14071: तिरोऽन्तर्द्धौ¶
Padacheda: तिरः | S | 0 | 0 |
अन्तर्द्धौ | S | 7 | 1 |
Sutrartha¶
व्यवधाने सति “तिरस्” इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - तिरोभूय ।
अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं द्वादशं सूत्रम् । अनेन सूत्रेण ****<ex>तिरस्</ex> (= अन्तर्धानम् (hiding) इत्यर्थः) इति अव्ययस्य, व्यवधानस्य उपस्थितौ क्रियायोगे गतिसंज्ञा भवति ** । व्यवधानम् इत्युक्ते गोपनार्थम् प्रयुक्तः वृक्ष-भित्ति-इत्यादिकः कश्चन पदार्थः (an object behind which hiding can be done) । एतादृशस्य वस्तुनः आधारेण यत्र अन्तर्धानं भवति, तत्र प्रकृतसूत्रेण <ex>तिरस्</ex>-शब्दस्य गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>तिरोभूय वदति</ex> (= वृक्ष-इत्यादेः कस्यचन व्यवधानस्य आधारेण अदृश्यः भूत्वा वदति - इत्याशयः) । परन्तु यत्र व्यवधानं नास्ति (इत्युक्ते गोपनम् अपि न सम्भवति), तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - <nex>तिरो भूत्वा वदति</nex> (= पार्श्वे गत्वा / तिर्यक् भूत्वा वदति - इत्याशयः) । अत्र अन्तर्धेः अनुपस्थितौ “तिरस्”-शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः ।
बाध्यबाधकभावः
अन्तर्धौ सति <ex>तिरस्</ex>-शब्द: यदा कृ-धातोः योगे प्रयुज्यते, तदा विभाषा कृञि (1.4.72) इति अग्रिमसूत्रेण <ex>तिरस्</ex>-शब्दस्य विकल्पेन एव गतिसंज्ञा भवति ।
Vasu English Summary¶
The word तिरस् when used in the sense of ‘disappearance’ is called गति when in composition with a verb.
Vasu English Translation¶
The word तिरस् when used in the sense of ‘disappearance’ is called गति when in composition with a verb. As तिरोभूय, तिरोभूतम् and यत् तिरोभवति why do we say when meaning disappearance? Observe तिरो भूत्वास्थितः i.e., standing apart.
Kashika¶
अन्तर्धिर्व्यवधानम्। तत्र तिरःशब्दो गतिसंज्ञो भवति। तिरोभूय। तिरो॑भूतम्। यत् ति॑रो॒भव॑ति। अन्तर्धाविति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वेत्यर्थः॥
Siddhanta Kaumudi¶
तिरोभूय ॥
Balamanorama¶
विभाषा कृञि - विभाषा कृञि । कृञि प्रयुज्यमाने तिरसित्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरस्कृत्य तिरः कृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् ।तिरसोऽन्यतरस्या॑मिति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाऽभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात्सत्वविधौ गतिग्रहणं नानुवर्तयन्ति ।
Tattvabodhini¶
विभाषा कृञि - विभाषा कृञि । तिरः कृत्वेति । गतित्वाऽभावपक्षेतिरसोऽन्यतरस्या॑मिति सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेः । माधवस्तु — पराभवेतिरस्कार॑इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृतिंत केचिन्नेच्छन्तीत्याह । (६७३) उपाजेऽन्वाजे ।१.४.७३ ।उपाजेऽन्वाजे । एतौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्यधाने वर्तेते । तदाह — दुर्बसल्येति । साक्षात्प्भृतीनि । साक्षात् । मिथ्या । आम् । अद्धा । लवणम् । उष्णम् । शीतम् । उदकम् । आद्र्रम् । गतिसंज्ञासंनियोगेन लवणादीनां पञ्चानां मकारान्तत्वं निपात्यते । प्रादुस् । नमस् । आविस् इत्यादि । आकृतिगणोऽयम् ।
Padamanjari¶
तिरोभूयेति। समासकृत्स्वरौ प्रयोजनम्। तिरोभूतमिति। भवतेरकर्मकत्वात्कर्तरि क्तः’गतिरनन्तरः’ इत्यत्र च कर्मणीति वर्तते, तस्मात् समासथाथादिस्वरावत्र प्रयोजनम्। तिरो भूत्वेति। पार्श्वतो भूत्वेत्यर्थः॥
Nyaas¶
तिरो भूत्वा स्थितः इति। अनृजुर्भूत्वा, पार्(ातो भूत्वेत्यर्थः॥
Praudhamanorama¶
तिरोऽन्तर्द्धौ ॥ अन्तर्द्धौ किम् ? तिरोभूत्वा स्थितः । पार्श्वतो भूत्वेत्यर्थः ।
Prakriyasarvasvam¶
तिरोभूय । तिरोधाय ॥