21042: ध्वाङ्क्षेण क्षेपे

Padacheda: ध्वाङ्क्षेण | S | 3 | 1 |

क्षेपे | S | 7 | 1 |

Sutrartha


Vasu English Summary

A word ending in the Locative -7th-case-affix is compounded with the words ध्वाङ्क्ष ‘a crow’ and synonyms of crow when contempt is implied and the resulting compound is तत्-पुरुष ।

Vasu English Translation

A word ending in the Locative -7th-case-affix is compounded with the words ध्वाङ्क्ष ‘a crow’ and synonyms of crow when contempt is implied and the resulting compound is तत्-पुरुष । As, तीर्थध्वाङ्क्षः ‘a crow at the sacred bathing place’ i.e., a very greedy person; as a crow in a bathing place does not remain long, any where, so a person who goes to his teacher’s house and does not tarry there long, is called a तीर्थकाकः or a तीर्थवायसः.

When it has not this meaning, there is no compounding: as, तीर्थध्वाङ्क्षस्तिष्ठति ‘There is a crow in the sacred bathing place.’

Bhashya

ध्वाङ्क्षेण क्षेपे (390) (249 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ.28 ॥) (इष्टानुपपत्तिपरिहाराधिकरणम्) (1276 वार्तिकम् ॥ 1 ॥) ॥ ध्वाङ्क्षेणेत्यर्थग्रहणम् ॥ (व्याख्याभाष्यम्) ध्वाङ्क्षेण क्षेपेऽर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात् - तीर्थकाक इति ॥ (आक्षेपभाष्यम्) क्षेप इत्युच्यते। क इह क्षेपो नाम? ॥ (समाधानभाष्यम्) यथा तीर्थकाका न चिरं स्थातारो भवन्ति। एवं यो गुरुकुलानि गत्वा न चिरं तिष्ठति स उच्यते तीर्थकाक इति ॥ ध्वाङ्क्षेण ॥ 41 ॥

Kashika

ध्वाङ्क्षेणेत्यर्थग्रहणम्। ध्वाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति, क्षेपे गम्यमाने। तीर्थे ध्वाङ्क्ष इव, तीर्थध्वाङ्क्षः। अनवस्थित इत्यर्थः। तीर्थकाकः। तीर्थवायसः। क्षेप इति किम्? तीर्थे ध्वाङ्क्षस्तिष्ठति॥

Siddhanta Kaumudi

ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥

Balamanorama

ध्वाङ्क्षेण क्षेपे - ध्वाङ्क्षेण क्षेपे ।ध्वांक्षे॑त्यर्थग्रहणम्, व्याख्यानात् । तदाह — ध्वाङ्क्षवाचिनेति ।क्षेप॑पदं व्याचष्टे — निन्दायामिति । तीक्र्षध्वाङ्क्ष इति । ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह — तीर्थकाक इति ।

Padamanjari

‘स्वं पूपं शब्दस्य’ इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृतौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः॥

Nyaas

ध्वाङक्षेणेत्यर्थग्रहणम् इति। अर्थप्रधानत्वान्निर्देशस्य। यत्र हि शब्दप्रधानो निर्देशस्तत्र स्वरूपग्रहणं भवति, अन्यत्र त्वर्थग्रहणमेवेति प्रतिपादितमेतत् प्राक्। अर्थप्रधानत्वन्तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। बहुलग्रहणानुवृत्तेरर्थस्येदं ग्रहणं वा। अपि च क्षेपे इत्युच्यते, क्षेपश्चार्थकारित एवेत्यर्थग्रहणमेव युक्तम्। अर्थग्रहणे च सति ध्वाङक्षपर्यायैरपि समासो भवति, अत आह - ध्वाङक्षवाचिना इत्यादि। तीर्थे ध्वाङक्ष इव इति। उपमानभावे सति ध्वाङक्षस्य क्षेपो गम्यते,नान्यथेति दर्शयितुमिवशब्दः प्रयुक्तः। समासे तु समास एवोपमानार्थस्यान्तर्भूतत्वादिवशब्दो गतार्थो न प्रयुज्यते। यथैव हि तीर्थ ध्वाङक्षश्चिरं स्थातारो न भवन्ति, तद्वदन्योऽपि यः कार्यं प्रत्यनवस्थितः स तीर्थध्वाङक्षः इत्युच्यते, यदाह - अनवस्थित इत्यर्थः इति। कार्यं प्रत्यनवस्थितत्वमेव क्षेपः॥

Prakriyasarvasvam

<karika>क्षेपे द्योत्ये सप्तमी ध्वाङ्क्षार्थैः समस्यते । तीर्थे ध्वाङ्क्षश्चिरं नास्ते तद्वत् कार्येऽनवस्थितः । तीर्थध्वाङ्क्षस्तीर्थकाको बकाद्यैश्चाह भोजराट् ॥ ३७८ ॥</karika> तीर्थबकः । तीर्थकुक्कुटः ॥