14093: अधिपरी अनर्थकौ¶
Padacheda: अधि-परी | S | 1 | 2 |
अनर्थकौ | S | 1 | 2 |
Sutrartha¶
यौ कमपि नूतनम् अर्थं न वदतः, तादृशौ “अधि” तथा “परि” इति शब्दौ कर्मप्रवचनीयसंज्ञकौ भवतः । यथा - रामः अध्यागच्छति, रामः पर्यागच्छति ।
कर्मप्रवचनीयाः (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं दशमं सूत्रम् । <ex>**अधि**</ex> तथा च <ex>**परि**</ex> इति शब्दौ यदा किमपि नूतनम् अर्थं न वदतः अपितु धातोः अर्थम् एव पुनः प्रतिपादयतः, तदा तयोः **कर्मप्रवचनीयसंज्ञा भवति** इति अस्य सूत्रस्य आशयः । यथा, <ex>रामः अध्यागच्छति</ex> उत <ex>रामः पर्यागच्छति</ex> । एतयोः द्वयोः अपि वाक्ययोः अर्थः रामः आगच्छति इत्येव अस्ति । इत्युक्ते, एतयोः वाक्ययोः विद्यमानौ <ex>अधि</ex> तथा <ex>परि</ex> एतौ शब्दौ स्वस्य कमपि नूतनम् अर्थम् नैव प्रकटयतः, अपि तु “आगच्छति” इत्यस्यैव अर्थम् पुनः प्रतिपादयतः । अतएव एतयोः शब्दयोः अत्र प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण उक्तया कर्मप्रवचनीयसंज्ञया एकसंज्ञाधिकारात् गतिसंज्ञायाः बाधः भवति । इत्युक्ते, <ex>अध्यागच्छति</ex> तथा च <ex>पर्यागच्छति</ex> इति द्वयोः अपि उदाहरणयोः <ex>अधि</ex> तथा च <ex>परि</ex> एतौ शब्दौ यद्यपि प्रादिगणे विद्यमानौ, तथा च क्रियायोगे प्रयुक्तौ स्तः, तथापि तयोः गतिश्च (1.4.60) इत्यनेन विहिता गतिसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि एतयोः गतिसंज्ञा अभविष्यत्, तर्हि गतिर्गतौ (8.1.70) इत्यनेन “अधि” तथा च “परि” इति गतिसंज्ञकयोः प्रथमः स्वरः (अकारः) अनुदात्तः अभविष्यत् । परन्तु प्रयोगे अस्य अकारस्य उदात्तत्वम् इष्यते, न हि अनुदात्तत्वम् । अस्य उदात्तत्वस्य विधानम् निपाताः आद्युदात्ताः (4.12) इति फिट्सूत्रेण तदा एव सम्भवति यदा एतयोः गतिसंज्ञा बाध्यते । इदमेव कार्यं कर्तुम् एतयोः शब्दयोः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् गतिसंज्ञायाः बाधः भवति, येन “अधि” तथा च “परि” इत्येतयोः इष्टम् आद्युदात्तत्वम् अपि सिद्ध्यति ।
**अनर्थकौ इति शब्दस्य अर्थः**
अस्मिन् सूत्रे अनर्थकौ ** इति शब्दः प्रयुक्तः अस्ति । अस्य शब्दस्य समासविग्रहः - * न विद्यते अर्थः यस्य, सः अनर्थकः* - इतिप्रकारेण **न दीयते । यदि एतयोः एतादृशः अर्थः उच्येत, तर्हि “अधि” तथा च “परि” इति शब्दयोः प्रातिपदिकसंज्ञाविधाने समस्या आगच्छेत्, यतोहि अनर्थकशब्दानां प्रातिपदिकसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रे प्रयुक्तस्य अनर्थकौ ** इति शब्दस्य समासविग्रहः - ** न विद्यते अर्थान्तरम् यस्य, सः अनर्थकः - इतिप्रकारेण स्वीक्रियते । यौ “अधि” तथा च “परि” इति शब्दौ भिन्नम् अर्थं न वदतः, इत्युक्ते यौ धातोः अर्थम् एव पुनः प्रतिपादयतः, तयोः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति - इति अत्र आशयः अस्ति ।
काशिकायां, कौमुद्यां च दत्तम् उदाहरणम्
प्रकृतसूत्रे काशिकायां कौमुद्यां च <ex>कुतः अध्यागच्छति</ex> तथा च <ex>कुतः पर्यागच्छति</ex> इति द्वे उदाहरणे दत्ते स्तः । एतयोः द्वयोः अपि उदाहरणयोः विद्यमानः कुतः इति शब्दः कस्मात् स्थलात् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अत्र अपादानस्यैव अर्थे विहिता या पञ्चमी, तदन्तात् अपादाने चाहीयरुहोः (5.4.45) इत्यनेन तसि-प्रत्ययः कृतः अस्ति । इयं पञ्चमी विभक्तिः कर्मप्रवचनीयविभक्तिः नास्ति इति स्मर्तव्यम् ।
Vasu English Summary¶
The words अधि and परि are कर्म-प्रवचनीय when used as mere expletives.
Vasu English Translation¶
The words अधि and परि are कर्म-प्रवचनीय when used as mere expletives. As कुतोऽभ्यागच्छति whence has he come? Or कुतः पर्या गच्छति. These words though mere surplusages, have been called karmapravachaniya so that they may not get the designation of upasarga or gati and thus produce results peculiar to those words.
Bhashya¶
अधिपरी अनर्थकौ किमर्थमधिपर्योरनर्थकयोः कर्मप्रवचनीयसंज्ञोच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपर्सगसंज्ञे मा भूतामिति । नैतदस्ति प्रयोजनम् । यत्क्रियायुक्तौ तं प्रति गत्युपसर्गसंज्ञौ भवतः। अनर्थकौ चेमौ । इदं तर्हि प्रयोजनम्, पञ्चमी यथा स्यात् - पञ्चम्यपाङ्परिभिः (2.3.10) इति, कुतः पर्यागम्यत इति । सिद्धं तु पञ्चम्यपादाने इत्येव । आतश्चापादानपञ्चम्येव, यत्राधिशब्देन योगे पञ्चमी न विधीयते तत्रापि श्रूयते - कुतोऽध्यागम्यते इति । एवं तर्हि सिद्धे सति यदनर्थकयोरुपसर्गसंज्ञाबाधिकां कर्मप्रवचनीयसंज्ञां शास्ति तज्ज्ञापयत्याचार्योऽनर्थकानामप्येषां भवत्यर्थवृत्कृतमिति । किमेतस्य ज्ञापने प्रयोजनम् ? निपातस्याऽनर्थकस्य प्रातिपदिकत्वं चोदितं तन्न वक्तव्यं भवति । अथवा नेमावनर्थकौ । किं तर्ह्यनर्थकावित्युच्यते ? अनर्थान्तरवाचिनावनर्थकौ, धातुनोक्तां क्रियामाहतुः । तदविशिष्टं भवति, यथा शङ्खे पयः । यद्येवं धातुनोक्तत्वात्तस्यार्थस्योपसर्गप्रयोगो न प्राप्नोति - उक्तार्थानाम प्रयोगः इति । उक्तार्थानामपि प्रयोगो दृश्यते । तद्यथा, - अपूपौ द्वावानय, ब्राह्मणौ द्वावानयेति ॥ 93 ॥
Kashika¶
अधिपरी शब्दावनर्थकावनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः। कुतोऽध्यागच्छति? कुतः पर्यागच्छति? गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते॥
Siddhanta Kaumudi¶
उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ (SK3977) इति निघातो न ॥
Balamanorama¶
अधिपरी अनर्थकौ - अधिपरी । उक्तसंज्ञो स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र ‘कुत’ इत्यपादानपञ्चम्यास्तसिल् । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह — गतिसंज्ञाबाधादिति । अत्र ‘गतिर्गतौ’ इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये ‘कुत’ इत्युपात्तमिति भावः । अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव । अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः । उक्तं च भाष्ये — ॒अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः॑ इति । एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता ।
Tattvabodhini¶
अधिपरी अनर्थकौ - कृतोऽध्यागच्छतीति । इह — प्रयती, पराभवति, वृक्षं प्रति विद्योतते इत्यत्र प्रादेर्विशेषद्योतकत्ववदधिपर्योरिह विशेषद्योतकत्वाऽभावादानार्थक्यं, धात्वर्थमात्रद्योतकत्वेन त्वर्थताऽस्त्येवेति बोध्यम् ।॒गतिर्गतौ॑इत्यत्र पदादित्यधिक्रियत इति पदात्परत्वसंपत्तयेकुत॑इत्युक्तम् ।
Padamanjari¶
ननु चानर्थकयोः क्रियायोगाभावाद् गत्युपसर्गसंज्ञयोः प्राप्त्यभावान्न तद्वोधनार्थ कर्मप्रवचनीयसंज्ञाविधानमुपपद्यते, नापि परिशब्दयोगे पञ्चमीविधानार्थम्, तद्विधौ वर्जनार्थस्य ग्रहणाद्। अपादानत्वाच्च सिद्धा पञ्चमी, यथाऽधिशब्दस्य प्रयोगे - कुतोऽध्यागच्छतीति। अत एव द्वितीयाविधानार्थमपि नोपपद्यते; तस्मादनर्थकयोः संज्ञाविधानमनर्थकमित्यत आह - अनर्थान्तरवाचिनाविति। यथा तिष्ठति, नितिष्ठति, परिभवतीत्यादौ धातूपातादर्थादर्थान्तरवाचित्वम्, नैवमत्रार्थान्तरवाचित्वम्; किन्त्वागच्छतीति प्रयोगे योऽर्थः स एवाधिपरियोगे ताभ्यामुच्यते तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वम्; यथागजशब्दे योऽर्थः स एव मतङ्गज इति सर्वैः सहाभिधीयते। एवं वृषशब्दे योऽर्थः स एव वृषभशब्दे। तदेवमनर्थान्तरवाचित्वादनर्थककल्पत्वादनर्थकावित्युक्तम्, न त्वभावात्। तयोश्च गतिसंज्ञाबाधाय कर्मंप्रवचनीयसंज्ञा विधेयेति दर्शितं भवति। कुतोऽध्यागच्छतीति। किंशब्दात् ठपादाने चाहीयरुहोःऽ इति तसिः, तस्य’तसेश्च’ इति तसिलादेशः,’गतिर्गतौ’ इति निघाताभावः॥
Nyaas¶
अनर्थान्तरवाचिनौ इति। #एतेनानर्थान्तरवाचित्वादनर्थकादवित्युक्तम्, न त्वर्थाभावादिति दर्शयति। यदि ह्रविद्यमानार्थत्वादनर्थकौ स्याताम्, निरर्थकमिदं सूत्रं स्यात्। तथा हि - कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंज्ञाबाधनार्थाऽनेन विधीयते। न चानर्थकयोरधिपर्योर्गत्युपसर्गसंज्ञाप्राप्तिरस्ति। यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा विधानात्। अनर्थकयोश्च क्रियायोगासम्भवात्। कुतोऽध्यागसच्छति इत्यादि। कुत इत्यापादाने पञ्चमी। कर्मप्रवचीयेति (2.3.8) द्वितीया न भवति; उपपदविभक्तेः कारकविभक्तिर्बलीयसी`(चां।प।69) इति वचनात्। सूत्रारम्भस्य तु प्रयोजनमाख्यातमेव। कुत इति, किंशब्दात् **पञ्चम्यास्तसिल्** (5.3.7) इति तसिल्, **कु तिहोः** (7.2.104) इति कुभावः। कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञोर्वाधितत्वात् **गतिर्गतौ** (8.1.70) इति निघातो न भवति। ननु चागच्छतीत्युक्त आगमनं विशिष्टं प्रतीयते, अध्यागच्छति, पर्यागच्छतीति - अधिपरियोगे त्वागमनस्योपरिभावः सर्वतोभावश्चावगम्यत इत्यपरो विशेषः, तत्कथमनर्थान्तरवाचित्वमनयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रकरणादेः कुतश्चिदवगतयोरधिपरी प्रयुज्येते तदा तयोरनर्थान्तरवाचित्वं वेदितव्यम्। कथं पुनरवगतार्थयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रयोगः, `उक्तार्थानामप्रयोगः (व्या।प।60) इति वचनात्? सत्यम्, अवगतार्थस्यापि प्रयोगो दृश्यते, यथा - ब्राआहृणौ द्वौ इति। लोकस्य प्रयोगे गुरुलाघवं प्रत्यनादरात्॥
Prakriyasarvasvam¶
अर्थविशेषस्यावाचकावधिपरी कर्मप्रवचनीयौ । कुतोऽधि त्वमागच्छसि । कस्मिन् परि त्वं वससि । अनुपसर्गत्वाद् धातोः पृथक् प्रयोगः ।।
Sutra Prayogas¶
कुतोऽधियास्यसि (भट्टिकाव्यम्): अधि- परी अनर्थकौ इति अधेः कर्मप्रवचनीयसंज्ञा।