14086: हीने¶
Padacheda: हीने | S | 7 | 1 |
Sutrartha¶
पदार्थानां तुलनायाम् हीनतायाः निर्देशार्थम् “अनु” इति शब्दः कर्मप्रवचनीयसंज्ञः भवति । यथा - अनु हरिं सुराः ।
कर्मप्रवचनीयाः (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं तृतीयं सूत्रम् । <ex>**अनु**</ex> इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । द्वयोः उत अधिकानां पदार्थानां यत्र तुलना क्रियते, तत्र ** न्यूनतायाः ** निर्देशार्थम् यदा <ex>अनु</ex> इति शब्दः प्रयुज्यते, तदा सः **कर्मप्रवचनीयसंज्ञः भवति** - इति प्रकृतसूत्रस्य आशयः । अपि च, एतादृशस्य <ex>अनु</ex> शब्दस्य प्रयोगेण यदा वाक्यं सिद्ध्यन्ति, तदा यस्य उत्कृष्टता दर्श्यते, तस्य **कर्मप्रवचनीययुक्ते द्वितीया (2.3.8) इत्यनेन द्वितीया विभक्तिः भवति ।** अस्य उदाहरणानि एतानि -
<ex>अनु अर्जुनं योद्धारः </ex> । सर्वेऽपि योद्धारः अर्जुनस्य अपेक्षया हीनाः / न्यूनाः सन्ति इति आशयः । अत्र <ex>अनु</ex> इति शब्देन अर्जुनस्य अपेक्षया अन्येषां योद्धॄणाम् न्यूनता प्रदर्श्यते ।
<ex>अनु शाकटायनम् वैयाकरणाः </ex> । सर्वे अपि वैयाकरणाः शाकटायनस्य अपेक्षया हीनाः सन्ति इति आशयः ।
<ex>अनु हरिं सुराः </ex> । सर्वे अपि देवाः विष्णोः अपेक्षया हीनाः सन्ति इति आशयः ।
<note> अत्र हीनः इति शब्दः “गुणरहितः / संस्काररहितः” अस्मिन् अर्थ न स्वीकर्तव्यः । हीनः इत्युक्ते सामर्थ्येन किञ्चित् न्यूनः- इत्येव अत्र आशयः अस्ति । </note>
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति कर्मप्रवचनीययुक्ते द्वितीया (2.3.8) इत्यनेन द्वितीयाविभक्तिविधानम् इति । <ex>अनु</ex> इति कर्मप्रवचनीयस्य प्रयोगे यस्य उत्कृष्टता सूच्यते (इत्युक्ते, यस्य अपेक्षया अन्येषां हीनत्वम् उच्यते), तस्य **कर्मप्रवचनीययुक्ते द्वितीया (2.3.8) इत्यनेन द्वितीयाविभक्तिः भवति** । अतएव उपरि उदाहरणयोः - “अर्जुनम्”, “शाकटायनम्”, “हरिम्” इत्येताः शब्दाः द्वितीयाविभक्तौ प्रयुक्ताः सन्ति ।
Vasu English Summary¶
The word अनु , कर्म-प्रवचनीय when it is used in the sense of ‘inferior or subordinate to’.
Vasu English Translation¶
The word अनु , कर्म-प्रवचनीय when it is used in the sense of ‘inferior or subordinate to’. The word हीन means ‘inferior,’ and being a comparative term requires the other term with which comparison is made and which is superior; to complete the sense. In other words अनु governs the person to which others are inferior, in the accusative case. As अनुशाकटायनवैयाकरणाः ‘all grammarians are inferior to Sakatayana.’
Kashika¶
हीन इति न्यून उच्यते स च उत्कृष्टापेक्षः। तेनेयं हीनोत्कृष्टसंबन्धे संज्ञा विज्ञायते। हीने द्योत्येऽयमनुः कर्मप्रवचनीयसंज्ञो भवति। अनु शाकटायनं वैयाकरणाः। अन्वर्जुनं योद्धारः॥
Siddhanta Kaumudi¶
हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥
Balamanorama¶
हीने - हीने । हीने द्योत्ये इति । निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे क्तः । ‘ओ हाक् त्यागे’ इति धातोरोदित्त्वात्ओदितश्चे॑ति निष्ठानत्वम् । अनुः प्राग्वदिति । क्रमप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुरा इति । अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः । तदाह — हरेर्हीना इत्यर्थ इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः ।
Tattvabodhini¶
हीने - हीने । उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावदित्याशयेनोदाहरति — अनु हरिमिति । उपोऽधिके च । चकारेण हीने इत्यनुकृष्यते, तदाह — अधिके हीने चेति । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह — सप्तमी वक्ष्यत इति ।यस्मादधिक॑मित्यनेनेति भावः । तस्मिन्नपि सूत्रेकर्मप्रवचनीययुक्ते॑इत्यनुवृत्तेरधिके संज्ञाविधान मावश्यकमेवेति ज्ञेयम् ।
Padamanjari¶
हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्॥
Nyaas¶
अनुशाकटायनं वैयाकरणाः इति। शाकटायनमपेक्ष्यान्ये वैयाकरणा हीना इति। अपेक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठआं प्राप्तायां तदपवादेन द्वितीया विधीयते। एकयैव विभक्त्योभयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणशब्दादपरः सम्बन्धिविभक्तिर्न भवति॥
Prakriyasarvasvam¶
हीनत्वे द्योत्येऽनुरुक्ताख्यः । हरिमनु सुराः । तस्मान्न्यूना इत्यर्थः ॥
Sutra Prayogas¶
मित्रलाभमनु (किरातार्जुनीयम्): हीने इत्यनोः कर्मप्रवचनीयसंज्ञा।