21022: तत्पुरुषः

Padacheda: तत्पुरुषः | S | 1 | 1 |

Sutrartha


Vasu English Summary

From this sūtra as far as sūtra (2.2.23), the word तत्-पुरुष is governing word, and is understood in all the following sūtras.

Vasu English Translation

From this sūtra as far as sūtra (2.2.23), the word तत्-पुरुष is governing word, and is understood in all the following sūtras. From this sutra as far as the sutra (2.2.23) relating to Bahuvrihi compounds, the word Tat-purusha should be read into each sutra. This big term is of older coinage than that of Panini, being, in fact, made by older grammarians. In the Tat-purusha compound, the sense of the last of its elements is the main one, and governs the preceding one. The Karmadhåraya (Appositional Determinative Compound) and Dwigu (Numeral Determinative Compound) are also sub-divisions of this class of compounds. The rest of this chapter and 22 sůtras of the second, deal with this.

Kashika

तत्पुरुष इति संज्ञाधिक्रियते प्राग् बहुव्रीहेः (२.२.२३)। यानित ऊर्ध्वमनुक्रमिष्यामः, तत्पुरुषसंज्ञास्ते वेदितव्याः। वक्ष्यति — द्वितीया श्रितातीतपतित० (२.१.२४) इति — कष्टश्रितः। पूर्वाचार्यसंज्ञा चेयं महती, तदङ्गीकरणमुपाधेरपि तदीयस्य परिग्रहार्थम् — उत्तरपदार्थप्रधानस्तत्पुरुष इति। तत्पुरुषप्रदेशाः — तत्पुरुषे कृति बहुलम् (६.३.१४) इत्येवमादयः ॥

Siddhanta Kaumudi

अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥

Laghu Siddhanta Kaumudi

अधिकारोऽयं प्राग्बहुव्रीहेः॥

Balamanorama

तत्पुरुषः - तत्पुरुषः । प्रागिति ।शेषो बहुव्रीहि॑रित्यनः प्रागित्यर्थः ।

Padamanjari

उतरपदार्थप्रधान इति। पूर्वाकायः, अर्ध्दपिप्पलीत्यादौ त्वधिकार वशातत्पुरुष इति संज्ञा॥

Nyaas

कष्टश्रितः इति। तत्पुरुषसंज्ञायां सत्यां तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। अथ किमर्थमियं महती संज्ञा विधीयत इत्याह - पूर्वाचार्यसंज्ञा चेयम् इति। तदङ्गीकरणं किमर्थमित्याह - तदङ्गीकरणम् इत्यादि। उपाधिः = विशेषणम्। कः पुनरसौ तदीय उपाधिरित्याह - उत्तरपदार्थप्रधानस्तत्पुरुषः` इति॥

Prakriyasarvasvam

इतः परं समासस्तत्पुरुषाख्यः ॥

Sutra Prayogas

  • कुन्दाऽवदाताः (भट्टिकाव्यम्): उपमानानि इत्यादिना समासः।