31002: परश्च

Padacheda: परः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते प्रकृतेः परः आगच्छन्ति ।

अस्य अधिकारस्य व्याप्तिः अपि प्रत्ययः (3.1.1) अधिकारवत् त्रिषु अध्यायेषु वर्तते । सर्वे प्रत्ययाः प्रकृतेः अनन्तरमागच्छन्ति इत्यर्थः । प्रत्ययः (3.1.1) अयं संज्ञा-अधिकारः अस्ति, यतः अनेन सूत्रेण प्रत्ययसंज्ञायाः व्याप्तिः निर्दिश्यते । तथा च, परश्च (3.1.2) अयं परिभाषा-अधिकारः अस्ति यतः अनेन सूत्रेण प्रत्ययाः कुत्र प्रयोक्तव्याः तत् स्पष्टीक्रियते । ज्ञातव्यम् - अस्मिन् सूत्रे ‘च’कारस्य प्रयोगः एतत् ज्ञापयितुम् कृतः अस्ति यत् अयम् ‘परत्वम्’ तदा अपि भवति यदा उणादयो बहुलम् (3.3.1) इत्यनेन प्रत्ययत्वं विकल्प्यते । इत्युक्ते, ये प्रत्ययाः बहुलम् विधीयन्ते, तेषामपि परत्वम् नित्यमेव अस्ति, बहुलम् न ।

Sutrartha (English)

All the words told in this अधिकार are to be attached at the end of the प्रकृति.

Vasu English Summary

And subsequent.

Vasu English Translation

And subsequent. This is also an ‘adhikara’ or regulating sutra, and is understood in all subsequent aphorisms; or it might also be called a ‘paribhasha’ or interpreting aphorism. That which is called an affix comes after, or is placed after, the ‘dhatu’ or root, or the ‘pratipadika’ or crude form; as कर्त्तव्यम् and तैत्तिरीयम्.

The force of the word च ‘and’ in this sutra is to indicate that the affixes here treated of, are to be placed after a root &c.; not so, however the affixes, may sometimes, be placed in the beginning or the middle of a word.

Bhashya

परश्च (319) (681 अधिकारसूत्रम्॥ 3.1.2 सूत्रम्) (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते?॥ (समाधानभाष्यम्) परो यथा स्यात्, पूर्वो मा भूदिति॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। यमिच्छति पूर्वम्, आह तं विभाषा सुपो बहुच् पुरस्तात् इति॥ (समाधानान्तरभाष्यम्) मध्ये तर्हि मा भूदिति। (समाधानान्तरबाधकभाष्यम्) मध्येपि यमिच्छति, आह तम् - अव्ययसर्वनाम्नामकच् प्राक् टे रिति॥ य इदानीमतोन्यः प्रत्ययः शेषः सोन्तरेण वचनं पर एव भविष्यतीति नार्थः परवचनेन। (समाधानभाष्यम्) एवमपि येषामेव प्रत्ययानां देशो नियम्यते, त एव नियतदेशाः स्युः। य इदानीमनियतदेशः स कदाचित्परः कदाचित्पूर्वः कदाचिन्मध्ये स्यात्। तद्यथा - मातुर्वत्सः कदाचिदग्रतः कदाचित्पृष्ठतः, कदाचित्पार्श्वतो भवति। पर एव यथा स्यादित्येवमर्थं परवचनम्॥ (1688 सूत्रप्रत्याख्यानवार्तिकम्॥ 1 ॥) - परवचनमनर्थकं पञ्चमीनिर्दिष्टाद्धि परस्य (कार्यम्)- (भाष्यम्) परग्रहणमनर्थकम्। किं कारणम्?। पञ्चमीनिर्दिष्टाद्धि परस्य कार्यमुच्यते। तद्यथा - -द्व्यन्तरुपसर्गेभ्योऽप इर्दिति। (प्रत्याख्यानानुपपत्तिभाष्यम्) विषम उपन्यासः। सतस्तत्र परस्य कार्यमुच्यते। इहेदानीं कस्य सतः परस्य कार्यं भवितुमर्हति॥ (प्रत्याख्यानोपपादकभाष्यम्) इहापि सत एव। कथम्?। स्वाभाविकं परत्वम्। (अनुयोगभाष्यम्) अथ वाचनिके परत्वे सति परग्रहणेनार्थः कार्यम् - यदसौ परतः स्यात्॥ अथ वा - यदस्य परस्य सतः संज्ञा स्यात्॥ (सूत्रावश्यकताभाष्यम्) यत्र तर्हि पञ्चमी नास्ति तदर्थमयं योगो वक्तव्यः॥ क्व (च) पञ्चमी नास्ति?। यत्र विकारागमाः शिष्यन्ते॥ क्व च विकारागमाः शिष्यन्ते?। हनस्त च त्रपुजतुनोः षुक् इति॥ (1689 सूत्रप्रत्याख्यानसाधकवार्तिकम्॥ 2 ॥) - विकारागमेषु चोक्तम्- (भाष्यम्) विकारागमेषु चोक्तम्॥ किमुक्तम्?। प्रत्ययविधानानुपपत्तिस्तु तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम्॥ इति॥ - अत्यन्तापरदृष्टानां वा परभूतलोपार्थम्- (भाष्यम्) अत्यन्तापरदृष्टानां तर्हि परभूतलोपार्थं परग्रहणं कर्तव्यम्। य एतेऽत्यन्तापरदृष्टाः क्विबादयो लुप्यन्ते तेषां परभूतानां लोपो यथा स्यात्। अपरभूतानां मा भूदिति॥ किं पुनरत्यन्तापरदृष्टानां परभूतलोपवचने प्रयोजनम्?। कितिणितीति कार्याणि यथा स्युरिति॥ (सूत्रावश्यकतानिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति - अत्यन्तापरदृष्टाः परभूता एव लुप्यन्ते इति, यदयं तेषु कादीननुबन्धानासजति॥ कथं कृत्वा ज्ञापकम्?। अनुबन्धासञ्जन एतत्प्रयोजनम् - कितिणितीति कार्याणि यथा स्युरिति। यदि चात्यन्तापरदृष्टाः परभूता लुप्यन्ते ततोनुबन्धासञ्जनमर्थवद् भवति॥ (1691 सूत्रावश्यकतावार्तिकम्॥ 4 ॥) - प्रयोगनियमार्थं वा - (भाष्यम्) प्रयोगनियमार्थं तर्हि परग्रहणं कर्तव्यम्। परभूतानां प्रयोगो यथा स्यात्। अपरभूतानां मा भूदिति॥ (अनुयोगभाष्यम्) अस्ति पुनः किंचिदनिष्टं दृश्यते यदर्थो नियमः स्यात्॥ (समाधानभाष्यम्) अस्तीत्याह॥ (1692 अप्रत्ययप्रकृतिदर्शिवार्तिकम्॥ 5 ॥) - प्रकृतेरर्थाभिधानेऽप्रत्ययदर्शनात्- (भाष्यम्) प्रकृतिरर्थाभिधाने अप्रत्ययिका दृश्यते - -क्व स देवदत्तः क्व स यज्ञदत्तः बभ्रुः, मण्डुः, लमक इति। बाभ्रव्यो माण्डव्यो लामकायन इति प्रयोक्तव्ये बभ्रुर्मण्डुर्लमक इति प्रयुज्यते॥ (1693 अप्रकृतिकप्रत्ययदर्शिवार्तिकम्॥ 6 ॥) - द्वयसादीनां च केवलानां प्रयोगो दृश्यते - किमस्य द्वयसम्, किमस्य मात्रम्, काद्यतिथीति॥ (द्वयसादीनां प्रातिपदिकत्वदर्शिभाष्यम्) द्वयसादयो वृत्तिजसदृशाः अवृत्तिजाः यथा बहुस्तथा। (1694 सूत्रावश्यकतादर्शिवार्तिकम्॥ 7 ॥) - वावचने चानुत्पत्त्यर्थम्- (भाष्यम्) वावचने चानुत्पत्त्यर्थं परग्रहणं कर्तव्यम्। वावचने चानुत्पत्तिर्यथा स्यात्॥ (आक्षेपभाष्यम्) अथ क्रियमाणेपि वै तपरग्रहणे कथमिव वावचनेनानुत्पत्तिर्लभ्या?॥ (समाधानभाष्यम्) क्रियमाणे परग्रहणे वावचने वा पर इत्येतदभिसंबध्यते। अक्रियमाणे परग्रहणे वाचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः। न च संज्ञायाः। न च संज्ञाया भावाभावाविष्येते॥ (1698 उभयनियमाङ्गीकारसिद्धान्तवार्तिकम्॥ 11 ॥ - सिद्धं तूभयनियमात्- (भाष्यम्) सिद्धमेतत्॥ कथम्?। उभयनियमात्। उभयनियमोयम् - प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव च प्रकृतिरिति॥ किं वक्तव्यमेतत्?। परग्रहणसार्मथ्याद् अन्तरेणापि परग्रहणं स्यादेवायं परः। पर एव स्यादित्येवमर्थं परग्रहणम्॥ परश्च॥ 2 ॥

Kashika

अयमप्यधिकारो योगेयोग उपतिष्ठते, परिभाषा वा। परश्च स भवति धातोर्वा प्रातिपदिकाद् वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पुनरस्यैव समुच्चयार्थः। तेनोणादिषु परत्वं न विकल्प्यते॥

Siddhanta Kaumudi

अयमपि तथा ॥

Laghu Siddhanta Kaumudi

इत्यधिकृत्य । ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः ॥

Balamanorama

परश्च - परश्च । तृतीयाध्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति । अयमपि योग आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः । अवधिनियमे तु व्याख्यानमेव शरणम् ।

Padamanjari

परश्च॥ अयमप्यधिकार इति। न केवलम्’प्रत्यय’ इत्ययमेवेत्यपिशब्दार्थः। योगे योगे उपतिष्ठते इति। अनेन परिभाषातोऽधिकारस्य भेदको धर्मो दर्शितः। परिभाषा हि न प्रतियोगमुपतिष्ठते, किन्त्वेकदेशस्थितैव सर्वशास्त्रे व्याप्रियते। परश्च स भवतीत्यादि। अनेनेहस्थाया एवास्याः परिभाषायाः प्रत्ययविधौ सर्वत्र व्यापारो दर्शितः। लिङ्गवती चेयं परिभाषा, प्रत्ययसंज्ञा च लिङ्गम्। धातोर्वेति। क्रियावाचिन्याः प्रकृतेस्तिङ्न्तादेरप्युपलक्षणमेतत्। प्रातिपदिकाद्वेति। अक्रियावाचिन्याः प्रकृतेरिदमुपलक्षणम्, तेन ङ्यापोरपि ग्रहणम्। तैतिरीयमिति। तितिरिणा प्रोक्तमधीते,’तितिरिवरन्तुखण्डिकोखाच्छण्’ ‘च्छन्दोब्राह्मणानि च तद्विषयाणि’ ‘तदधीते तद्वेद’ ,’प्रोक्ताल्लुक्’ , ब्राह्मणकुलस्याभिधेयत्वान्नपुंसकन्वम्। चकारः पुनरस्यैव समुच्चयार्थ इति। अन्यस्य समुच्चेतव्यस्याभावात्। तेनेति। अन्यथा बहुलवचनस्य सर्वोपाधिव्यभिचारार्थत्वादुणादिषु परत्वस्यापि विकल्पः सम्भाव्येत, इह’गुप्तिज्किद्भ्यः सन्’ इत्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्वः पर इति वा दिक्शब्दस्याश्रवणादनियमेनाध्याहारे सत्यनियमेन प्रयोगप्रसङ्गे नियमार्थमिदम् - पर एव प्रत्ययो न पूर्व इति।’गापोष्टक्’ इत्यादौ षष्ठीनिर्द्देशेऽप्यानन्तर्यसम्बन्धे षष्ठीविज्ञानादानन्तर्यस्य च पूर्वत्वेऽपि भावादनियमप्रसङ्ग एवेति तत्रापि नियमार्थमेव। नैतदस्ति प्रयोजनम्,’विभाषा सुपो बहुच् पुरस्तातु’ इत्येतन्नियमार्थ भविष्यति - बहुजेव पुरस्ताद्भवति नान्यः प्रत्यय इति, ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति, षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग इति चेत्, न;ठव्ययसर्वनाम्नामकच् प्राक्टेःऽ इति नियमात् अकजेव प्रकृतिमध्ये भवति, नान्य इति? नैतदेवम्; यदि तावदेवं नियमः - बहुजेव पुरस्तादकजेव मध्ये इति, ततो बहुजकचोर्नियमो न स्यात्। अथ बहुच् पुरस्तादेव अकज्मध्य एवेति, ततो देशस्यानियतत्वातत्र प्रत्ययान्तरं स्यादेवेति सर्वथानिष्टप्रसङ्गः। किञ्च अकजेव प्राक् टेरित्येवं नियमे प्राक् टेः प्रत्ययान्तरं मा भूत्, मध्यान्तरे तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। न च’तस्मादित्युतरस्य’ इत्यनया परिभाषयात्र परत्वं सिद्ध्यति, यत्र हि प्रागोव सतः कस्यचित् किञ्चिद्विधीयते, यथा - पदात्परयोरपादादौ वर्तमानयोर्युष्मदस्मदोर्वानावौ भवत इति, स तस्या विषयः; इह तु प्रागसन्त एव सनादयो विधीयन्ते, न तेषां सम्बन्धि किञ्चित्, प्रत्ययसंज्ञैव तेषां कार्यमिति चेत्, न; एवमपि प्रागुत्पत्तिरनिवारिता स्यात्। तथा हि - असतां सनादीनां सज्ञाविधिरनुपपन्न इत्येकेन वाक्येन सनादीनां विधिर्द्वितीयेन च तेषामेव संज्ञाविधिरित्यङ्गोकरणीयम्, ततश्च द्वितीये वाक्ये सतः कार्यमिति कृत्वा परिभाषोपस्थानेन प्राक् प्रयुक्तानां संज्ञैव केवलं न स्यादुत्पत्तिस्त्वनियतदेशैव स्यात्; प्रथमवाक्ये परिभाषानुपस्थानात्। स्यादेतत् -‘गुप्तिज्किद्भ्यः सन्’ इत्यादावेकैव पञ्चमी, सा चैकमेव दिक्शब्दमध्याहरेत्, तत्र पूर्वः परो वेति संशये पूर्वशब्दाध्याहारे द्वितीयस्य वाक्यस्य स्वरसभङ्गः स्यात्। गुपादिभ्यः परः सन् प्रत्ययसंज्ञो भवतीति हि तस्य स्वरसतः प्राप्तोऽर्थः, स च पूर्ववाक्ये पूर्वशब्दाध्याहारे सति भग्नः स्यात्, अतस्तत्परिरक्षणाय परशब्द एवाध्याहरिष्यते। भवतु वोत्पतिरनियतदेशा, पश्चातु सत एव परस्य यत्कृत्यप्रत्ययसंज्ञादिशास्त्रकार्यम्, तन्नान्यदेशस्य,यद्देशस्य च शास्त्रीयं कार्यं तद्देशोऽन्यदेशं निवर्तयिष्यति; विशेषशास्त्रान्वितत्वेन तस्यैव साधुत्वादिति? अस्त्वेवम्, अथ येषु प्रत्ययसंज्ञैव न भवति -‘शमेः खः’ शङ्खः,’कणेष्ठः’ कण्ठ इत्यादिषु, तेषु कथं परत्दम्, द्वितीयवाक्यव्यापाराभावात्? भवतो वा कथं भवानपि हि’यः प्रत्ययः स परः’ इति प्रत्ययपूर्वकं परत्वं परिभाषते? सत्यम्; परिभाषापक्षे न स्यात्परत्वम्, अधिकारपक्षे तु प्रत्ययत्वपूर्वकं परत्वं न भवति; किन्तु परत्वविशिष्टस्यैवोत्पन्नस्य पश्चात्प्रत्ययसंज्ञा, इह तु बहुलवचनात्प्रत्ययत्वाभावेऽपि परत्वमविरूद्धम्। एवमपि नार्थ एतेन, बहुलवचनादेव परत्वमेवात्र व्यवस्थास्यते? एवं तर्हि प्रयोगनियमार्थमिदम् - पर एव प्रत्ययो न केवल इति; अन्यथा प्रत्ययार्थमात्रविवक्षायां केवलोऽपि प्रत्ययः प्रयुज्येत, यथा - किमस्य द्वयसम्, किमस्य मात्रमिति; यथा वा प्रकर्षविवक्षायां तरतमभावः तारतम्यमिति। ननु प्रकृतिविशेषं निर्द्दिश्यैव विधीयते, तत्र पूर्वोक्तया नीत्या परत्वविशिष्टस्यैव विधानमिति नास्ति केवलस्य प्रयोगः? एवमपि प्रकृत्यर्थमात्रविवक्षायां केवलायाः प्रकृतेः प्रयोगः स्यादेव, यथा - पच्, वृक्षेति। यत्र पुनरुभयं विवक्षितम् - प्रकृत्यर्थः, प्रत्ययार्थश्च, न तत्र केवलायाः प्रकृतेः प्रयोगप्रसङ्गः ; न केवला प्रकृतिः प्रत्ययार्थमभिधातुं समर्थेति। लक्षणया समर्थेति चेत्? नो खल्वारभ्यमाणमप्येतल्लक्षणया प्रयोगं निवारयितुमर्हति, अतः केवलप्रकृत्यर्थविवक्षायां केवला प्रकृतिर्मा प्रयोजीति सूत्रारम्भः। चशब्दश्चावधारणे, प्रत्ययः परो भवत्येव, न तु कदाचिन्न भवतीति वचनव्यक्तिः। आ पदत्वनिष्पतेश्चायं नियमः, निष्पन्ने तु पदे तावदेव प्रयुज्यते। अपत्याद्यर्थान्तरविवक्षायां तु तस्मादपि प्रत्ययान्तरं भवति॥

Nyaas

अयमप्यधिकारः इति। न केवलं प्रत्यय इत्यपिशब्दार्थः। योगे योगे उपतिष्ठते इति। परिभाषाया अधिकारस्य भेदं दर्शयति। परिभाषा ह्रेकदेशस्थैव सर्वत्र शास्त्रे व्याप्रियते, न तु प्रतियोगमुपतिष्ठते। परिभाषा वा इति। पक्षान्तरं दर्शयति। एकदेशस्यैव सर्वत्र शास्त्रे व्याप्रियत इत्येष परिभाषाधर्मो वृत्तौ न दर्शितः; अधिकारधर्मप्रदर्शनद्वारेणावगम्यमानत्वात्। यदि हि प्रयोगमुपतिष्ठमाना परिभाषा कार्यसिद्धौ व्याप्रियेत तदाऽधिकारपरिभाषयोर्भेदो न स्यात्, तथा च तयोरिह भेदेनोपन्यसो निष्फलः स्यात्। लिङ्गवती चेयं परिभाषा, लिङ्गञ्चास्याः प्रत्ययसंज्ञैव। धातोर्वेति क्रियावाचिन्या प्रकृतेरिदमुपलक्षणम्, तेन तिङन्तमपि गृह्रते। तदपि क्रियाप्रधानत्वात् क्रियावाचीति शक्यते व्यपदेष्टुम्। प्रधानेन हि व्यपदेशा भवन्ति, यथा - राजधानीति। प्रातिपदिकाद्वा इति। अक्रियाभिधायिन्याः प्रकृतेरिदमुपक्षणम्, तेन ङ्यापावपि गृह्रेते। तैत्तिरीयम् इति। प्रोक्तार्थे तित्तिरवरतन्तुखण्डिकोखाच्छण् (4.3.102) इति छण्। तदन्तात् तदधीते तद्वेद (4.2.59) इत्यण्। तस्य प्रोक्ताल्लुक् (4.2.64) इति लुक्। अथ चकारः किमर्थः; यावता नात्र किञ्चित् प्रकृतमस्ति यच्चकारेण समुच्चीयते? इत्याह - चकारः पुनः इत्यादि। अन्यस्य समुच्चेतव्यस्याभावादस्यैव समुच्चयार्थश्चकारो विज्ञायते, तेन बहुलाधिकारेऽपि ये प्रत्यया विधीयन्ते तेष्वप्यृणादिषु परत्वं न विकल्प्यते।किमर्थं पुनरिदमुच्यते? परो यथा स्यात्, पूर्वो मा भूदिति। नैतदस्ति प्रयोजनम्, तथा हि - यमिच्छति पूर्वं तमाह - अव्ययसर्वनाम्नामकच् प्राक्टेः (5.3.71) इति। य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनं पर एव भविष्यति? नैतदस्ति; येषामेव हि प्रत्ययानां देशो नियम्यते त एव नियतदेशाः स्युः। य इदानीमतोऽन्योऽनियतदेशः स कदाचित् परे, कदाचित् पूर्वे, कदाचिन्मध्ये स्यात्, तस्मात् परश्चेति वक्तव्यम्? न वक्तव्यम्; यस्मात् धातोः प्रतिपदिकादिति च दिग्योगलक्षमेयं पञ्चमी; अन्यस्यापादानादेः पञ्चमीनिमित्तस्याभावात्। तस्मादेषैव परदिक्शब्दाध्याहारं करिष्यति? नैतदस्ति; पूर्वदिक्शब्दाध्याहारः स्यात्, तथा च पूर्वेऽपि कदाचित् सन्नादयः स्युः। तस्मादित्युत्तरस्य (1.1.67) इत्यनया परिभाषया तर्हि व्यवस्था भविष्यति? नैतदस्ति; यत्र पञ्चमीनिर्दिष्टात् परस्य षष्ठीनिर्देशस्य कार्यं विधीयते सोऽस्य विषयः, न च सन्नादयः षष्ठआ निर्दिश्यन्ते, तनापि तेषां सम्बन्धिकार्यं विधीयते, तेषामेव भाव्यमानत्वात्। ननु च प्रत्ययसंज्ञाकार्यं विधीयते? नैवम्, कथं पुनरसतां तेषां शक्यं संज्ञाकार्यं विधातुम्? किञ्च येषां प्रत्ययसंज्ञैव न विधीयते - कणेष्ठः (द।उ। 5।6) शमेर्ढः (5।11), इत्येवमादीनाम्, तत्र का गतिः स्यात्? न ह्रेषां प्रत्ययसंज्ञेष्यते, तथा हि - कण्ठः, शण्ढ इत्यत्र प्रत्ययस्योच्यमानमिकादेशादिकार्यं न भवति। यद्येवम्, प्रत्ययस्योच्यमानं परत्वमपि न स्यात्? परश्चेत्यधिकारसामर्थ्याद्भविष्यति। असति ह्रेतस्मिन् वचने सत्यपि तस्याः परिभाषाया उपस्थाने बहुलाधिकारे विधीयमानत्वादुणादिषु परत्वं विकल्प्येत। तस्मात् कर्तव्यमेतत्॥

Prakriyasarvasvam

ते च प्रकृतेः परा एव स्युः ।

Sarala

ङ्यन्तादिति । इयं वृत्तिः स्वौजसमौडित्यस्येति ध्येयम् ॥