23043: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः¶
Padacheda: साधु-निपुणाभ्याम् | S | 3 | 2 |
अर्चायाम् | S | 7 | 1 |
सप्तमी | S | 1 | 1 |
अप्रतेः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
In conjunction with the words साधु ‘good’ and निपुण ‘skilful’ when they denote respect, the 7th case-affix is used, provided that the word प्रति is not used.
Vasu English Translation¶
In conjunction with the words साधु ‘good’ and निपुण ‘skilful’ when they denote respect, the 7th case-affix is used, provided that the word प्रति is not used. मातरि साधुः or निपुणः ‘good behaved towards his mother’? But साधुर्देवदत्तो मातरं प्रति ‘Devadatta is good behaved towards his mother.’
Why do we say ‘when respect is denoted’? Observe, साधुर्भृत्योराज्ञः ‘the servant is good towards the king.’ Here it is a bare statement of a fact.
The exception applies not only to प्रति but to other prepositions, like परि, अनु &c., as, मातरं परि साधुर्देवदत्तः ॥
Bhashya¶
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः 501 (320 उपपदसप्तमीसूत्रम् ॥ 2.3.2 आ.15) (न्यूनतापूर्त्यधिकरणम्) (1520 वार्तिकम् ॥ 1 ॥ ) (- अप्रत्यादिभिः - ) (भाष्यम्) अप्रत्यादिभिरिति वक्तव्यम्। इहापि यथा स्यात् - (साधुर्देवदत्तो मातरं प्रति।) मातरं परि। मातरमनु। साधु ॥ 43 ॥
Kashika¶
साधु निपुण इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति,न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायामिति किम्? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेरिति किम्? साधुर्देवदत्तो मातरं प्रति॥ अप्रत्यादिभिरिति वक्तव्यम्॥ साधुर्देवदत्तो मातरं परि, मातरमनु॥
Siddhanta Kaumudi¶
आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ।<!अप्रत्यादिभिरिति वक्तव्यम् !> (वार्तिकम्) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥
Balamanorama¶
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः - शादुनिपुणाभ्याम् । शेषषष्ठपवादः । मातरिसाधुरिति । हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः ।शुश्रूषाया॑मिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव,साध्वसाधुप्रयोगे चे॑त्युक्तेः । इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् ।अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः ।
Tattvabodhini¶
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः - साधुनिपुणाभ्यामर्चायां ।पुण कर्मणि शुभे॑ अस्मान्निपूर्वादिगुपधलक्षणः कः ।अर्च पूजायामस्मार्द्भौवीदिकात्गुरोश्च हलः॑ इत्यप्रत्यये टाप् । चौरादिकात्तुण्यासश्रन्थ -॑ इति युचि — अर्चनेति स्यात् । निपुणो राज्ञ इति । साधुशब्दप्रयोगे त्वर्चां विना सप्तमी भवत्येव,साध्वसाधुप्रयोगे च॑इति वार्तिकात् । अप्रत्यादिभिरिति वक्तव्यम्॥ अप्रत्यादिभिरिति ।लक्षणेत्थम् -॑ इति सूत्रोपात्ताः प्रत्यादयः ।
Padamanjari¶
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ साधुशब्दः’कृवापाजिमि’ इत्युणन्तः,’पुण कर्मणि शुभे’ इत्यस्मान्निपूर्वात् ठिगुपपधऽ इति के, निपुण इति भवति। ठर्च भाव्यम्ऽ इत्यस्माद्भौवादिकात्ठ्गुरोश्च हलःऽ इत्यकारः, चौरादिकातु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह - न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा5 इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्॥
Nyaas¶
{अप्रत्यादिभिरहित वक्तव्यम् इति वृत्तौ पाठः।} अप्रत्यादेरिति वक्तव्यम्` इति। के पुनः प्रत्यादयः? येषां लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (1.4.90) इत्यादिना कर्मप्रवचनीयसंज्ञा विहिता ते प्रतिपर्यनवः इत्यादयः॥प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति - प्रकृष्टः सितः प्रसितः, क्रियाशब्दोऽप्यस्ति - षिञ् बन्धने (धातुपाठः-1477) इत्यस्य प्रपूर्वसय् निष्ठायां व्युत्पाद्यते, तत्रेहोत्सुकशब्देन क्रियाशब्देन साहचर्यात् क्रियाशब्दो विज्ञायत इत्यत आह - प्रसितः प्रसक्तः इति। यस्तत्र नित्यमेवाबद्धः स प्रसितशब्देनोच्यते इति। आबद्ध इवाबद्धः, यो हि यत्र प्रसक्तः स तत्राबद्ध इव भवति। केशैः प्रसितः, केशेषु प्रसितः इत्यादि। प्रसितत्वमुत्सुकत्वञ्च केशविषयमिति सप्तम्यधिकरणे (2.3.36) इत्येव सिद्धा सप्तमी पक्षे तृतीयाविधानार्थ वचनम्॥
Praudhamanorama¶
निपुणो राज्ञ इति। साधुशब्दप्रयोगे त्वर्चां विनाऽपि सप्तमी भवत्येव, ‘साध्वसाधुप्रयोगे च’ इति वार्तिकात्।
Prakriyasarvasvam¶
आभ्यां योगे पूजाद्योतने सप्तमी स्यात् । राजसु साधुर्निपुणो वायम् । तान् प्रति निपुणत्वात्पूजित इत्यर्थः । अर्चायामित्युक्तेर्वस्तुमात्रोक्तौ न । राज्ञां निपुणः । अप्रतेरित्यत्र प्रतिपर्यन्वभियोगे नेति वाच्यम् । नृपान् प्रति साधुरित्यादि ॥
Vartika¶
अप्रत्यादिभिरिति वक्तव्यम् ।
Sutra Prayogas¶
न्यवधीदरींश्च (भट्टिकाव्यम्): लुङि च इति वधादेशः ।