24053: ब्रुवो वचिः

Padacheda: ब्रुवः | S | 6 | 1 |

वचिः | S | 1 | 1 |

Sutrartha


Vasu English Summary

वचि is the substitute of ब्रू ‘to speak’ when any आर्धधातुक affix is to be supplied.

Vasu English Translation

वचि is the substitute of ब्रू ‘to speak’ when any आर्धधातुक affix is to be supplied. वक्ता ‘he will speak,’ वक्तुम् ‘in order to speak.’ The इ of वचि is for the sake of articulation only. The substitute being like the principal, वच् is Atmanepadi when the fruit of the action accrues to the agent, as ऊचे ‘he spoke,’ वक्ष्यते ‘he will speak.’

Kashika

ब्रुवो वचिरादेशो भवत्यार्धधातुकविषये। इकार उच्चारणार्थः। वक्ता। वक्तुम्। वक्तव्यम्। स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदं भवति। ऊचे। वक्ष्यते॥

Siddhanta Kaumudi

उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । ङिच्च पिन्न इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्ति (SK2438)इत्यङ् ॥

Laghu Siddhanta Kaumudi

आर्धधातुके। उवाच। ऊचतुः। ऊचुः। उवचिथ, उवक्थ। ऊचे। वक्तासि, वक्तासे। वक्ष्यति, वक्ष्यते। ब्रवीतु, ब्रूतात्। ब्रुवन्तु। ब्रूहि। ब्रवाणि। ब्रूताम्। ब्रवै। अब्रवीत्, अब्रूत। ब्रूयात्, ब्रुवीत। उच्यात्, वक्षीष्ट॥

Balamanorama

ब्रुवो वचिः - ब्राउवो वचिः । ब्राउवो वचिरादेशः स्यादार्धधातुके इत्यर्थः । इकार उच्चारणार्थः । उवाचेति । अकिति द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊचतुरिति । किति द्वित्वात्प्राक्वचिस्वपियजादीना॑मिति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् ‘अभ्यासस्याऽसवर्णे’ इत्युवङभावे सवर्णदीर्घ इति भावः । वचिर्निट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट् । तदाह — उवचिथ उवक्थेति । इडभावेचोः कुः ।ब्राउव ई॑डित्यत्रनाभ्यस्तस्ये॑त्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीण्न । ऊचथुः ऊच । उवाच — उवच ऊचिम ऊचिम । क्रादिनियमादिट् । ऊचे इति ऊचाते ऊचिरे । ऊचिषे ऊचाथे ऊचिध्वे । ऊचे ऊचिवहे ऊचिमहे । वक्तेति । वच्यादेशे इण्निषेधः । वक्ष्यति वक्ष्यते । ब्रावीतु ब्राऊतादिति । ननु तिबादेशस्य तातङ पित्त्वात्ब्राउव ई॑डिति ईडागमः स्यादित्यत आह — ङिच्चेति । ब्राऊताम् ब्राउवन्तु । ब्राऊहि ब्राऊतात् ब्राऊतम् ब्राऊत । ब्रावाणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । ब्रावाव ब्रावाम । ब्राऊताम् ब्राउवाताम् ब्राउवताम् । ब्राऊष्व ब्राउवाथाम् ब्राऊध्वमिति सिद्धवत्कृत्य आह — ब्रावै इति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुणः । ब्रावावहै ब्रावामहै । लङि — अब्रावीत् अब्राऊतामब्राउवन् । अब्रावीः अब्राऊतमब्राऊत । अब्रावमब्राऊव अब्राऊम । विधिलिङ्याह — ब्राऊयादिति । ब्राऊयादिति । ब्राऊयातामित्यादि । आशीर्लिङ्याह — उच्यादिति । वच्यादेशेवचिस्वपी॑ति संप्रसारणमिति भावः । उच्यास्तामित्यादि । आत्मनेपदे आशीर्लिङि — वक्षीष्ट वक्षीयास्तामित्यादि । अकित्त्वान्न संप्रसारणम् । लुङि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह — अस्यतीति । अवच् अ त् इति स्थिते —

Padamanjari

ब्रु वो वचिः॥ ब्रुव आर्धधातुके प्रयोगनिवृत्यर्थ वचनम्। वक्तेत्यादिकं तु वचेरेव सिद्धम्॥

Nyaas

वक्ता इति। चोः कुः (8.2.30) इति कुत्वम्। ऊचे इति। वच्यादिसूत्रेण (6.1.15) सम्प्रासारणम्॥

Prakriyasarvasvam

ब्रुव आर्धधातुके वच्यादेशः स्यात् । उच्यते । अवोचत् । इत्यादि पूर्वोक्त- वचिवत् । अस्व स्थानिवत् तङप्यस्ति । अवोचत । ऊचे । इत्यादि । धिचेति लोपं सिच एव केचिद् वदन्ति तेषां हि चकासुधातोः । धित्वेऽथ जश्त्वेन चकाद्धिरूपं <karika>सस्यैव लोपोक्तिमते चकाधि ॥ ७१४ ॥</karika> ॥ इति लुग्विकरणाः ॥