24051: णौ च संश्चङोः

Padacheda: णौ | S | 7 | 1 |

च | S | 0 | 0 |

सन्-चङोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

गाङ् is optionally the substitute of इङ् is the causative णि , when that causative takes the affix सन् (Desiderative) and चन् (Aorist).

Vasu English Translation

गाङ् is optionally the substitute of इङ् is the causative णि , when that causative takes the affix सन् (Desiderative) and चन् (Aorist). अधिजिगापयिषति or अध्यापिपयिषति ‘he desires to teach.’ The form is thus evolved : गा + णिच् = गापि (7.3.36); then by the rules already stated, we get the above form with the affix सम्. अध्यजीगपत् or अध्यापिपत् ‘he taught.’ The ई is changed into आ by (6.1.48). Thus इ + णिच् = आ + णिच् = आ + प् + इ = आपि. This rule applies to the desideratives of causatives and aorist of causatives.

Kashika

इङो गाङ् विभाषेति वर्तते। णावितीङपेक्षया परसप्तमी, संश्चङोरिति च ण्यपेक्षया। णौ सन्परे चङ्परे च परत इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति — अध्यापिपयिषति। चङि खल्वपि — अध्यजीगपत्। न च भवति — अध्यापिपत्॥

Siddhanta Kaumudi

सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥

Balamanorama

णौ च सँश्चङोः - णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते ।इङश्चे॑त्यत इङ इति,गाङ् लिटी॑त्यतो गाङिति,विभाषा लुङ्लृङो॑रित्यतो विभाषेति चानुवर्तते । तदाह — सन्परे चङ्परे चेत्यादि । सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः । अध्यजीगपदिति । णौ इङो गाङादेशे पुकि उपधाह्रस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । नचद्वित्वे कार्ये णावजादेशो ने॑ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम्अजादेर्द्वितीयस्ये॑ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः । अध्यापिपदिति । गाङभावे ‘क्रीङ्जीनां णौ’ इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थितेपी॑त्यस्य द्वित्वे रूपमिति भावः । सिध्येतरपारलौकिके । ‘आदेच उपदेशे’ इत्यस्मादादेचेति,क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते । तदाह — ऐहलौकिके इत्यादि । अन्नमिति । तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति । आत्मस्वरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः ।

Padamanjari

णौ च संश्चेङे॥ अध्यापिपयिषतीति।’क्रीङ्जीनां णौ’ इत्यात्वम्। अध्यजीगपदिति। लुङ् चिङ्’णिउ चङ्युपधाया ह्रस्वः’ ‘सन्वल्लघुनि’ ,’दीर्घो लघोः’ ॥

Nyaas

णावितीङपेक्षया इत्यादि। णावितीयं या परसप्तमीङपेक्षया सा। संश्चङोः इतीयं या परसप्तमी सा ण्यपेक्षयेत्यर्थः। अधिजिगापयिषति इति। णिच्। अर्तिह्यी (7.3.36) इत्यादिना पुक्, सन्, इट्, गुणायादेशौ। अध्यापिपयिषति` इति। क्रीङ्जीनां णौ (6.1.48) इत्यात्त्वम्, पुक्, अजादेर्द्वितीयस्य (6.1.2) इति पा इत्यस्य द्विर्वचनम्। अध्यजीगपत् इति। णिश्रि (3.1.48) इत्यादिना चङ। णौ चङ्युपधाया ह्रस्वः (7.4.1) । सन्वल्लघुनि (7.4.93) इति सन्वद्भावात् सन्यतः (7.4.79) इतीत्त्वम्। दीर्घो लघोः (7.4.94) इती दीर्घः॥

Prakriyasarvasvam

सम्परे चङ्परे च णौ इङो गाङ् वा स्यात् । पुघ्रस्वौ । अध्यजीगपत् अध्यापिपत् । अत्राजादित्वात् पिशब्दस्य द्विरुक्तिः ।