23047: सम्बोधने च

Padacheda: सम्बोधने | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And when the sense is that of addressing, the 1st case-affix is used.

Vasu English Translation

And when the sense is that of addressing, the 1st case-affix is used. Ex. हे राम ‘O Ram’ हे रामौ, हे रामाः ॥

Kashika

आभिमुख्यकरणं संबोधनम्, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोतीति वचनमारभ्यते। संबोधने च प्रथमा विभक्तिर्भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः॥

Siddhanta Kaumudi

इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥

Laghu Siddhanta Kaumudi

प्रथमा स्यात्। हे राम। इति प्रथमा॥

Balamanorama

सम्बोधने च - संबोधने च । इहेति । संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः । संबोधमभिमुखीकृत्य ज्ञापनम् । हे रामेति ।मां पाही॑ति शेषः । इह रामं प्रति मद्रक्षणं ज्ञाप्यम् । नचहे राजन्सार्वभौमो भव॑ इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात् । श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा । ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः । [इति प्रथमा] ।

Tattvabodhini

सम्बोधने च - सम्बोधने च । मात्रग्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थे एव प्रथमेति नियमाद्वा सम्बोधनाधिक्येऽप्राप्तावस्यारम्भः । इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रिया प्रति विशेषणम् । तथा चव्रजानि देवदत्त॑इत्यादौएकत्ङ् वाक्य॑मिति वाक्यत्वे सिद्धेआमन्त्रतस्य चे॑ति निघातो भवति, क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्धेत्,समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः॑इति वार्तिकात् । तथा चोक्तं -॒संबोधनपद॑यच्च तत् क्रियाया विशेषणम् । व्रजानि देवदत्तेति निघातोऽत्र तथा सति॑ इति । एवं चराम मां पाही॑ति वाक्यस्य रामसम्बन्धिसम्वोधनविषयो मत्कर्तृकं रक्षणमर्थः ।व्रजानि देवदत्ते त्यत्र तु देवदत्तसम्बन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः । इति प्रथमा ।

Padamanjari

सम्बोधने च॥ आभिमुख्यकरणमिति। यद्वस्तु येनाकारेण सिद्धं तस्य तेनाकारेणाभिमुखीकरणं सम्बोधनम्, न त्वेकश्रुतिविधाविव कस्यचिदर्थस्यानुष्ठेयता प्रत्यायनम्; वाक्यार्थो हि सः। अभिमुखीकरणं तु न वाक्यार्थः, येन वीरः पुरुष इत्यादिवद्यदत्राधिक्यं स वाक्यार्थ इति प्रथमा सिद्ध्येत्। यस्य पदान्तरसंप्रयोगे सत्येव प्रतीतिः स वाक्यार्थः। इह तु देवदतेत्येतावत्युक्ते आभिमुख्यकरणं गम्यते, अतः पदार्थ पदार्थ एवात्राधिक्यमिति षष्ठ।लं प्राप्तायामिदं वचनं तदाह - तदधिके प्रातिपदिकार्थ इति। असिद्धेन चाकारेणाभिमुखीकरणं न संभवति - राजा भव युध्यस्व स्वाहेन्द्रशत्रुर्वर्द्धस्वेति। हे पचन् हे पचमानेत्यादौ शतृशानचोः संबोधने विधानेऽपि विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्; यथा लोटो द्विर्वचननिरपेक्षस्येत्यनेन प्रथमा भवति। यद्वा - अभिहितः सोऽर्थोऽन्तभूतः प्रातिपदिकार्थः संपन्न इति पूर्वेण भविष्यति, योगविभाग उतरार्थः॥

Nyaas

सम्बोधनम् = अभिमुखीकरणम्, तदधिके प्रातिपदिक्रथा इति। अभिमुखीकरणस्य क्रियापरत्वात् प्रातिपदिकार्थे तस्यान्तर्भावो नास्ति, त्सयातदात्मकत्वात्, तस्मात तेनाधिकः प्रातिपदिकार्थो भवति। अथ कथमिह प्रथमा-हे-पचनम्, हे पचमानेति? कथञ्च न स्यात्? शतृशानज्भ्यामुक्तत्वात् सम्बोधनस्य। एतावपि सम्बोधने च इति सम्बोधन एव वक्ष्यते। मा भूदनेन, पूर्वसूत्रेण भविष्यति? सम्बोधनार्थस्येह कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकार्थत्वात्। योगविभाग उत्तरार्थः॥

Praudhamanorama

मात्रग्रहणात्संबोधनाधिक्ये न प्राप्नोतीत्यारम्भः। इह संबोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रियां प्रति विशेषणमिति सिद्धान्तः। उक्तं च— सम्बोधनपदं यच्च तत् क्रियायां विशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र तथा सति॥ इति। एवं च ‘राम मां पाहि’ इति वाक्यस्य रामसंबन्धिसंबोधनविषयो मत्कर्मकं रक्षणमर्थः॥ इति प्रथमा ॥

Prakriyasarvasvam

आभिमुख्यकरणे च प्रथमा स्यात् । हे कृष्ण ! ।।

Sutra Prayogas

  • मैथिल्यभिज्ञानं (भट्टिकाव्यम्): संबोधने च इति प्रथमा।