14086: हीने =========== **Padacheda:** हीने | S | 7 | 1 | Sutrartha --------- **पदार्थानां तुलनायाम् हीनतायाः निर्देशार्थम् "अनु" इति शब्दः कर्मप्रवचनीयसंज्ञः भवति । यथा - अनु हरिं सुराः ।** **कर्मप्रवचनीयाः** (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं तृतीयं सूत्रम् । **अनु** इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । **द्वयोः उत अधिकानां पदार्थानां यत्र तुलना क्रियते, तत्र ** न्यूनतायाः ** निर्देशार्थम् यदा अनु इति शब्दः प्रयुज्यते, तदा सः **कर्मप्रवचनीयसंज्ञः** भवति** - इति प्रकृतसूत्रस्य आशयः । अपि च, एतादृशस्य अनु शब्दस्य प्रयोगेण यदा वाक्यं सिद्ध्यन्ति, तदा **यस्य उत्कृष्टता दर्श्यते, तस्य **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीया विभक्तिः भवति ।** अस्य उदाहरणानि एतानि - 1. अनु अर्जुनं योद्धारः । सर्वेऽपि योद्धारः अर्जुनस्य अपेक्षया हीनाः / न्यूनाः सन्ति इति आशयः । अत्र अनु इति शब्देन अर्जुनस्य अपेक्षया अन्येषां योद्धॄणाम् न्यूनता प्रदर्श्यते । 2. अनु शाकटायनम् वैयाकरणाः । सर्वे अपि वैयाकरणाः शाकटायनस्य अपेक्षया हीनाः सन्ति इति आशयः । 3. अनु हरिं सुराः । सर्वे अपि देवाः विष्णोः अपेक्षया हीनाः सन्ति इति आशयः । अत्र **हीनः** इति शब्दः "गुणरहितः / संस्काररहितः" अस्मिन् अर्थ न स्वीकर्तव्यः । हीनः इत्युक्ते **सामर्थ्येन किञ्चित् न्यूनः**- इत्येव अत्र आशयः अस्ति । **प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्** प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन **द्वितीयाविभक्तिविधानम्** इति । अनु इति कर्मप्रवचनीयस्य प्रयोगे **यस्य उत्कृष्टता सूच्यते** (इत्युक्ते, यस्य अपेक्षया अन्येषां हीनत्वम् उच्यते), **तस्य **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयाविभक्तिः भवति** । अतएव उपरि उदाहरणयोः - "अर्जुनम्", "शाकटायनम्", "हरिम्" इत्येताः शब्दाः द्वितीयाविभक्तौ प्रयुक्ताः सन्ति । Vasu English Summary -------------------- The word अनु , कर्म-प्रवचनीय when it is used in the sense of 'inferior or subordinate to'. Vasu English Translation ------------------------ The word अनु , कर्म-प्रवचनीय when it is used in the sense of 'inferior or subordinate to'. The word हीन means 'inferior,' and being a comparative term requires the other term with which comparison is made and which is superior; to complete the sense. In other words अनु governs the person to which others are inferior, in the accusative case. As अनुशाकटायनवैयाकरणाः 'all grammarians are inferior to *Sakatayana*.' Kashika ------- हीन इति न्यून उच्यते स च उत्कृष्टापेक्षः। तेनेयं हीनोत्कृष्टसंबन्धे संज्ञा विज्ञायते। हीने द्योत्येऽयमनुः कर्मप्रवचनीयसंज्ञो भवति। अनु शाकटायनं वैयाकरणाः। अन्वर्जुनं योद्धारः॥ Siddhanta Kaumudi ----------------- हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥ Balamanorama ------------ **हीने** - हीने । हीने द्योत्ये इति । निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे क्तः । 'ओ हाक् त्यागे' इति धातोरोदित्त्वात्ओदितश्चे॑ति निष्ठानत्वम् । अनुः प्राग्वदिति । क्रमप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुरा इति । अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः । तदाह — हरेर्हीना इत्यर्थ इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः । Tattvabodhini ------------- **हीने** - हीने । उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावदित्याशयेनोदाहरति — अनु हरिमिति । उपोऽधिके च । चकारेण हीने इत्यनुकृष्यते, तदाह — अधिके हीने चेति । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह — सप्तमी वक्ष्यत इति ।यस्मादधिक॑मित्यनेनेति भावः । तस्मिन्नपि सूत्रेकर्मप्रवचनीययुक्ते॑इत्यनुवृत्तेरधिके संज्ञाविधान मावश्यकमेवेति ज्ञेयम् । Padamanjari ----------- हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्॥ Nyaas ----- `अनुशाकटायनं वैयाकरणाः` इति। शाकटायनमपेक्ष्यान्ये वैयाकरणा हीना इति। अपेक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठआं प्राप्तायां तदपवादेन द्वितीया विधीयते। एकयैव विभक्त्योभयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणशब्दादपरः सम्बन्धिविभक्तिर्न भवति॥ Prakriyasarvasvam ----------------- हीनत्वे द्योत्येऽनुरुक्ताख्यः । हरिमनु सुराः । तस्मान्न्यूना इत्यर्थः ॥ Sutra Prayogas -------------- * **मित्रलाभमनु** (किरातार्जुनीयम्): `हीने` इत्यनोः कर्मप्रवचनीयसंज्ञा।