23048: सामन्त्रितम्¶
Padacheda: सा | S | 1 | 1 |
आमन्त्रितम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The word ending with the 1st case-affix, in the sense of addressing, is called आमन्त्रित or Vocative.
Vasu English Translation¶
The word ending with the 1st case-affix, in the sense of addressing, is called आमन्त्रित or Vocative.
Kashika¶
संबोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति। तथा चैवोदाहृतम्। आमन्त्रितप्रदेशाः — आमन्त्रितं पूर्वमविद्यमानवत् (८.१.७२) इत्येवमादयः॥
Siddhanta Kaumudi¶
संबोधने या प्रथमा तदन्तमामान्त्रितसंज्ञं स्यात् ॥
Balamanorama¶
साऽऽमन्त्रितम् - सामन्त्रितं । प्रातिपदिकार्तसूत्रोपात्ता प्रथमा ‘सा’ इत्यनेन परामृश्यते ।संबोधने चे॑त्यतः ‘संबोधने’ इत्यनुवर्तते । तदाह-संबोधने इत्यादिना ।तदन्त॑मिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासंज्ञाकरणात्संज्ञाविधावपि तदन्तग्रहणम् । अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा ।
Tattvabodhini¶
साऽऽमन्त्रितम् - सामन्त्रितम् ।सम्बोधने चे॑त्यतःसम्बोधने॑इत्यनुवर्तते ।से॑त्यनेन प्रथमा निर्दिश्यते । महासंज्ञाकरणसामर्थ्यात्संज्ञाविधावपरि तदन्तग्रहणम् । आमन्त्रणमामन्त्रितम् । उपचारात्तत्साधने वृत्तिः । विभक्त्यन्तेन चामन्त्र्यते न केवलया विभक्त्येत्याशयेनाह -तदन्तमिकि ।
Padamanjari¶
सामन्त्रितम्॥ तदन्तं यच्छब्दरूपमिति। महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - आमन्त्रणमामन्त्रितमिति। अभेदोपचारातत्साधने शब्दे वर्तते विभक्त्यन्तेन केवलया संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य ग्रहणमिति भावः। उदाहरणेषु ठामन्त्रितस्य चऽ इत्याद्यौदातत्वं भवति, सेति वचनं प्रातिपदिकार्थसूत्रेणापि संबोधने विहिता या प्रथमा तदन्तस्यापि संज्ञा यथा स्यात् - हे पचन्! हे पचमान!;असति तु तस्मिन् ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इत्यनन्तरसूत्रविहिताया एव स्यात्॥
Nyaas¶
तदन्तं शब्दरूपम् इति। ननु च संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति (पु।प।वृ।81) इति ज्ञापितमेतत् सुप्तिङन्तं पदम् (1.4.14) इत्यत्रान्तग्रहणेन। इह च संज्ञाविधौ प्रत्ययग्रहणम्, तत् कथं तदन्तस्य संज्ञा विधीयते? नैतदस्ति; यद्यपि संज्ञाविधौ प्रत्ययग्रहणमिह, तथाऽपि तदन्तस्यैवेयं संज्ञा विधीयते। यदीह प्रत्ययमात्रस्य संज्ञाग्रहणं स्यात् तदा प्रदेशेषु तस्यैव ग्रहणं स्यात्, तथा च संज्ञाकरणमनर्थकं स्यात्। प्रदेशेषु सम्बोधन इत्येवं ब्राऊयात्। एवमपि प्रत्ययमात्रस्य ग्रहणं लभ्यत एव। तस्यैव सम्बोधने विहितत्वात्। तस्मात् संज्ञाकरणादेव तदन्तस्य संज्ञा लभ्यते। सेति वचनं पूर्वसूत्रेणापि सम्बोधने या विहिता तस्या अपीयं संज्ञा यथा स्यात् - हे पचन्, हे पचमानेत्यत्र। असति त्वस्मिन् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।19) इति पूर्वसूत्रेणैव या विहिता तस्या एव स्यात्; सेत्येतदुच्यमानं सर्वनामपदं सामान्येन प्रवर्तत इति कृत्वा। अतः सम्बोधनमात्रे या प्रथमा तां प्रतिपादयति, तेन सर्वत्र संज्ञा सिद्धा भवति। आमन्त्रितसंज्ञायां सत्यां हे देवदत्त इत्यादौ आमन्त्रितस्य च (6.1.198) इत्याद्युदात्तत्वं भवति। आमन्त्रितम् इति महत्याः संज्ञायाः करणं वैचित्र्यार्थम्॥
Praudhamanorama¶
संज्ञाविधावपि महासंज्ञाकरणसाममर्थ्यात्तदन्तग्रहणम्। आमन्त्रणमामन्त्रितम्। उपचारात्तत्साधने वृत्तिः। विभक्त्यन्तेन चामन्त्र्यते न तु केवलया विभक्त्येत्याशयेनाह- तदन्तमिति।
Prakriyasarvasvam¶
सम्बोधनप्रथमा आमन्त्रितसंज्ञा ॥