23043: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः =========================================== **Padacheda:** साधु-निपुणाभ्याम् | S | 3 | 2 | अर्चायाम् | S | 7 | 1 | सप्तमी | S | 1 | 1 | अप्रतेः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In conjunction with the words साधु 'good' and निपुण 'skilful' when they denote respect, the 7th case-affix is used, provided that the word प्रति is not used. Vasu English Translation ------------------------ In conjunction with the words साधु 'good' and निपुण 'skilful' when they denote respect, the 7th case-affix is used, provided that the word प्रति is not used. मातरि साधुः or निपुणः 'good behaved towards his mother'? But साधुर्देवदत्तो मातरं प्रति '*Devadatta* is good behaved towards his mother.' Why do we say 'when respect is denoted'? Observe, साधुर्भृत्योराज्ञः 'the servant is good towards the king.' Here it is a bare statement of a fact. The exception applies not only to प्रति but to other prepositions, like परि, अनु &c., as, मातरं परि साधुर्देवदत्तः ॥ Bhashya ------- साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः 501 (320 उपपदसप्तमीसूत्रम् ॥ 2.3.2 आ.15) (न्यूनतापूर्त्यधिकरणम्) (1520 वार्तिकम् ॥ 1 ॥ ) (- अप्रत्यादिभिः - ) (भाष्यम्) अप्रत्यादिभिरिति वक्तव्यम्। इहापि यथा स्यात् - (साधुर्देवदत्तो मातरं प्रति।) मातरं परि। मातरमनु। साधु ॥ 43 ॥ Kashika ------- साधु निपुण इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति,न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायामिति किम्? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेरिति किम्? साधुर्देवदत्तो मातरं प्रति॥ अप्रत्यादिभिरिति वक्तव्यम्॥ साधुर्देवदत्तो मातरं परि, मातरमनु॥ Siddhanta Kaumudi ----------------- आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् । (वार्तिकम्) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥ Balamanorama ------------ **साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः** - शादुनिपुणाभ्याम् । शेषषष्ठपवादः । मातरिसाधुरिति । हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः ।शुश्रूषाया॑मिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव,साध्वसाधुप्रयोगे चे॑त्युक्तेः । इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् ।अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः । Tattvabodhini ------------- **साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः** - साधुनिपुणाभ्यामर्चायां ।पुण कर्मणि शुभे॑ अस्मान्निपूर्वादिगुपधलक्षणः कः ।अर्च पूजायामस्मार्द्भौवीदिकात्गुरोश्च हलः॑ इत्यप्रत्यये टाप् । चौरादिकात्तुण्यासश्रन्थ -॑ इति युचि — अर्चनेति स्यात् । निपुणो राज्ञ इति । साधुशब्दप्रयोगे त्वर्चां विना सप्तमी भवत्येव,साध्वसाधुप्रयोगे च॑इति वार्तिकात् । अप्रत्यादिभिरिति वक्तव्यम्॥ अप्रत्यादिभिरिति ।लक्षणेत्थम् -॑ इति सूत्रोपात्ताः प्रत्यादयः । Padamanjari ----------- साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ साधुशब्दः'कृवापाजिमि' इत्युणन्तः,'पुण कर्मणि शुभे' इत्यस्मान्निपूर्वात् ठिगुपपधऽ इति के, निपुण इति भवति। ठर्च भाव्यम्ऽ इत्यस्माद्भौवादिकात्ठ्गुरोश्च हलःऽ इत्यकारः, चौरादिकातु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह - न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा5 इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्॥ Nyaas ----- `{अप्रत्यादिभिरहित वक्तव्यम्` इति वृत्तौ पाठः।} अप्रत्यादेरिति वक्तव्यम्` इति। के पुनः प्रत्यादयः? येषां **लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः** (1.4.90) इत्यादिना कर्मप्रवचनीयसंज्ञा विहिता ते प्रतिपर्यनवः इत्यादयः॥प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति - प्रकृष्टः सितः प्रसितः, क्रियाशब्दोऽप्यस्ति - `षिञ् बन्धने` (धातुपाठः-1477) इत्यस्य प्रपूर्वसय् निष्ठायां व्युत्पाद्यते, तत्रेहोत्सुकशब्देन क्रियाशब्देन साहचर्यात् क्रियाशब्दो विज्ञायत इत्यत आह - `प्रसितः प्रसक्तः` इति। `यस्तत्र नित्यमेवाबद्धः स प्रसितशब्देनोच्यते` इति। आबद्ध इवाबद्धः, यो हि यत्र प्रसक्तः स तत्राबद्ध इव भवति। `केशैः प्रसितः, केशेषु प्रसितः` इत्यादि। प्रसितत्वमुत्सुकत्वञ्च केशविषयमिति `सप्तम्यधिकरणे` (2.3.36) इत्येव सिद्धा सप्तमी पक्षे तृतीयाविधानार्थ वचनम्॥ Praudhamanorama --------------- **निपुणो राज्ञ इति।** साधुशब्दप्रयोगे त्वर्चां विनाऽपि सप्तमी भवत्येव, 'साध्वसाधुप्रयोगे च' इति वार्तिकात्। Prakriyasarvasvam ----------------- आभ्यां योगे पूजाद्योतने सप्तमी स्यात् । राजसु साधुर्निपुणो वायम् । तान् प्रति निपुणत्वात्पूजित इत्यर्थः । अर्चायामित्युक्तेर्वस्तुमात्रोक्तौ न । राज्ञां निपुणः । अप्रतेरित्यत्र प्रतिपर्यन्वभियोगे नेति वाच्यम् । नृपान् प्रति साधुरित्यादि ॥ Vartika ------- अप्रत्यादिभिरिति वक्तव्यम् । Sutra Prayogas -------------- * **न्यवधीदरींश्च** (भट्टिकाव्यम्): `लुङि च` इति वधादेशः ।