14072: विभाषा कृञि¶
Padacheda: विभाषा | S | 1 | 1 |
कृञि | S | 7 | 1 |
Sutrartha¶
व्यवधाने सति “तिरस्” इति शब्दः कृ-धातोः योगे विकल्पेन गतिसंज्ञकः भवति । यथा - तिरस्कृत्य, तिरस्कृत्वा ।
अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं त्रयोदशं सूत्रम् । ****<ex>तिरस्</ex> (= अन्तर्धानम् (hiding) इत्यर्थः) इति अव्ययस्य, व्यवधानस्य उपस्थितौ **कृ-धातोः योगे विकल्पेन गतिसंज्ञा भवति**** - इति अस्य सूत्रस्य आशयः । तिरोऽन्तर्द्धौ ** (1.4.72) इत्यनेन नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण **कृ-धातोः योगे विकल्प्यते ।
व्यवधानम् इत्युक्ते गोपनार्थम् प्रयुक्तः वृक्ष-भित्ति-इत्यादिकः कश्चन पदार्थः (an object behind which hiding can be done) । एतादृशस्य वस्तुनः आधारेण यत्र अन्तर्धानं क्रियते, तत्र प्रकृतसूत्रेण <ex>तिरस्</ex>-शब्दस्य कृ-धातोः योगे विकल्पेन गतिसंज्ञा विधीयते । गतिसंज्ञापक्षे कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>धनं तिरःकृत्य / तिरस्कृत्य / तिर≍कृत्य वदति</ex> (= व्यवधानस्य आधारेण धनम् अदृश्यं कृत्वा वदति - इत्याशयः) । गतिसंज्ञा-अभावपक्षे समासः ल्यबादेशः च न भवति, अतः <ex> तिरःकृत्वा / तिरः≍कृत्वा वदति</ex> इत्येव प्रयोगः जायते । यत्र व्यवधानं नास्ति (इत्युक्ते गोपनम् अपि न सम्भवति), तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - <nex>काष्ठं तिरः कृत्वा / तिरः≍कृत्वा तिष्ठति</nex> (= काष्ठं पार्श्वे कृत्वा तिष्ठति - इत्याशयः) । अत्र अन्तर्धेः अनुपस्थितौ “तिरस्”-शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः ।
रूपसिद्धिः
“तिरस् + कृत्वा” इत्यस्मिन् अर्थे प्रकृतसूत्रेण <ex>तिरःकृत्य</ex> / <ex>तिरस्कृत्य</ex> / <ex>तिर≍कृत्य</ex> इति त्रीणि रूपाणि भवन्ति । एतेषां सिद्धिः एतादृशी -
तिरः कृत्वा (वृत्तिः)
--> तिरस् + कृ + क्त्वा (अलौकिकविग्रहः)
--> तिरस् + कृ + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37)]
--> तिरस् + कृ + तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71)]
--> तिरः + कृत्य [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)
--> <ex>तिरःकृत्य</ex>, <ex>तिर≍कृत्य</ex>, <ex>तिरस्कृत्य</ex> [विसर्गस्य **कुप्वोः ≍क≍पौ च** (8.3.37) इति विकल्पेन जिह्वामूलीयः । तदभावे **तिरसोऽन्यरस्याम्** (8.3.42) इति विकल्पेन विसर्गस्य सकारादेशः ]
अस्यां प्रक्रियायां तिरसोऽन्यरस्याम् (8.3.42) इति सूत्रेण विसर्गस्य विकल्पेन सकारादेशः कृतः अस्ति - इति विशेषः । तिरसोऽन्यरस्याम् (8.3.42) इति सूत्रम् केवलं गतिसंज्ञकस्य तिरस्-शब्दस्य विषये एव प्रवर्तते । अतः गतिसंज्ञा-अभावपक्षे केवलम् वैकल्पिकम् उपध्मानीयं कृत्वा <nex>तिर≍कृत्वा</nex> / <nex>तिरःकृत्वा</nex> इति द्वे एव रूपे भवतः ।
प्राप्तविभाषा
अन्तर्धौ सति क्रियायोगे <ex>तिरस्</ex>-शब्दस्य तिरोऽन्तर्द्धौ ** (1.4.72) इत्यनेन नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण **कृ-धातोः योगे विकल्प्यते । पूर्वं प्राप्तः विधिः अत्र विकल्प्यते, अतः इयम् <hlb>प्राप्तविभाषा</hlb> अस्ति ।
अस्य सूत्रस्य अग्रे अनुवृत्तिः
गतिसंज्ञाप्रकरणस्य अवशिष्टेषु सर्वेषु अपि सूत्रेषु (इत्युक्ते, जीविकोपनिषदावौपम्ये (1.4.79) इति यावत्सु सर्वेषु सूत्रेषु)** प्रकृतसूत्रस्य कृञि इति अंशः अनुवर्तते** । इत्युक्ते, अग्रे विद्यमानैः सर्वैः अपि सूत्रैः भिन्नानां शब्दानाम् केवलं कृ-धातोः योगे एव गतिसंज्ञा विधीयते । किञ्च, मध्ये पदे निवचने च (1.4.76) इति सूत्रपर्यन्तं प्रकृतसूत्रात् विभाषा इत्यपि पदम् अनुवर्तते । अतः एतैः सूत्रैः उक्ताः गतिसंज्ञा विकल्पेन एव भवति ।
Vasu English Summary¶
The word तिरस् ‘disappearance’ is optionally called गति when the verb कृ follows.
Vasu English Translation¶
The word तिरस् ‘disappearance’ is optionally called गति when the verb कृ follows. This is an example of प्राप्त-विभाषा. As तिरः कृत्य or तिरस्कृत्य (8.3.42): तिरः कृत्वा or तिरस्कृत्वा (8.3.42). The change of visarga into स is optional (8.3.42). When not meaning disappearance we have तिरः कृत्वा काष्ठं तिष्ठति he stands having laid aside the stick.
Kashika¶
अन्तर्धाविति वर्तते। प्राप्तविभाषेयम्। तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति। तिरःकृत्य। तिरस्कृत्य। तिर॑स्कृतम्। यत् ति॑रस्क॒रोति॑। तिरःकृत्वा। तिरस्कृत्वा। अन्तर्धावित्येव — तिरः कृत्वा काष्ठं तिष्ठति॥
Siddhanta Kaumudi¶
तिरस्कृत्य । तिर≍कृत्य । तिरः कृत्वा ॥
Tattvabodhini¶
विभाषा कृञि। तिरः कृत्वेति। गतित्वाऽभावपक्षे `तिरसोऽन्यतरस्या`मिति सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेः। माधवस्तु - पराभवे `तिरस्कार`इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृतिं?त केचिन्नेच्छन्तीत्याह। (673) उपाजेऽन्वाजे।1.4.73।
Padamanjari¶
तिरस्कृत्येति।’तिरसो’ न्यतरस्याम्ऽ इति सत्वम्। प्रत्युदाहरणे तु न भवति, तत्र गत्यनुकार्यानुकरणयोर्भोदस्याविवक्षितत्वात् सूत्रे विभक्त्यभावः॥
Praudhamanorama¶
विभाषा कृञि ॥ तिरः कृत्वेति । गतित्वाऽभावपक्षे सत्वमपि न । ‘तिरसोऽन्यतरस्यामि’ति सत्वविधौ गतिग्रहणाऽनुवृत्तेः । केचित्तु पराभवे तिरस्कारशब्दप्रयोगमनुरुन्धानाः सत्वविधौ गतिग्रहणं निवर्त्तयन्तीति माधवः ।
Prakriyasarvasvam¶
तिरःशब्दः कृञि वा गतिः ॥