21042: ध्वाङ्क्षेण क्षेपे ========================= **Padacheda:** ध्वाङ्क्षेण | S | 3 | 1 | क्षेपे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending in the Locative -7th-case-affix is compounded with the words ध्वाङ्क्ष 'a crow' and synonyms of crow when contempt is implied and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A word ending in the Locative -7th-case-affix is compounded with the words ध्वाङ्क्ष 'a crow' and synonyms of crow when contempt is implied and the resulting compound is तत्-पुरुष । As, तीर्थध्वाङ्क्षः 'a crow at the sacred bathing place' i.e., a very greedy person; as a crow in a bathing place does not remain long, any where, so a person who goes to his teacher's house and does not tarry there long, is called a तीर्थकाकः or a तीर्थवायसः. When it has not this meaning, there is no compounding: as, तीर्थध्वाङ्क्षस्तिष्ठति 'There is a crow in the sacred bathing place.' Bhashya ------- ध्वाङ्क्षेण क्षेपे (390) (249 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ.28 ॥) (इष्टानुपपत्तिपरिहाराधिकरणम्) (1276 वार्तिकम् ॥ 1 ॥) ॥ ध्वाङ्क्षेणेत्यर्थग्रहणम् ॥ (व्याख्याभाष्यम्) ध्वाङ्क्षेण क्षेपेऽर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात् - तीर्थकाक इति ॥ (आक्षेपभाष्यम्) क्षेप इत्युच्यते। क इह क्षेपो नाम? ॥ (समाधानभाष्यम्) यथा तीर्थकाका न चिरं स्थातारो भवन्ति। एवं यो गुरुकुलानि गत्वा न चिरं तिष्ठति स उच्यते तीर्थकाक इति ॥ ध्वाङ्क्षेण ॥ 41 ॥ Kashika ------- ध्वाङ्क्षेणेत्यर्थग्रहणम्। ध्वाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति, क्षेपे गम्यमाने। तीर्थे ध्वाङ्क्ष इव, तीर्थध्वाङ्क्षः। अनवस्थित इत्यर्थः। तीर्थकाकः। तीर्थवायसः। क्षेप इति किम्? तीर्थे ध्वाङ्क्षस्तिष्ठति॥ Siddhanta Kaumudi ----------------- ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥ Balamanorama ------------ **ध्वाङ्क्षेण क्षेपे** - ध्वाङ्क्षेण क्षेपे ।ध्वांक्षे॑त्यर्थग्रहणम्, व्याख्यानात् । तदाह — ध्वाङ्क्षवाचिनेति ।क्षेप॑पदं व्याचष्टे — निन्दायामिति । तीक्र्षध्वाङ्क्ष इति । ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह — तीर्थकाक इति । Padamanjari ----------- 'स्वं पूपं शब्दस्य' इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृतौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः॥ Nyaas ----- `ध्वाङक्षेणेत्यर्थग्रहणम्` इति। अर्थप्रधानत्वान्निर्देशस्य। यत्र हि शब्दप्रधानो निर्देशस्तत्र स्वरूपग्रहणं भवति, अन्यत्र त्वर्थग्रहणमेवेति प्रतिपादितमेतत् प्राक्। अर्थप्रधानत्वन्तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। बहुलग्रहणानुवृत्तेरर्थस्येदं ग्रहणं वा। अपि च `क्षेपे` इत्युच्यते, क्षेपश्चार्थकारित एवेत्यर्थग्रहणमेव युक्तम्। अर्थग्रहणे च सति ध्वाङक्षपर्यायैरपि समासो भवति, अत आह - `ध्वाङक्षवाचिना` इत्यादि। `तीर्थे ध्वाङक्ष इव` इति। उपमानभावे सति ध्वाङक्षस्य क्षेपो गम्यते,नान्यथेति दर्शयितुमिवशब्दः प्रयुक्तः। समासे तु समास एवोपमानार्थस्यान्तर्भूतत्वादिवशब्दो गतार्थो न प्रयुज्यते। यथैव हि तीर्थ ध्वाङक्षश्चिरं स्थातारो न भवन्ति, तद्वदन्योऽपि यः कार्यं प्रत्यनवस्थितः स `तीर्थध्वाङक्षः` इत्युच्यते, यदाह - `अनवस्थित इत्यर्थः` इति। कार्यं प्रत्यनवस्थितत्वमेव क्षेपः॥ Prakriyasarvasvam ----------------- क्षेपे द्योत्ये सप्तमी ध्वाङ्क्षार्थैः समस्यते । तीर्थे ध्वाङ्क्षश्चिरं नास्ते तद्वत् कार्येऽनवस्थितः । तीर्थध्वाङ्क्षस्तीर्थकाको बकाद्यैश्चाह भोजराट् ॥ ३७८ ॥ तीर्थबकः । तीर्थकुक्कुटः ॥