24053: ब्रुवो वचिः ================== **Padacheda:** ब्रुवः | S | 6 | 1 | वचिः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- वचि is the substitute of ब्रू 'to speak' when any आर्धधातुक affix is to be supplied. Vasu English Translation ------------------------ वचि is the substitute of ब्रू 'to speak' when any आर्धधातुक affix is to be supplied. वक्ता 'he will speak,' वक्तुम् 'in order to speak.' The इ of वचि is for the sake of articulation only. The substitute being like the principal, वच् is *Atmanepadi* when the fruit of the action accrues to the agent, as ऊचे 'he spoke,' वक्ष्यते 'he will speak.' Kashika ------- ब्रुवो वचिरादेशो भवत्यार्धधातुकविषये। इकार उच्चारणार्थः। वक्ता। वक्तुम्। वक्तव्यम्। स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदं भवति। ऊचे। वक्ष्यते॥ Siddhanta Kaumudi ----------------- उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । ङिच्च पिन्न इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्ति (SK2438)इत्यङ् ॥ Laghu Siddhanta Kaumudi ----------------------- आर्धधातुके। उवाच। ऊचतुः। ऊचुः। उवचिथ, उवक्थ। ऊचे। वक्तासि, वक्तासे। वक्ष्यति, वक्ष्यते। ब्रवीतु, ब्रूतात्। ब्रुवन्तु। ब्रूहि। ब्रवाणि। ब्रूताम्। ब्रवै। अब्रवीत्, अब्रूत। ब्रूयात्, ब्रुवीत। उच्यात्, वक्षीष्ट॥ Balamanorama ------------ **ब्रुवो वचिः** - ब्राउवो वचिः । ब्राउवो वचिरादेशः स्यादार्धधातुके इत्यर्थः । इकार उच्चारणार्थः । उवाचेति । अकिति द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊचतुरिति । किति द्वित्वात्प्राक्वचिस्वपियजादीना॑मिति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् 'अभ्यासस्याऽसवर्णे' इत्युवङभावे सवर्णदीर्घ इति भावः । वचिर्निट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट् । तदाह — उवचिथ उवक्थेति । इडभावेचोः कुः ।ब्राउव ई॑डित्यत्रनाभ्यस्तस्ये॑त्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीण्न । ऊचथुः ऊच । उवाच — उवच ऊचिम ऊचिम । क्रादिनियमादिट् । ऊचे इति ऊचाते ऊचिरे । ऊचिषे ऊचाथे ऊचिध्वे । ऊचे ऊचिवहे ऊचिमहे । वक्तेति । वच्यादेशे इण्निषेधः । वक्ष्यति वक्ष्यते । ब्रावीतु ब्राऊतादिति । ननु तिबादेशस्य तातङ पित्त्वात्ब्राउव ई॑डिति ईडागमः स्यादित्यत आह — ङिच्चेति । ब्राऊताम् ब्राउवन्तु । ब्राऊहि ब्राऊतात् ब्राऊतम् ब्राऊत । ब्रावाणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । ब्रावाव ब्रावाम । ब्राऊताम् ब्राउवाताम् ब्राउवताम् । ब्राऊष्व ब्राउवाथाम् ब्राऊध्वमिति सिद्धवत्कृत्य आह — ब्रावै इति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुणः । ब्रावावहै ब्रावामहै । लङि — अब्रावीत् अब्राऊतामब्राउवन् । अब्रावीः अब्राऊतमब्राऊत । अब्रावमब्राऊव अब्राऊम । विधिलिङ्याह — ब्राऊयादिति । ब्राऊयादिति । ब्राऊयातामित्यादि । आशीर्लिङ्याह — उच्यादिति । वच्यादेशेवचिस्वपी॑ति संप्रसारणमिति भावः । उच्यास्तामित्यादि । आत्मनेपदे आशीर्लिङि — वक्षीष्ट वक्षीयास्तामित्यादि । अकित्त्वान्न संप्रसारणम् । लुङि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह — अस्यतीति । अवच् अ त् इति स्थिते — Padamanjari ----------- ब्रु वो वचिः॥ ब्रुव आर्धधातुके प्रयोगनिवृत्यर्थ वचनम्। वक्तेत्यादिकं तु वचेरेव सिद्धम्॥ Nyaas ----- `वक्ता` इति। **चोः कुः** (8.2.30) इति कुत्वम्। `ऊचे` इति। वच्यादिसूत्रेण (6.1.15) सम्प्रासारणम्॥ Prakriyasarvasvam ----------------- ब्रुव आर्धधातुके वच्यादेशः स्यात् । उच्यते । अवोचत् । इत्यादि पूर्वोक्त- वचिवत् । अस्व स्थानिवत् तङप्यस्ति । अवोचत । ऊचे । इत्यादि । धिचेति लोपं सिच एव केचिद् वदन्ति तेषां हि चकासुधातोः । धित्वेऽथ जश्त्वेन चकाद्धिरूपं सस्यैव लोपोक्तिमते चकाधि ॥ ७१४ ॥ ॥ इति लुग्विकरणाः ॥