24024: अशाला च

Padacheda: अ-शाला | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

A तत्-पुरुष compound ending with the word सभा ‘court’, when it does not mean a house but means concourse, is neuter.

Vasu English Translation

A तत्-पुरुष compound ending with the word सभा ‘court’, when it does not mean a house but means concourse, is neuter. As, स्त्रीसभम्, दासीसभम् ‘the concourse of ladies and slaves;’ otherwise अनाथसभा ‘the poor-house.’

Kashika

अशाला च या सभा तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनोऽत्र सभाशब्दो गह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घात इत्यर्थः। अशालेति किम्? अनाथसभा। अनाथकुटीत्यर्थः॥

Siddhanta Kaumudi

सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥

Balamanorama

अशाला च - अशाला च । अशालार्थकेत्यर्थः । सभाशब्दः शालायां, सङ्घातार्थे च वर्तते । तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम्, संप्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह — सङ्घातार्था या सभेति । सभाशब्द इत्यर्थः ।

Tattvabodhini

अशाला च - अशाला च । शालावाची सङ्घातवाची च सभाशब्दस्तत्र राजमनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्, अनेन तु सङ्घातवाचिनो विधीयत इत्याह -सङ्घातार्थेति ।

Padamanjari

अशाला च॥ सभाशब्दोऽयं शालावचनः, संघवचनश्च, तत्र शालाप्रतिषेधादितरस्य ग्रहणमित्याह - संघातवचन इत्यादि। तत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति, अशालावचनस्य त्वनेन राजामनुष्यपूर्वत्वाभावेऽपीति॥

Nyaas

सभाशब्दोऽयमस्त्येव कुटीवचनः - कदीर्घा सभा,ह्रस्वा सभेति। अस्ति च सङघातवचनः, यथा - ब्राआहृणानां सभा, स्त्रीणां सभेति; इह चाशालेति कुटीवचनप्रतिषेधादितरो गृह्रत इत्यत आह - सङ्घातवचनः इत्यादि॥

Prakriyasarvasvam

अशालार्था सभा तत्पुरुषे क्लीबम् । द्विजसभं—तत्सङ्घः । शालायां तु— मन्त्रसभा ॥