24023: सभा राजामनुष्यपूर्वा¶
Padacheda: सभा | S | 1 | 1 |
राज-अ-मनुष्य-पूर्वा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A तत्-पुरुष compound ending with the word सभा ‘court’ is neuter, provided that it is preceded by (a word synonymous with) the word राजा or by a word denoting a non-human-being.
Vasu English Translation¶
A तत्-पुरुष compound ending with the word सभा ‘court’ is neuter, provided that it is preceded by (a word synonymous with) the word राजा or by a word denoting a non-human-being. As इनसभम् ‘the King’s Court.’ ईश्वरसभम् ‘Lord’s Court.’
But in राजसभा ‘the King’s Court,’ the word is not neuter; for synonyms of राजा are only to be taken and not the word-form राजा; an apparent exception to Rule (1.1.68).
So also रक्षःसभम् ‘the Court of the Rakshasas’ पिशाचसभम् ‘the Court of the Pisachas.’
But in काष्ठसभा, दैवदत्तसभा &c, the word is not neuter; for the word non-human has a technical significance meaning Rakshasa or a monster.
Kashika¶
सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा अमनुष्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्माद् न भवति — राजसभा? पर्यायवचनस्यैवेष्यते। तदुक्तम् — जित् पर्यायस्यैव राजाद्यर्थम् (१.१.६८ वा०) इति। अमनुष्यपूर्वा — रक्षःसभम्। पिशाचसभम्। इह कस्माद् न भवति — काष्ठसभा? अमनुष्यशब्दो रूढिरूपेण रक्षःपिशाचादिष्वेव वर्तते। राजामनुष्यपूर्वेति किम्? देवदत्तसभा॥
Siddhanta Kaumudi¶
राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ।<!पर्यायस्यैवेष्यते !> (वार्तिकम्) ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥
Balamanorama¶
सभा राजाऽमनुष्यपूर्वा - सभा । राजा च अमनुष्यश्च राजाऽमनुष्यौ, तौ पूर्वौ यस्याः सा-राजाऽमनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविदिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह — राजपर्यायपूर्व इति । इनसभम् ईआरसभमिति । इनस्य ईआरस्य वा सभेति विग्रहः । इनेस्वरशब्दौ राजपर्यायाविति भावः ।पर्यायमात्रग्रहणे प्रमाणं दर्शयति — पर्यायस्यैवेष्यत इति ।भाष्यकृते॑ति शेषः ।स्वं रूप॑मिति सूत्रेजित्पर्यायवचनस्यैव राजाद्यर्थ॑मिति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसभेति । ‘चन्द्रगुप्त’ इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वाद्देवसभेत्यादावपि स्यादित्यत आह — अमनुष्यशब्दो रूढएति । असुरशब्दो दैत्यानिवेति भावः ।
Tattvabodhini¶
सभा राजाऽमनुष्यपूर्वा - सभा । इनसभमित्यादि । इनशब्दोऽत्र राजपर्यायः, ईआरशब्दश्च । ननुस्वं रूप॑मिति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं, नपर्यायस्येत्यत आह — ।पर्ययस्यैवेष्यते । पर्यायस्यावेष्यत इति एवकारेण स्वरूपस्य विशेशणां च निरासः । कथं तर्हिनृपतिसभामगमन्न वेपमानः॑इति कीचकवधे । अत्र केचित् — ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः ।अनञ्कर्मधारयः॑इत्युक्तेर्न क्लीबत्वमित्याहुः । रक्षितस्त्वाह -गजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति ।
Padamanjari¶
सभा राजामनुष्यपूर्वा॥ इह सभाशब्दः शालावचनः। इह कस्मान्न भवतीति।’स्वं रूपम्’ इति वचनादिहैव भवितुं युक्तमिति प्रश्नः। पर्यायवचनस्यैवेति। न स्वरूपस्य, नापि विशेषाणां चन्द्रगुप्तादीनामित्यर्थः। एतदेवाप्तोक्तेन द्रढयति - तदुक्तमिति। कथं पुनरेतल्लभ्यते? द्वावत्र नञौ - अराजपूर्वा, अमनुष्यपूर्वाचेति, तत्र नञिवयुक्तन्यानयेन राजशब्दसद्दशाः पर्याया एव गृह्यन्ते, अमनुष्यशब्दो रूढिरूपेणेति। कथं तर्हि ठमनुष्यकर्तृके चऽ इत्यत्र पितघ्नं घृतमित्युदाहरिष्यते? व्याख्यानातत्र मनुष्यादन्यमात्रस्य ग्रहणं न रूढिरित्यर्थः॥
Nyaas¶
इह कस्मान्न भवति - राजसभा इति। स्वं रूपं शब्दस्याशब्दसंज्ञा (1.1.68) इति वचनदिहैव युक्तं भवितुमित्यभिप्रायः। तदयुक्तम् इत्यादि। एतेन पर्यायवचनस्यैवेष्यते (का।वृ।2.4.23) इत्येतदाप्तवचनेन द्रढयति। यतः पर्यायवचनस्यैवेष्यते तस्मादेव हेतोरिदमुक्तम्। {जित्पर्यायवचनस्यैव-काशिका। जदित्पर्यायवनस्यैव इत्यादि। कथं पुनः पर्यायवचनस्यैव भवतीत्येषोऽर्थः, यावता नेह सूत्रे तथाविधं वचनमस्ति? एवं मन्यते - ननु च पूर्वग्रहणमस्ति, अतः पूर्वग्रहणादेषोऽर्थो लभ्यते, कथम्? यदि स्वरूपग्रहणं स्यात् राजाऽमनुष्यात् इत्येवं ब्राऊयात्, पञ्चम्येव हि दिक्शब्दमध्याहरयिष्यति, न च सभान्तस्य तत्पुरुषस्य पूर्वशब्दादन्यो दिक्शब्दोऽध्याहर्त्तुं शक्यत इति किं पूर्वग्रहणेन? तत् क्रियतेऽर्थग्रहणं यथा स्यात्। अर्थग्रहणे च सत्यराजाऽमनुष्यपूर्वा इति द्विष्प्रतिषेधो वण्र्यते - अराजपूर्वा, अमनुष्यपूर्वेति। तदनेन नञिवयुक्तन्यायेन (व्या।प।65) तत्सदृशा राजपर्याया गृह्यन्ते, न तु तद्विशेषाश्चन्द्रगुप्तादयः, न हि ते राजार्थस्य वाचका इति। अथ वा - अर्थग्रहणेऽस्मिन् विभाषा समीपे (2.4.16) इत्यतो विभाषागर्हणमनुवर्तते मण्डूकप्लुतिन्यायेन, सा च व्यवस्थितविभाषा विज्ञायते। तेनेह प्रयायवचनस्यैवेआरादेग्र्रहणं भविष्यति, नान्यस्य।अमनुष्यशब्दो {हि - वृत्तौ नास्ति} हि रूढिरूपेण रक्षः पिशाचादिषु वर्तते इति। यद्येवम्, अनुष्यकर्त्तृके च (3.2.53) इत्यत्र यदुदाहरिष्यति - जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखा, श्लेष्मध्नं मधु, पित्तघ्नं घृतमिति,तद्व्याहन्यते? नैष दोषः; अत्र हि चकार क्रियते, तस्यैव विधेः समुच्चयार्थः। तेन पुनर्विधानात्, कृत्यल्युटो बहुलम् (3।3।क113) इति वचनाद्वा रक्षः पिशाचादिभ्योऽन्यत्रापि भविष्यति। अथ वा - अमनुष्यशब्दोऽयं द्विविधः - अस्त्येवायमव्युत्पन्नो यो रक्षः पिशाचादिषु वर्तते, अस्ति च व्युत्पन्नो नञ्समासः; तत्रेहाव्युत्पन्नस्य रूढिशब्दस्य ग्रहणम्। अमनुष्यकर्त्तृके च (3.2.53) इत्यत्र व्युत्पन्नस्यारूढिशब्दस्य ग्रहणमित्यविरोधः। देवदत्तसभा इति। देवदत्तशब्दो न राजपर्यायः; नाप्यमनुष्यवचनः॥
Praudhamanorama¶
(सभा राजामनुष्यपूर्वा) ॥ पर्यायस्यैवेति । कथं तर्हि ‘नृपतिसभामगमन्न वेपमान’ इति कीचकवधे । गजपतिवद् राजविशेषत्वादि’ति रक्षितः ।
Prakriyasarvasvam¶
राजपूर्वा अ मनुष्यपूर्वा च सभा क्लीबम् । राजपर्यायाणामेव । नृपसभम् । क्षितिपसभम् । राज्ञस्तु राजसभा । विशेषाणां च न । पाण्डुसभा । अमनुष्या इत्युपदेवा उक्ताः । रक्षस्सभम् । गन्धर्वसभम् । देवानां तु—देवसभा ॥
Sutra Prayogas¶
राक्षस-सभं (भट्टिकाव्यम्): सभा राजा इत्यादिना नपुंसकता।