचः प्रत्ययादेर्यद्याद्युदात्तार्थवचनं नार्थं एतेन; यस्मादादेरनुदात्तादीनां मध्यान्तयोश्चोदात्तस्य प्रसङ्ग एव नास्ति। तथा हि - यमनुदात्तमिच्छति, करोति तत्र पकारमनुबन्धम्, आह च - अनुदात्तौ सुप्पितौ (3.1.4) इति; स्वरितमपि यमिच्छति, करोति तत्र तकारमनुबन्धम्, आह च - तित्स्वरितम् (6.1.185) इति; एकश्रुतिं यमिच्छति तत्रैकश्रुतिग्रहणं करोति, आह च - एकश्रुति दूरात्सम्बुद्धौ (1.2.33) इति; अन्तोदात्तमपि यमिच्छति करोति तत्र चकारमनुबन्धम्, आह च - चितोन्त उदात्तो रित (का।6.1.169) इति; मध्योदात्तमपि यमिच्छति, करोति तत्र रेफमनुबन्धम्, आह - उपोत्तमं रिति (6.1.217) इति; य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनमाद्युदात्त एव भविष्यति? नैतदस्ति; येषामेव हि स्वरो नियम्यते त एव नियतस्वराः स्युः, यस्त्वनियतस्वरः प्रत्ययस्तस्यानियमेनैव स्वरः प्रसज्येत - कदाचिदुदात्तः कदाचित् स्वरान्तरम्। उदात्तोऽपि भवन् कदाचिदादौ, कदाचिन्मध्ये, कदाचिदन्ते स्यात्। तस्मात् कर्तव्यमेतत्॥
Prakriyasarvasvam¶
प्रत्यय आद्युदात्तः स्यात् । आरित्रं वां चरित्रं हि खनमानः खनित्रैः । इन्नस्य इकार उदात्तः । प्रत्ययः सव आद्युदात्तः स्यात् । इति तकारस्याप्युदात्तत्वम् । एवं द्वयोरुदात्त- स्वप्राप्तौ ‘अनुदात्तं पदमेकवर्जम्’ (६-१-१५८) इत्येकस्यैवोदात्तत्वे कार्ये ‘स्वरः सतिशिष्टो बलीयान्’ (परि.) इति धातुस्वरे स्थिते विहितत्वेन प्रत्ययस्वरस्य बलवत्त्वात् तस्यैवोदात्तत्वम् । आद्यान्त्याकारयोस्त्वनुदात्तत्वमेव । कर्तव्यः । ‘उदात्तस्वरितपरस्य सन्नतरः’ (१-२-४०) इत्याद्याकारस्यातिनीचत्वम् । ‘उदात्ता- दनुदात्तस्य स्वरितः’ (८-४-६६) इत्यन्त्याकारस्य स्वरितत्वम् ‘अनुदात्तं पदम्’ (६-१-१५८) इति परिभाषायाः कार्यकालप्रवृत्तित्वाभावेन तस्याः सन्नतरस्व- रितविधेरसिद्धत्वात् पुनरनुदात्तत्वं न । कर्तव्य¹ः ।