21023: द्विगुश्च¶
Padacheda: द्विगुः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the compound called द्विगु (Numeral Determinative Compound) is all called तत्-पुरुष ।
Vasu English Translation¶
And the compound called द्विगु (Numeral Determinative Compound) is all called तत्-पुरुष । The object of making Dwigu a sub-division of Tat-purusha Compound is that the समासान्त affixes and rules given in (V. 4.68-160) should apply to Dwigu also. Otherwise we could well have dispensed with this sutra; as sútra 52 of this chapter already defines Dwigu. Thus पञ्चराज्ञ (5.4.91) fem. पञ्चराज्ञी (4.1.15), (4.1.21), ‘an aggregate of 5 princes’ द्ववहः, ‘(5.4.89), पञ्चगवम् ‘an aggregate of 5 cows.’ दशगवम् ‘an aggregate of ten cows.’ (5.4.92)
Bhashya¶
द्विगुश्च (371) (अथ तत्पुरुषप्रकरणम्) (236 द्विगोस्तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ.15 सू.) (आक्षेपभाष्यम्) द्विगोस्तत्पुरुषत्वे कानि प्रयोजनानि? ॥ (1245 समाधानवार्तिकम् ॥ 1 ॥) ॥ द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम् ॥ (व्याख्याभाष्यम्) द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजयन्ति - पञ्चगवं दशगवं पञ्चराजं दशराजम् ॥ द्विगुश्च ॥ 22 ॥
Kashika¶
द्विगुश्च समासस्तत्पुरुषसंज्ञो भवति। द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम्। पञ्चराजम्। दशराजम्। द्व्यहः। त्र्यहः। पञ्चगवम्। दशगवम्॥
Siddhanta Kaumudi¶
द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥
Laghu Siddhanta Kaumudi¶
द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥
Balamanorama¶
द्विगुश्च - द्विगुश्च । द्विगुरपीति ।तद्धितार्थोत्तरपदसमाहारे च॑ इति वक्ष्यमाणसमासस्यसंख्यापूर्वो द्विगु॑रिति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राऽभावे एकसंज्ञाधिकाराद्द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति ।द्विगुश्चे॑त्येतदित्यर्थः । तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह — संख्येति ।संख्यापूर्वोद्विगु॑रिति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः । ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभा॒द्द्विगुश्चे॑ति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह — समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति - पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहेतद्धितार्थे॑ति द्विगुः । तस्य तत्पुरुषत्वाद्राजाहःसखिभ्यष्टजि॑ति टच् ।स नपुंसक॑मिति नपुंसकत्वम् ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाऽभावात् । न चसंख्यापूर्वोद्विगुश्चे॑ति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात्, अतः समुच्चयार्थंद्विगुश्चे॑ति पृथक्सूत्रमस्त्विति वाच्यम्, ‘सङ्ख्यापूर्व’ इति,द्विगु॑रिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविदिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्ध्या चकारस्य समुच्चयार्थत्वोपपत्तेः ।
Tattvabodhini¶
द्विगुश्च - चकारबलेन संज्ञाद्वयसमावेशस्येति । न चैवं द्विगुतत्पुरुषयोः पर्यायता स्यादिति शङ्क्यम् । योगं विभज्य संख्यापूर्स्य तत्पुरुषसंज्ञां विधाय पश्चद्द्विगुसंज्ञाविधाने चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः । नापि द्वौ अन्यौ यस्यद्य्वन्य॑ इत्यत्रातिप्रसङ्गः शङ्क्यः,तद्धितार्थोत्तरपदे॑ति सूत्रमनुवर्त्त्यतद्धितार्थेत्यत्रोक्तस्त्रिविधः सङ्ख्यापूर्व॑ इति व्याख्यानात् । द्विगोस्तत्पुरुषत्वे फलमाह -समासान्त इति । टजचावित्यर्थः । अचि तूदाहरणं — ॒तत्पुरुषत]स्याङ्गुले॑रित्यचि व्द्यङ्गुलमिति बोध्यम् । पञ्चराजमिति । समाहारद्विगौराजहःसखिभ्यः॑इति टच् । समास स्यैवायमन्तावयव इति उत्तरपदस्याऽनकारान्तत्वात् स्त्रीत्वाऽभावः ।समासार्थोत्त्रपदान्ताः समासान्ता॑ इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वान्नेति बोध्यम् । काशिकायां तु पञ्चराजीत्युदाहृतम् । स क्वाचित्कोऽपपाठ इति हरद्त्तः । अत्र केचित् — पात्रादित्वकल्पने मानाऽभावात्पञ्चराजीति काशिकोक्तोदाहरणमपि सम्यगेवेत्याहुः ।
Padamanjari¶
समासान्ता इति। यद्यपि राजाहःसखिभ्यष्टच्ऽ’तत्पुरुषस्यांगुलेः संख्याव्ययादेः’ इति टजचौ तत्पुरुषनिबन्धनौ, तथापि प्रकृतिभेदाद्भेदविवक्षयां वहुवचनम्। पञ्चराजमिति। उकतरपदस्यानकारान्तत्वात्स्त्रीत्वाभावः। समासार्थोतरपदस्यान्ताः समासान्ता इति तु पक्षे पात्रादित्वात्। क्वचत् पञ्चराजीति स्त्रील्ङ्गस्य पाठः, स भाष्यविरोधादपपाठः। द्व्यह इति। 1ठह्नष्टखोरेवऽ इति टिलोपः, रात्राह्नाहाः पुंसिऽ। पञ्चगवमिति।’गोरतध्दितलुकि’ इति टच्, पूर्ववत्स्त्रीत्वाभावः॥
Nyaas¶
समासान्ताः प्रयोजनम् इति। तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः (5.4.86) इत्यतस्तत्पुरुष इत्यनुवर्तमाने राजाहःसखिभ्यष्टच् (5.4.91) गोरतद्धितलुकि (5.4.92) इति च द्विगोरपि यथा स्यात्। पञ्चराजी इति। पञ्चानां राज्ञां समाहार इति तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति समासः। संख्यापूर्वो द्विगुः (2.1.52) इति द्विगुसंज्ञा, टच्, नस्तद्धिते (6.4.144) इति टिलोपः अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते (वा।156) इति स्त्रीलिङ्गता, द्विगोः (4.1.21) इति ङीप्। द्वह्रहः, त्र्यहः इति। अह्नष्टखोरेव (6.4.145) इति टिलोप), रात्रह्नाहाः पुंसि (2.4.29) इति पुंस्त्वम्। पञ्चगवम् इति। स नपुंसकम् (2.4.17) इति नपुंसकत्वम्। सत्यप्यकारान्तत्वे स्त्रीत्वं न भवति; पात्रादीनां प्रतिषेधो वक्तव्यः (वा।1.5.9) इति वचनात्॥
Praudhamanorama¶
द्विगोस्तत्पुरुषत्वे फलमाह - समासान्त इति । पञ्चराजमिति । राजाहःसखिभ्यष्टच् । उत्तरपदस्याऽनकारान्तत्वात्स्त्रीत्वाऽभावः । ‘समासाऽर्थोत्तरपदाऽन्ताः समासाऽन्ता’ इति पक्षे तु पात्रादित्वं बोद्ध्यम् । काशिकायान्तु ‘पञ्चराजीति’ क्वाचित्कः पाठः । ‘अपपाठः स’ इति हरदत्तः । श्रितादीति । श्रितादीनां यद्यपि सम्बोधने सुबन्तत्वं सम्भवति, तथाऽपि अन्यत्राऽपि समासस्येष्टत्वात् श्रितादयस्तद्घटितसमुदाये लाक्षणिकाः । प्रायेण समासतद्धितप्रकरणे एवमेव । ‘खट्वा क्षेपे’, ‘गर्गादिभ्यो यञ्’ इत्यादिसामान्याऽपेक्षज्ञापकात् । न हि खट्वेत्यस्य द्वितीयाऽन्तत्वं, गर्गादीनां षष्ठ्यन्तत्वं वा संभवति । ‘येन विधि ‘रिति सूत्रस्थभाष्ये वृत्तिग्रन्थोऽपीह मानम् । ‘तत्र कैयटहरदत्तादीनान्तु महान् प्रमाद’ इति शब्दकौस्तुभे प्रपञ्चितमिति भावः । यत्तु वदन्ति - श्रितादीनां कृदन्तत्वेन ‘गतिकारकोपपदानाम्’ इति सुबुत्पत्तेः प्रागेव समास इष्टः । अन्यथा काष्टश्रितेयो न सिद्ध्येत् । अत एव किल प्राचा ‘श्रितादिभिः’ इत्येव व्याख्यातं, न तु ‘सुबन्तैः’ इति, तन्न । प्रधानस्त्रीप्रत्यये तदादिनियमाऽभावेन काष्ठश्रितेयस्य निर्बाधत्वात् । यदपि श्रितादिशब्दादपि कदाचित्स्यादिति । तदपि न । सापेक्षत्वेनाऽसामर्थ्यात् । ‘गतिकारक’ इत्यादेस्तु नाऽयं विषयः । ‘कर्तृकरणे कृता’, ‘साधनं कृते’तिवत् ‘द्वितीया श्रिते’ति सूत्रे कारकतद्विशेषयोरनुपादानादिति दिक् । कृष्णमिति । इह श्रितादिषु गत्यर्थत्वात्कर्तरि क्तः । श्रयणं प्राप्तिः, आपत्तिश्चेह गतिरेव, न तु फलम् । अत्यासत्तिस्तु व्यतिक्रमः । सोऽपि गतिविशेष(णम्) एवेति प्राञ्चः । यद्वा ‘श्रित’ इत्यादौ आदिकर्मणि क्तः। ग्रामं गमीति । ‘गमेरिनिरि’ त्यौणादिक इनिः । स च भविष्यत्काले । ‘भविष्यति गम्यादय’ इत्युक्तेः । ‘अकेनोरि’ति कृद्योगलक्षणषष्ठीनिषेधात्कर्मणि द्वितीया । यत्तु ‘गत्यर्थकर्मणी’ति सूत्रे द्वितीयाग्रहणस्य कृद्योगलक्षणषष्ठीबाधनार्थतामाहुः । तद्भाष्यविरुद्धम् । भाष्ये तत्सूत्रं प्रत्याख्याय कृद्योगे षष्ठ्या एव स्वीकारादित्यन्यत्र विस्तरः । खट्वारूढ इति । ‘जाल्मोऽसमीक्ष्यकारी स्या’दित्यमरः । वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वाऽऽरोढव्या । ब्रह्मचर्य एव भूमिशयनाऽर्होऽपि यः खट्वामारोहति स जाल्मः । रूढश्चाऽयम् । तेन खट्वामारोहतु, मा वा, निषिद्धाऽनुष्ठानपरः सर्वोऽपि ‘खट्वारूढ’ उच्यते । अत एवाऽऽह - नित्येति । मासप्रमित इति । ‘माङ् माने’ । आदिकर्मणि कर्तरि क्तः । इह प्रतिपच्चन्द्रेण नास्त्यत्यन्तसंयोगः । मुहूर्तमिति । मुहूर्तव्यापीत्यर्थः । ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया ।
Prakriyasarvasvam¶
द्विगुसमासोऽपि तत्पुरुषाख्यः । इति तत्पुरुषत्वम् । अव्ययादेस्तु निर्गत- मङ्गुलिभ्यो निरङ्गुलम् । अङ्गुलैर्मितमित्यादौ प्रमाणविशेषवाच्यङ्गुलशब्द एव ।।