14092: प्रतिः प्रतिनिधिप्रतिदानयोः¶
Padacheda: प्रतिः | S | 1 | 1 |
प्रतिनिधि-प्रतिदानयोः | S | 7 | 2 |
Sutrartha¶
“प्रतिनिधिः” तथा च “प्रतिदानम्” एतयोः अर्थयोः प्रयुक्तः “प्रति” इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अभिमन्युः अर्जुनात् प्रति । माषान् तिलेभ्यः प्रति यच्छति ।
कर्मप्रवचनीयाः (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं नवमं सूत्रम् । <ex>**प्रति**</ex> इति शब्दस्य यदा **प्रतिनिधिः उत प्रतिदानम् अस्मिन् अर्थे प्रयोगः भवति तदा तस्य कर्मप्रवचनीयसंज्ञा भवति** इति अस्य सूत्रस्य आशयः । अपि च, एतादृशस्य कर्मप्रवचनीयस्य योगे विद्यमानस्य शब्दस्य प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन पञ्चमी विभक्तिः भवति । क्रमेण विवरणम् एतादृशम् - <br/> <hlb>1.प्रतिनिधिः</hlb> काशिकाकारः प्रतिनिधिः इत्यस्य <inline>मुख्यसदृशः</inline> इति अर्थं विवृणोति । मुख्यसदृशः इत्युक्ते कञ्चन एकं पदार्थं “मुख्यं” मत्वा तस्मिन् विद्यमानाः गुणाः एव अपरस्मिन् पदार्थे अपि विद्यन्ते (इत्युक्ते, द्वितीयेन पदार्थेन प्रथमपदार्थस्य गुणानाम् अनुकरणम् एव क्रियते अतः एतेषां गुणानां सन्दर्भेण द्वितीयः पदार्थः प्रथमपदार्थसदृशः एव अस्ति) इति विधानम् । एतादृशं सादृश्यं (इत्युक्ते, अनुकार्य-अनुकरण-सम्बन्धम्) दर्शयितुम् प्रयुक्तस्य <ex>प्रति</ex> इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च मुख्यपदार्थस्य निर्देशार्थम् **प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन पञ्चमी विभक्तिः** उपयुज्यते । कानिचन उदाहरणानि एतानि -
<li>1. <ex>अभिमन्युः अर्जुनात् प्रति </ex> । “अर्जुनः मुख्यः, तत्सदृशः एव अभिमन्युः” इत्यर्थः । अर्जुनस्य यथा सामर्थ्यम्, तथैव अभिमन्योः अपि सामर्थ्यम् आसीत् - इति अत्र आशयः वर्तते । इदं सादृश्यम् अत्र <ex>प्रति</ex> इति कर्मप्रवचनीयेन निर्दिश्यते, तथा च अस्य प्रयोगे मुख्यस्य (अर्जुनस्य) निर्देशार्थम् प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन पञ्चमी विभक्तिः भवति । <li>2. <ex>भोजः कर्णात् प्रति </ex> । कर्णस्य यथा दातृत्वम्, तथैव भोजस्य अपि दातृत्वम् - इति आशयः । <li>3. <ex>प्रद्युम्नः कृष्णात् प्रति </ex> । प्रद्युम्नः राज्यशासनकार्ये कृष्णसदृशः एव - इत्याशयः । <li>3. <ex>दुर्योधनः बलरामात् प्रति </ex> । दुर्योधनस्य गदाचालनकौशलम् बलरामसदृशम् एव आसीत् इत्यर्थः ।
<br/> <hlb>2.प्रतिदानम्</hlb> काशिकाकारः प्रतिदानम् इत्यस्य <inline>दत्तस्य प्रतिनिर्यातनम्</inline> इति अर्थं विवृणोति । सरलभाषायाम्, प्रतिदानम् इत्युक्ते विनिमयः (barter / exchange) इति । एकं वस्तु स्वीकृत्य तस्य स्थाने तादृशस्य एव मूल्यस्य अन्यवस्तुनः अर्पणम् इत्येव अत्र प्रतिदानम् इत्यनेन निर्दिश्यते । एतादृशस्य व्यवहारस्य निर्देशार्थम् प्रयुक्तस्य <ex>प्रति</ex> इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च अस्मिन् व्यवहारे यस्य पदार्थस्य स्वीकारः क्रियते, तस्य निर्देशार्थम् **प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन <b>पञ्चमी विभक्तिः** उपयुज्यते</b> । द्वे उदाहरणे एतादृशे -
<li>1. <ex>देवदत्तः माषान् तिलेभ्यः प्रति यच्छति</ex> । देवदत्तः माषान् दत्त्वा तादृशस्य एव मूलस्य तिलान् स्वीकरोति - इत्याशयः । अयं व्यवहारः अत्र <ex>प्रति</ex> इति कर्मप्रवचनीयेन निर्दिश्यते, तथा च स्वीकृतस्य पदार्थस्य (इत्युक्ते, तिलानाम्) निर्देशार्थम् प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन पञ्चमी विभक्तिः भवति । <li>2. <ex>गावः वृषभेभ्यः प्रति </ex> । गाः दत्त्वा वृषभान् स्वीकरोति इत्याशयः ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा पञ्चमीविभक्तिविधानार्थम् प्रयुज्यते । प्रतिनिधिः अस्मिन् सन्दर्भे “मुख्य”पदार्थस्य, तथा च प्रतिदानम् अस्मिन् सन्दर्भे “स्वीकृत”पदार्थस्य प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन पञ्चमी विभक्तिः भवति । अतएव <ex>अभिमन्युः अर्जुनात् प्रति </ex> तथा च <ex>गावः वृषभेभ्यः प्रति </ex> इत्यादिषु उदाहरणेषु पञ्चमी प्रयुक्ता दृश्यते ।
पञ्चम्यन्तात् **तसि-प्रत्ययः**
प्रकृतसूत्रेण यदा प्रतिनिधिः अस्मिन् अर्थे <ex>प्रति</ex> इति शब्दः प्रयुज्यते, तदा “मुख्यस्य” निर्देशार्थम् प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इत्यनेन पञ्चमी विभक्तिः प्रयुज्यते । अस्मात् पञ्चम्यन्तशब्दात् **प्रतियोगे पञ्चम्यास्तसिः ** (5.4.44) इत्यनेन विकल्पेन **तसि इति तद्धितप्रत्ययः स्वार्थे विधीयते । ** । यथा -
अर्जुनात् + तसि [**प्रतियोगे पञ्चम्यास्तसिः ** (5.4.44) इति स्वार्थे तसि-प्रत्ययः]
--> अर्जुन + ङसिँ + तस् [अलौकिकविग्रहः]
--> अर्जुन + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा ।**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङसिँ-प्रत्ययस्य लोपः]
--> <ex>अर्जुनतः</ex> [रुत्वविसर्गौ]
अतः <ex>अभिमन्युः अर्जुनतः प्रति</ex>, <ex>प्रद्युम्नः कृष्णतः प्रति</ex> इत्यादीनि वाक्यानि अपि सिद्ध्यन्ति ।
Vasu English Summary¶
The word प्रति is कर्म -प्रवचनीय when used in the sense of representative (‘representative of’) or exchange (‘in exchange for’).
Vasu English Translation¶
The word प्रति is कर्म -प्रवचनीय when used in the sense of representative (‘representative of’) or exchange (‘in exchange for’). That which is like to the principal is called प्रतिनिधि. Giving in return for what is obtained, is प्रतिदान. As अभिमन्युरर्जुनतः प्रति * Abhi*-manyu is the representative of Arjuna. माषानस्मै तिलेभ्यः प्रतियच्छति he exchanges Mashas for these sesamum. In these senses prati governs the Ablative (2.3.11)
Kashika¶
मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति। अभिमन्युरर्जुनतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति॥
Siddhanta Kaumudi¶
एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥
Balamanorama¶
प्रतिः प्रतिनिधिप्रतिदानयोः - प्रतिनिधि । अत्रेति सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात् ।कृष्णस्य प्रतिनिधिः॑ इति तुज्ञापकसिद्धं न सर्वत्रे॑ति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी ।
Padamanjari¶
मुखसद्दश इति। मुख्यः क्वचित्कार्ये शत्रुवधादौ द्दष्टसामर्थ्यः। यस्तु तदभावे तत्कार्यकरणाय प्रतिनिधीयते उपादायते स प्रतिनिधिः, कर्मणि किप्रत्ययः। दतस्येति उतमर्णेन । प्रतिनिर्यातनमिति। प्रत्यर्पणम्। अर्जुनतः प्रतीति।’प्रतिनिधिप्रतिदाने च यस्माद्’ इति पञ्चमी, प्रतियोगो पञ्चम्यास्तसिः। माषानिति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः॥
Nyaas¶
अभिमन्युरर्जुनतः प्रति इति। अर्जनो मुख्यः। तत्सदृशोऽभिमन्युः। सोऽर्जुमनुकरोतीत्यत्रानुकरणक्रियाजनितः सम्बन्धविशेषोऽनुकार्यानुकरणभावः प्रतिना द्योत्यते। प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इति पञ्चमी। प्रतियोगे पञ्चम्यास्तसिः (5.4.44) । माषानस्मै तिलेभ्यः इति। तिलानां पूर्वदत्तानां माणाणां प्रतिदानमिह निर्यातनम्। तिलान् गृहीत्वा माषान् ददातीत्यर्थः। दानग्रहणक्रियाजनितोऽत्र सम्बन्ध उत्तमर्णाधमर्णभावलक्षणः॥बाल-मनोरमाप्रतिः प्रतिनिधिप्रतिदानयोः 591, 1.4.92 प्रतिः प्रतिनिधि। सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञक इत्यर्थः। बाल-मनोरमाप्रतिः प्रतिनिधिप्रतिदानयोः 592, 1.4.92 प्रतिनिधि। अत्रेति सूत्रोक्तविषये इत्यर्थः। सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात्। कृष्णस्य प्रतिनिधिः इति तु `ज्ञापकसिद्धं न सर्वत्रे`ति समाधेयम्। तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति। प्रद्युम्नः कृष्णात्प्रतीति। युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः। पञ्चम्यर्थः सादृश्यम्। प्रतिस्तु तद्द्योतकः। तिलेभ्य इति। ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः। कर्मणि पञ्चमी।
Praudhamanorama¶
प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं
Prakriyasarvasvam¶
अनयोरर्थयोः प्रतिः कर्मप्रवचनीयसंज्ञः ॥