14057: चादयोऽसत्त्वे¶
Padacheda: च-आदयः | S | 1 | 3 |
असत्त्वे | S | 7 | 1 |
Sutrartha¶
चादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।
चादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः सर्वे शब्दाः **अद्रव्यवाचिषु अर्थेषु निपातसंज्ञकाः भवन्ति ** — इति अस्य सूत्रस्य आशयः । द्रव्यम् इत्यक्ते भौतिकजगतः कश्चन पदार्थः । लिङ्गसङ्ख्यान्वितम् द्रव्यम् इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, संख्या वा भवितुम् अर्हति, तस्य द्रव्यम् इति संज्ञा भवति — इति अस्य आशयः । एतादृशान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्ताः चादिगणस्य शब्दाः निपातसंज्ञाः भवन्ति । त्रीणि उदाहरणानि एतानि — <listsp> <li>1. <ex>शुकम्</ex> इति कश्चन शब्दः चादिगणे पाठितः लभ्यते । अस्य शब्दस्य अर्थः “शीघ्रम्” (quickly) इति वर्तते । अस्मिन् अर्थे अस्य शब्दस्य लिङ्गत्वं सङ्ख्यात्वं वा नैव विद्यते । इत्युक्ते, अयं शब्दः अस्मिन् अर्थे द्रव्यवाची नास्ति; अतश्च अस्मिन् अर्थे अस्य शब्दस्य निपातसंज्ञा भवति । परन्तु “शुक” इति अकारान्त-पुंलिङ्ग-प्रातिपदिकस्य द्वितीयैकवचनस्य “शुकम्” इति यद् रूपम्, तस्मिन् अर्थे अस्य शब्दस्य द्रव्यत्वम् (पुंलिङ्गम् एकवचनम् च) वर्तते, अतश्च तस्मिन् अर्थे अस्य निपातसंज्ञा अपि न भवति । <li>2. <ex>पशु</ex> इति शब्दः अपि चादिगणे विद्यते । अस्य शब्दस्य द्वौ अर्थौ सम्भवतः — “सम्यक्”, तथा “जन्तुः” । एताभ्याम् “जन्तुः” अस्मिन् अर्थे अस्य शब्दस्य द्रव्यत्वात् निपातसंज्ञा न भवति । परन्तु “सम्यक्” अस्मिन् अर्थे अयं शब्दः अद्रव्यवाची अस्ति, अतः अस्य अवश्यम् निपातसंज्ञा भवति । <li>3. <ex>कुत्र</ex> इति चादिगणे विद्यमानः शब्दः प्रश्नार्थे यदा प्रयुज्यते, तदा अद्रव्यवाचित्वात् तस्य निपातसंज्ञा भवति । परन्तु “कुम् (भूमिम्) त्रायते इति” अस्मिन् विग्रहे “त्रै”-धातोः आतोऽनुपसर्गे कः (3.2.3) इत्यनेन क-प्रत्यये कृते “कुत्र” इति यद् अकारान्तपुंलिङ्गम् प्रातिपदिकम् सिद्ध्यति, तस्य द्रव्यत्वात् निपातसंज्ञा न भवति । </listsp>
चादिगणस्य आवली
चादिगणस्य आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्तः अर्थः अपि तेन सह निर्दिष्टः अस्ति । एतेषाम् अन्ये अर्थाः कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् । <gana> च <light>(and)</light>, वा <light>(or, optionally)</light>, ह <light>(indeed, certainly)</light>, अह <light>(indeed, certainly)</light>, एव <light>(emphasis, regulation)</light>, एवम् <light>(agreement, similarity, like this)</light>, नूनम् <light>(indeed, certainly)</light>, शश्वत् <light>(eternal, repeatedly)</light>, युगपत् <light>(together)</light>, भूयस्<light>(again, required)</light>, सूपत् <light>(question, praise)</light>, कूपत् <light>(question, praise)</light>, कुवित् <light>(more, praise)</light>, नेत् <light>(doubt, disbelief)</light>, चेत् <light>(if)</light>, चण् <light>(if)</light>, कच्चित् <light>(question)</light>, यत्र <light>(where)</light>, तत्र <light>(there)</light>, नह <light>(negation)</light>, हन्त <light>(oh no, oh yes, alas!)</light>, माकिम् <light>(prohibition, negation)</light>, नकिम् <light>(prohibition, negation)</light>, आकिम् <light>(prohibition, negation)</light>, माङ् <light>(prohibition, negation)</light>, नञ् <light>(negation)</light>, तावत् <light>(till, that much)</light>, यावत् <light>(as much)</light>, त्वा<light>(guess)</light>, त्वै <light>(prohibition, negation)</light>, द्वै <light>(in two ways)</light>, रै <light>(money, possession)</light>, रे <light>(money, possession)</light>, श्रौषट् <light>(offering in a yajna)</light>, वौषट् <light>(offering in a yajna)</light>, स्वाहा <light>(offering for gods in a yajna)</light>, स्वधा <light>(offering for forefathers in a yajna)</light>, ओम् <light>(acceptance)</light>, तथा <light>(thus, like that)</light>, तथाहि <light>(thus, like that)</light>, खलु <light>(indeed)</light>, किल <light>(indeed)</light>, अथ <light>(from here, beginning)</light>, सु<light>(appropriate)</light>, अस्मि (<light>(I, self)</light>,) सुष्ठु <light>(appropriate)</light>, स्म <light>(in past, used to)</light>, अ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ<light> (all used in addressing someone)</light>, अम् <light>(rapid, small)</light>, तक् <light>(guess)</light>, उञ् <light>(guess)</light>, उकञ् <light>(guess)</light>, वेलायाम् <light>(at the specified time)</light>, मात्रायाम् <light>(in the specific quantity)</light>, यथा <light>(just like)</light>, यत् <light>(whichever)</light>, यम् <light>(whichever)</light>, तत् <light>(that)</light>, किम् <light>(old)</light>, पुरा <light>(long long ago)</light>, वधा <light>(determination)</light>, वध्वा<light>(determination)</light>, धिक्<light>(disrespect, pitty)</light>, हाहा <light>(surprise)</light>, है <light>(to address someone)</light>, हे <light>(to address someone)</light>, पाट् <light>(to address someone)</light>, प्याट् <light>(to address someone)</light>, आहो <light>(to exclaim, surprise)</light>, उताहो <light>(option, choice)</light>, हो <light>(to exclaim, surprise)</light>, अहो <light>(option, choice)</light>, नो <light>(guess)</light>, नौ <light>(guess)</light>, अथो <light>(beginning)</light>, ननु <light>(indeed)</light>, मन्ये <light>(guess)</light>, मिथ्या <light>(false, unreal)</light>, असि <light>(you)</light>, ब्रूहि <light>(speak)</light>, तु <light>(used as a conjunction)</light>,नु <light>(guess)</light>, इति <light>(end, conclusion, thus)</light>, इव <light>(like this, similar to)</light>, वत् <light>(like this, similar to)</light>, वात् <light>(like this, similar to)</light>, चन <light>(if, in case)</light>, बत <light>(surprise)</light>, इह <light>(here)</light>, आम् <light>(acceptance, agreement)</light>, शम् <light>(happiness, pleasure)</light>, कम् <light>(happiness, pleasure)</light>, अनुकम् <light>(guess)</light>, नहिकम् <light>(negation, denial)</light>, हिकम् <light>(negation, denial)</light>, सुकम् <light>(abundant) </light>, सत्यम् <light>(truth, indeed) </light>, ऋतम् <light>(abundant) </light>, श्रद्धा <light>(belief) </light>, इद्धा <light>(lit) </light>, मुधा <light>(useless) </light>, नोचेत् <light>(if not, otherwise) </light>, नचेत् <light>(if not, otherwise) </light>, नहि <light>(not) </light>, जातु <light>(sometimes) </light>, कथम् <light>(how) </light>, कुत्र <light>(where) </light>, अव <light>(protect) </light>, अनु <light>(after) </light>, हाहौ <light>(surprise) </light>, हैहा <light>(surprise) </light>, ईहा <light>(desire, wish) </light>, आहोस्वित् <light>(or, option) </light>, छम्बट् <light>(in front, facing) </light>, खम् <light>(sky) </light>, दिष्ट्या <light>(luckily) </light>, पशु <light>(appropriate, correct) </light>, वट् <light>(word used in yajna) </light>, सह <light>(along with, together) </light>, आनुषक् <light>(in successive order) </light>, अङ्ग <light>(used to address someone) </light>, फट् <light>(word used in yajna) </light>, ताजक् <light>(used to address someone) </light>, अये <light>(used to address someone) </light>, अरे <light>(used to address someone) </light>, चटु <light>(to speak favorable) </light>, चाटु <light>(to speak favorable) </light>, कुम् <light>(insult) </light>, हुम् <light>(insult, abuse) </light>, वै <light>(indeed, definitely) </light>, उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः ।** इति चादिः आकृतिगणः** ॥ </gana> बहुषु ग्रन्थेषु केचन अन्ये शब्दाः अस्मिन् गणे पाठिताः वर्तन्ते । किञ्च, चादिगणः आकृतिगणः अपि अस्ति, येन शिष्टप्रयोगम् अनुसृत्य इतोऽपि अधिकाः शब्दाः अस्मिन् गणे भवितुम् अर्हन्ति ।
गणसूत्रम् — उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः
चादिगणे ** उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः ** इति किञ्चन गणसूत्रम् विद्यते । ** कुत्रचित् उपसर्गसदृशाः, विभक्तिप्रत्ययान्तसदृशाः, स्वरसदृशाः च शब्दाः अपि निपातरूपेण प्रयुज्यते ** — इति अस्य आशयः । क्रमेण उदाहरणानि एतानि — <listsp> <li>1. <hlb>उपसर्गप्रतिरूपकाः निपाताः</hlb> — <ex>अव</ex>, <ex>वि</ex>, <ex>प्र</ex>, <ex>सु</ex>, <ex>अनु</ex>, <ex>नि</ex> एते शब्दाः क्रियायोगे वस्तुतः उपसर्गाः क्रियायोगे (1.4.59) इति सूत्रेण उपसर्गसंज्ञकाः भवन्ति । परन्तु कुत्रचित् एतेषाम् प्रतिरूपकाः (identical-looking words) अपि प्रयुक्ताः दृश्यते । एते प्रतिरूपकाः यद्यपि उपसर्गसंज्ञकाः न सन्ति, तथापि ते अनेन गणसूत्रेण निपातसंज्ञकाः भवन्ति । एतेषां योजनेन “अवदत्त”, “विदत्त”, “प्रदत्त”,”सुदत्त”, “अनुदत्त”, “निदत्त” इत्यादयः शब्दाः सिद्ध्यन्ति । एतेषु शब्देषु विद्यमानाः “अव”-आदयः शब्दाः उपसर्गाः न, अपितु तेषाम् प्रतिरूपकाः सन्ति। यदि अत्र “अव”-आदयः शब्दाः उपसर्गसंज्ञकाः स्वीक्रियेरन्, तर्हि अच उपसर्गात्तः (7.4.47) इत्यनेन धातोः “त”-आदेशे कृते “अवत्त”, “वीत्त” इत्यादीनि दीर्घघटितानि अनुचितानि रूपाणि भवेयुः । अतः एते शब्दाः अत्र उपसर्गसंज्ञकाः न स्वीक्रियन्ते, अपितु उपसर्गसदृशाः (प्रतिरूपकाः) इति स्वीक्रियन्ते । अस्यां स्थितौ प्रकृतसूत्रेण एतेषाम् शब्दानाम् निपातसंज्ञा भवति । निपातसंज्ञायां लब्धायाम् एतेषाम् अव्ययरूपेण प्रयोगः सम्भवति, येन एतेभ्य सुबुत्पत्तिः, सुब्लोपः च विधीयते । किञ्च, गतिश्च (1.4.60) इत्यनेन एतेषाम् गतिसंज्ञा अपि भवति, अतः एते शब्दाः ते प्राग्धातोः (1.4.80) इति सूत्रेण धातोः पूर्वम् प्रयोक्तुम् शक्यन्ते । एवमेव, “दुर्नीतम्”, “दुर्नय”, “दुर्निर्णय” एतेषु शब्देषु विद्यमानस्य <ex>दुर्</ex> इति शब्दस्य अपि उपसर्गत्वं नास्ति, यतः उपसर्गसंज्ञायां सत्याम् उपसर्गादसमासेऽपि णोपदेशस्य (8.4.14) इति सूत्रेण धातोः नकारस्य णत्वम् सम्भवेत्, यत् एतेषु शब्देषु नैव कृतम् वर्तते । अतः एतेषु शब्देषु विद्यमानः <ex>दुर्</ex> इति उपसर्गप्रतिरूपकः अपि अनेन गणसूत्रेणैव निपातसंज्ञां प्राप्नोति । <li>2. <hlb>विभक्तिप्रतिरूपकाः निपाताः</hlb> — <ex>अहम्</ex>, <ex>अस्ति</ex> एतादृशाः केचन शब्दाः यद्यपि विभक्तिप्रत्ययान्तसदृशाः (सुबन्ताः तिङन्ताः वा) भासन्ते, तथापि तेषाम् कुत्रचित् निपातरूपेण प्रयोगः इष्यते । यथा, “अहंयुः” इत्यस्मिन् शब्दे <ex>अहम्</ex> इति विभक्तिप्रतिरूपकात् (निपातात्) अहंशुभमोर्युस् (5.2.140) इति सूत्रेण युस् इति तद्धितप्रत्ययः कृतः अस्ति । यदि अत्र <ex>अहम्</ex> इति अस्मद्-सर्वनाम्नः प्रथमैकवचनस्य रूपम् स्वीक्रियेत, तर्हि “अहंयु” इति तद्धितान्तस्य प्रातिपदिकत्वात् सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन अहम्-शब्दे विद्यमानस्य सुँ-प्रत्ययस्य लोपः भूत्वा “अस्मद् + युस्” इति असाधु रूपं सिद्ध्येत् । एवमेव, “अस्तिक्षीरा” इत्ययम् शब्दः “अस्ति क्षीरं यस्यां सा” इति वृत्तौ “अस्ति + क्षीर” इति बहुव्रीहिसमासेन सिद्ध्यति । अत्रापि समासविधानार्थम् <ex>अस्ति</ex> इति शब्दः तिङन्तप्रतिरूपकः निपातः एव स्वीक्रियते । <li>3. <hlb>स्वरप्रतिरूपकाः निपाताः</hlb> — अकः सवर्णे दीर्घः (6.1.101) इत्यत्र पाठितयोः “ऋति ऋ वा” तथा च “ऌति ऌ वा” एतयोः वार्त्तिकयोः आदेशरूपेण विधीयमानौ <ex>ऋ</ex> तथा <ex>ऌ</ex> एतौ वर्णौ एकमात्रिकौ ह्रस्वस्वरौ न स्तः, अपितु स्वरप्रतिरूपकौ स्तः, ययोः अनेन गणसूत्रेण निपातसंज्ञा क्रियते । एतादृश्यां निपातसंज्ञायां लब्धायाम् निपात एकाजनाङ् (1.1.14) इति सूत्रेण एतेषाम् प्रगृह्यसंज्ञां कृत्वा अग्रे प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावः अपि विधीयते । एतयोर्विषये अकः सवर्णे दीर्घः (6.1.101) इत्यत्र सिद्धान्तकौमुदीकारः ब्रूते - <inline> ऋति ऋ वा ऌति ऌ वा इति उभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितः अज्भक्तेः अपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् </inline> । अत्र विधीयमानः निपातसंज्ञकः “ऋ” इति वस्तुतः द्विमात्रिकः वर्णः अस्ति, यस्य वर्णनम् “अन्तः रेफद्वयम्, बहिः ऋकारः” इति दीयते । एवमेव, “ऌ” इत्यस्य वर्णनम् अपि “अन्तः लकारद्वयम्, बहिः ऌकारः” इति क्रियते - इति कौमुदीकारस्य अत्र आशयः वर्तते । </listsp> <note>केचन उपसर्गप्रतिरूपकाः (यथा <ex>अनु</ex>, <ex>सु</ex> इत्यादयः), केचन विभक्तिप्रतिरूपकाः (यथा <ex>अस्मि</ex>, <ex>वेलायाम्</ex> इत्यादयः), तथा च केचन स्वरप्रतिरूपकाः (यथा <ex>अ</ex>, <ex>ई</ex> इत्यादयः) चादिगणे साक्षात् (directly) एव पाठिताः सन्ति । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः इति गणसूत्रेण एतेषां चादिगणे तादृशे अपि समावेशे जाते, तेषाम् पुनः चादिगणे पाठः अनावश्यकः, अतश्च अयं पाठः प्रपञ्चार्थः (स्पष्टताप्रतिपत्यर्थः) अस्ति इति ज्ञेयम् ।</note>
<hlb>असत्त्वे</hlb> इति प्रसज्यप्रतिषेधः
प्रकृतसूत्रे प्रयुक्तः असत्त्वे इति शब्दः “न सत्त्वम् = असत्त्वम् । तस्मिन् ।” इति नञ्-समासेन सिद्ध्यति । अत्र नञ्-पदार्थस्य अर्थः प्रसज्यप्रतिषेध: इति स्वीक्रियते । अनेन चादयः नित्यं निपातसंज्ञकाः भवन्ति, परन्तु द्रव्यवाचिनि अर्थे न भवन्ति इति साधु अर्थः सिद्ध्यति । यदि अत्र पर्युदासपक्षः आश्रयेत्, तर्हि “द्रव्यात् भिन्नस्य अर्थस्य निपातसंज्ञा भवति” इति सूत्रार्थः जायेत । अस्यां स्थितौ यदि कस्मिंश्चित् शब्दे द्रव्यार्थः तथा च तद्भिन्नार्थः युगपत् भवेताम्, तर्हि तस्य शब्दस्य अपि “द्रव्यात् भिन्नस्य अर्थस्य” सम्भवनात् प्रकृतसूत्रेण निपातसंज्ञा अभविष्यत् । यथा, “विशेषेण पाति सः = वि + प्रा (पूर्त्तौ) + क = वि + प्र = विप्र” इत्यत्र विद्यमाने “प्र” इति शब्दे कृदन्तत्वे लिङ्गवचनसम्भावात् द्रव्यत्वम् अपि अस्ति तथा च “प्रा”धातुसिद्धम् क्रियात्वम् (= अद्रव्यत्वम्) अपि अस्ति । अस्यां स्थितौ अत्र द्रव्यभिन्नार्थस्य उपस्थितेः कारणात् “प्र” इत्यस्य, तदनुषङ्गेन च तदन्तविधिना “विप्र” इत्यस्यापि प्रकृतसूत्रेण निपातसंज्ञा अभविष्यत्, येन अस्य अनिष्टा अव्ययसंज्ञा समभविष्यत् । एते दोषाः मा भूवन् इति हेतुना अत्र प्रसज्यप्रतिषेधः एव स्वीकृतः अस्ति ।
फिट्सूत्रम् - **चादयोऽनुदात्ताः**
शान्तनवाचार्येण प्रणीते फिट्सूत्रपाठे चादयोऽनुदात्ताः (<span class=”href” data-nav=”/fit?scroll=fit-84”>4.16</span>) इति सूत्रं वर्तते । सर्वेऽपि चादयः अनुदात्ताः सन्ति इति अस्य सूत्रस्य अर्थः ।
Sutrartha (English)¶
The words included in the चादिगण are called निपात when used in a sense that does not denote an object.
Vasu English Summary¶
The word च ‘and’ etc. are called निपात or Particles, when they do not signify substances.
Vasu English Translation¶
The word च ‘and’ etc. are called निपात or Particles, when they do not signify substances. The following are particles (nipata) च ‘and’ वा ‘or’ ह ‘an expletive’ अह ‘vocative particle’ एव ‘only’ ‘exactly.’ एवम् ‘so thus,’ नूनम् ‘certainly,’ शश्वत् ‘continually,’ युगपत् ‘at once,’ भूयस् ‘repeatedly,’ सूपत् कूपत् ‘excellently,’ कुवित् ‘abundantly,’ नेत् चेत् ‘if’ चण ‘if,’ [the n is indicatory], यत्र ‘where,’ तत्र ‘there,’ कच्चित् ‘what if ?,’ नह ‘no,’ हन्त ‘ah,’! माकिम् [माकीम्] मकिम् ‘do not,’ आकीम् ‘indeed !’ माङ् ‘do not,’ नञ् ‘not,’ यावत् ‘as much as,’ तावत् ‘so much,’ त्वै न्वै द्वै ‘perhaps,’ रै (disrespectful interjection) श्रौषट् औवट् स्वाहा (interj.) ‘oblation to the gods,’ स्वधा ‘oblation to the manes,’ forefathers वषट् ‘oblation to the gods,’ ओस् (mystical ejaculation typical of the three great deities of the Hindu mythology), तुस् ‘thouing,’ तथाहि ‘thus,’ introducing an exposition, (खलु ‘certainly,’ किल ‘indeed,’ अथ ‘now’ auspicious inceptive), सुष्ठु ‘excellent,’ स्म (attached to the present tense gives it a past signification), अदह ‘fie’ अ इ उ ऋ लृ ए ऐ ओ औ. The vowels a, a, i, i, u, e, ai, o, au, when, as interjections, they indicate various emotions, differ from the ordinary vowels.
उञ्, उकञ्, वेलायाम्, मात्रायाम्, यथा, यत्, तत्, किम्, पुरा, वधा, (वध्वा), धिक्, हाहा, हेहै, (हहे), पाट्, प्याट्, आहो, उताहो, हो, अहो, नो, (नौ), अथो, मनु, मन्ये, मिथ्या, असि, ब्रूहि, तु, नु, इति, इव, वत्, वात्, चन, यत, [सम्, वश्म्, शिकम्, दिकम्,] समुकम्, छन्वट्, (छंवठ), शंके, शुकम्, खम्, सनात्, सनुतर्, नहिकम्, सत्यम्, ऋतम्, अद्धा, इद्धा, नोचेत्, नचेत्, नहि, जातु, कथम्, कुतः, कुत्र, अव, अनु, हा, हे, (है), आहोस्वित्, शम्, कम्, खम्, दिष्ट्या, पशु, वट्, सह, अम्, ईम्, सीम्, सिम्, सिः, वै.
To the list of indeclinables belong also what have, without the reality, the appearance of an upasarga (No.59), of a word with one of the terminations of case or persons and of the vowels. In the example अवदत्तम् avadattam ‘given away,’ the अव is not really an upasarga, for if it were, the word (by VII.4.47) would be अवत्तम् avattam. In the example ahanyuh अहंयुः ‘egotistic,’ the ahan is not identical the aham ‘I,’ terminating in a case affix–because a pronoun, really regarded as being in the nominative case, could not be the first member, in such a compound. In the example अस्तिक्षीरा astikshira, a cow or the like ‘in which there is milk,’ the asti अस्ति must be regarded as differing from the word asti, ‘is,’ which ends with the affix of the third person singular, otherwise it could not have appeared as the first member in a compound.
Bhashya¶
चादयोऽसत्त्वे अयं सत्त्वशब्दोऽस्त्येव द्रव्यपदार्थकः - तद्यथा, - सत्त्वमयं ब्राह्मणः, सत्त्वमियं ब्राह्मणीति । अस्ति क्रियापदार्थकः - सद्भावः सत्त्वमिति । कस्येदं ग्रहणम् ? द्रव्यपदार्थकस्य । कुत एतत् ? एवं च कृत्वा विधिश्च सिद्धो भवति, प्रतिषेधश्च । किं पुनरयं पर्युदासो - यदन्यत्सत्त्ववचनादिति, आहोस्वित्प्रसज्याऽयं प्रतिषेधः - सत्त्ववचने नेति ? किं चातः ? यदि पर्युदासो विप्र इत्यत्रापि प्राप्नोति । क्रियाद्रव्यवचनोऽयं संघातः, द्रव्यादन्यश्च विधिनाऽऽश्रीयते । अस्ति च प्रादिभिः सामान्यमिति कृत्वा तदन्तविधिना निपातसंज्ञा प्राप्नोति । अथ प्रसज्यप्रतिषेधो न दोषो भवति ॥ यथा न दोषस्तस्थास्तु ॥ 57 ॥
Kashika¶
चादयो निपातसंज्ञा भवन्ति न चेत् सत्त्वे वर्तन्ते। प्रसज्यप्रतिषेधोऽयम्, सत्त्वमिति च द्रव्यमुच्यते। च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। सूपत्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिम्। नकिम्। माङ्। माङो ङकारो विशेषणार्थो माङि लुङ् (३.३.१७५) इति। इह न भवति — मा भवतु, मा भविष्यति। नञ्। यावत्। तावत्। त्वा। त्वै। द्वै। रै। श्रौषट्। वौषट्। स्वाहा। वषट्। स्वधा। ओम्। किल। तथा। अथ। सु। स्म। अस्मि। अ। इ। उ। ऋ। ऌ। ए। ऐ। ओ। औ। अम्। तक्। उञ्। उकञ्। वेलायाम्। मात्रायाम्। यथा। यत्। यम्। तत्। किम्। पुरा। अद्धा। धिक्। हाहा। हे। है। प्याट्। पाट्। थाट्। अहो। उताहो। हो। तुम्। तथाहि। खलु। आम्। आहो। अथो। ननु। मन्ये। मिथ्या। असि। ब्रूहि। तु। नु। इति। इव। वत्। चन। बत। इह। शम्। कम्। अनुकम्। नहिकम्। हिकम्। सुकम्। सत्यम्। ऋतम्। श्रद्धा। इद्धा। मुधा। नोचेत्। नचेत्। नहि। जातु। कथम्। कुतः। कुत्र। अव। अनु। हाहौ। हैहा। ईहा। आहोस्वित्। छम्बट्। खम्। दिष्ट्या। पशु। वट्। सह। आनुषक्। अङ्ग। फट्। ताजक्। अये। अरे। चटु। बाट्। कुम्। खुम्। घुम्। हुम्। आईम्। शीम्। सीम्। वै। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः (ग०सू० १६)। उपसग᐀्प्रतिरूपकाः —
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते॥
अच उपसर्गात् तः (७.४.४७) इति तत्वं न भवति। दुर्नीतम्। दुर्नयः। दुर्निर्णयः। उपसर्गाद० (८.४.१४) इति णत्वं न भवति। असत्त्व इति किम्? पशुर्वै पुरुषः। पशुः पुरोडाशः। निपातप्रदेशाः — स्वरादिनिपातमव्ययम् (१.३.३७) इत्येवमादयः॥
Siddhanta Kaumudi¶
अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi¶
अद्रव्यार्थाश्चादयो निपाताः स्युः॥
Laghu Shabdendushekhar¶
असत्त्वे इति पर्युदासो लाघवादित्याह अद्रव्य इति । विशेष्यतया द्रव्यभिन्नार्था इत्यर्थः । तेन क्रियाविशिष्टद्रव्यवाचिनां विप्रादिघटकप्रादीनां न । चादयः किम् ? स्वरादिपठितानामसत्त्ववृत्तित्वे आद्युदात्तत्वं मा भूदिति ।
Balamanorama¶
चादयोऽसत्त्वे - चादयोऽसत्त्वे । च आदिर्येषां ते चादयो गणपाठसिद्धाः । निपाता इत्यधिकृतम् ।सत्त्व॑शब्देन द्रव्यमुच्यते ।द्रव्यासुव्यवसायेषु सत्त्वम् इत्यमरः । लिङ्गसङ्ख्याकारकान्वितं द्रव्यम् । चाद्यर्थाः समुच्चयादयो यदा चादिभिर्गम्यन्ते, तदा लिङ्गद्यन्विता न भवन्ति, यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गद्यन्विताः, शब्दस्वाभाव्यात् । न सत्त्वमसत्त्वम् = अद्रव्यं । तत्र वाचकतया विद्यमानाश्चादयो निपातसंज्ञकाः स्युरित्यर्थः । तदाह — अद्रव्यार्था इति । असत्त्वे किम् छागः पशुः । चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव-पुष्टं पशु मन्यते । इह पशु इति सम्यगर्थे ।
Tattvabodhini¶
चादयोऽसत्त्वे - चादयः । अद्रव्यार्थाः किम् , पशुः । लिङ्गसङ्ख्यान्वितं द्रव्यम् । इह तु स्यादेव-॒लोधं नयन्ति पशु मन्यमानाः॑ ।पशु॑ इति सम्यगर्थे ।
Padamanjari¶
न चेत्सत्वे वर्तते इति। सत्वे चेद् वर्तते तदा संज्ञा न भवतीत्यर्थस्तदाह - प्रसज्यप्रतिषेधोऽयमिति। अथ पर्युदासे को दोषः? पशुशब्देऽत्र पठ।ल्ते सा जातिविशिष्टे द्रव्ये वर्तते, तस्य निपातत्वं स्यात्, जातिद्रव्यसमुदायरूपो ह्यर्थः केवलादन्यो भवति; तथा प्रादय इत्यत्र विप्रातीति विप्रः, ठातश्चोपसर्गेऽ इति कः। अत्र प्रशब्दः क्रियाविशिष्टे द्रव्ये वर्तते। तत्र क्रियाद्रव्यसमुदायस्य द्रव्यादन्यत्वान्निपात्वान्निपातत्वे सत्यव्ययसंज्ञायां तदन्तविधेरभ्युपगमात् विप्रशब्दस्याव्ययसंज्ञा स्यात्, प्रसज्यप्रतिषेधे तु यत्र द्रव्यगन्धस्तत्र सर्वत्र प्रतिषेधो भवति। क्व तर्हि वर्तमानः पशुशब्देऽसत्ववचनो भवति? द्दश्यर्थे, लोधं नयन्ति पशु मन्यमाना इत्यत्र द्दश्यर्थेन मननं विशेष्यते - दर्शनमेतन्मननम्, सम्यक् मन्यमाना इत्यर्थः। सत्वशब्दोऽयं सतो भावः सत्वमिति सताजातिवचनो गृह्यत इति भ्रान्तिमपनयति - सत्वमिति च द्रव्यमुच्यते इति। इदं तदिति सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमुच्यते। उक्तञ्च - वस्तुपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति। स्वार्थेनेति शेषः। सिद्धरूपो योऽर्थः स्वार्थेन विशेष्यतया विवक्षितस्तद् द्रव्यमित्यर्थः। उक्तं च - स्वार्थस्त यत्र विश्रान्तिर्वाच्यं द्रव्यं तदुच्यते। इति। एवं च कृत्वा - सीदति, निविशते यत्र जात्यादिकं शब्दप्रवृत्तिनिमितं विशेषणभावेनेति सत्वं द्रव्यम्। सदेरौणादिकस्त्वप्रक्ययः’ताभ्यामान्यत्रोणादयः’ इत्यधिकरणसाधनः। चणिति पठ।ल्ते, स चेदर्थे वर्तते, णकारश्चण्कच्चिद्यत्रयुक्तमिति विशेषणार्थः। नञो ञकारः’नलोपो नञः’ इति विशेषणार्थः। नलोपो नस्येत्युच्यमाने वामनपुत्रः- अत्रापि प्राप्नोति? पाक्षिक एष दोषः; ठलुगुतरपदेऽ इति वर्तते, तत्र यदोतरपदेनाक्षिप्तं पूर्वपदं नस्य विशेषणम्, तदा पूर्वपदभूतस्य नस्य लोप इत्युच्यमाने नैवात्र प्राप्नोति, नशब्देन पूर्वपदे विशेष्यमाणे तदन्तविधिसद्भावादत्रापि स्यात्। अथास्मिन्पक्षे’नञः’ इत्युच्यमानेऽपि स्त्रैणपुत्र इत्यत्र नञः कस्मान्न भवति? अतुल्यत्वात्प्रत्ययस्य ञकारो वृद्धिस्वरयोश्चरितार्थः, निपातस्य त्वचरितार्थः। तथेति पठ।ल्ते, सोऽव्युत्पन्नः समुच्चये वर्तते, तस्य तु थालन्तस्य लित्स्वरेणाद्यौदातत्वं सिद्धम्। अव्ययत्वमपि’तद्धितश्चसर्वविभक्तिः’ इत्येव सिद्धम्। नन्वव्युत्पन्नस्यापि विभक्तप्रतिरूपका इत्येव सिद्धम्, सत्यम्; प्रपञ्चार्थः पाठः। एवं वेलायाम्, मात्रायामित्यादेरपि। स्वरप्रतिरूपका इति। ऋति ऋ वा वचनमित्यादयः, तेषां निपातसंज्ञाविधानद्वारेण सद्भाव एव प्रतिपाद्यते, न पुनरेषां निपातत्वे किञ्चित्प्रयोजनमस्तीति॥
Nyaas¶
असत्त्वे इति। पर्युदासोऽयं वा स्यात्, प्रसज्यप्रतिषेधो वा? तत्र यद्ययं पर्युदासः स्यात्, तदा सत्त्वादन्यत्र वर्तमानाश्चादयो निपातसंज्ञका भवन्तीत्ेयषः सूत्रार्थः स्यात्। ततश्च पशुशब्दस्य चादिपरिपठितस्य जातिव्यवच्छिन्ने द्रव्ये वर्तमानस्य निपातसंज्ञा स्यात्। यो हि जातिविशिष्टे द्रव्ये वर्तते, स जातिद्रव्यसमुदायात्मकमर्थमाह। यश्चैवंविधोऽर्थः स द्रव्यात् केवलादन्यो भवति। निपातसंज्ञायां सत्यां पशुरिति सविभक्तिकस्य श्रवणं न स्यात्। प्रसज्यप्रतिषेधे त्वेष दोषो न भवति। तत्र हि यत्र द्रव्यगन्धोऽप्यस्ति तत्र सर्वत्र प्रतिषेधेन भवितव्यम्। अस्ति चेह द्रव्यगन्धः। पशुत्वजात्याश्रितस्य द्रव्यस्यापि पशुशब्देनाभिधानात्। तस्मात् प्रसज्यप्रतिषेध एवायं युक्त इत्यालोच्याह - प्रसज्यप्रतिषेधोऽयम् इति। क्व तर्हि वर्तमानः पशुशब्दोऽसत्त्ववचनो भवति? यत्र वृत्तौ निपातसंज्ञां लभते दृश्यर्थे - यथा, लोधं नयन्ति पशु मन्यमाना इति। अत्र दृश्यर्थेन पशुशब्देन मननं विविष्यते। दर्शनमेतन्मननम्, सम्यग्ज्ञानमित्यर्थः। सत्त्वशब्दोऽयमिह सत्तायां वर्तत इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - सत्त्वमिति च द्रव्यमुच्यते इति। चशब्दोऽवधारणे। द्रव्यमेव न सत्तेत्यर्थः। यदि ह्यत्र सत्तवशब्देन सत्तोच्यते, प्रतिषेधोऽनर्थकः स्यात्? न हि चादिषु मध्ये शब्दः सत्तावाची कश्चिदस्ति। तस्मादद्रव्यमेवोच्यते। इदं तर्हि सर्वनामप्रत्यवमर्शयोग्यो योऽर्थस्तद्द्रव्यमिति। तथा चोक्तम् - वस्तूपलक्षमं यत्र सर्वनाम प्रयुज्यते।द्रव्यमित्यच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति।भेद्यत्वेन विशेष्यत्वेनेत्यर्थः। अत एवावसीदति यत्र गुणो विशेषणभावेनेति सत्त्त्वं तद्द्रव्यमुच्यते।चण् इति पठते। तस्य णकारो विशेषार्थः निपातैर्यद्यदिहन्तकुविन्नेकच्चेण्कच्चिद्यत्रयुक्तम् (8.1.30) इति, स तु चेच्छब्दस्यार्थे वर्तते।यत्र` इति पठते। तस्य तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यव्ययसंज्ञा सिद्धैव। निपातैर्यद्यदिहन्तः (8.1.30) इति विशेषणार्थ निपात संबोध्यते। असति निपातत्वे त्रैङ पालने (धातुपाठः-965) यं त्रायत इति यत्र इत्यस्य आतोऽनुपसर्गे कः (3.2.3) इति कप्रत्ययस्य ग्रहणं स्यात्। नञ् इति पठते; नञो ञकारः नलोपोः नञः (6.3.72) इति विशेषणार्थः। नलोपो नञ् इत्युच्यमाने पामनपुत्र इत्यत्रापि स्यात्, यदि तत्र अलुगुत्तरपदे (6.3.1) इत्युत्तरपदग्रहण पूर्पपदं नशब्देन विशेष्यते - नान्तस्य पूर्वपदस्येति। अथ तु पूर्वपदेन विशेष्यते - (सेए इन् ओथेर् तेक्ष्ट्)पगे नो।206)उत्तरसंज्ञीत्तरसूत्रे कृता संज्ञोपसर्गसंज्ञा। तस्या विशेषणं व्यवच्छेदः प्रादिभ्योऽन्यस्माद्वयावर्तनमुत्तरसंज्ञा मा भूत्` इति। एकयोगे हि सति यथा प्रादीनामुपसर्गसंज्ञा भवति तथा चादीनामपि स्यात्। अतः प्रादीनामेवोपसर्गसंज्ञा यथा स्याच्चादीनां मा भूदित्येवमर्थं पृथग्योगः क्रियते। पराः सेनाः इति। सेनायाः द्रव्यत्वात् तत्र वर्तमानस्य पराशब्दस्येह ग्रहणं न भवति। परा उत्कृष्टाः परदेशस्थिता वा। यत्र त्वेकवचनं पठते - परा सेनेति, तत्र रूपोदाहरणं वेदितव्यम्। द्विवचनबहुवचनयोस्तु निपातत्वादव्ययसंज्ञायां सत्यां विभक्तेर्लुक्स्यात्॥
Praudhamanorama¶
अद्रव्यार्थाः किम्? पशुः। लिङ्गसङ्ख्यान्वितं द्रव्यम्। इह तु स्यादेव—लोधं नश्यन्ति पशु मन्यमानाः। ‘पशु’ इति सम्यगर्थे।
Prakriyasarvasvam¶
अद्रव्यवाचिनश्चवैप्रमुखा निपाताख्याः ।
Sarala¶
प्राग्रीश्वरान्निपाताः (१.४.५६) इत्यतो “निपाताः” इत्यनुवर्तते इत्यभिप्रेत्याह - निपाता इति । “लिङ्गसंख्यानन्वयित्वमद्रव्यत्वम्” ॥
Sudha¶
**अद्रव्यार्थाश्चेति । ** लिङ्गसङ्ख्याकारकान्वितं द्रव्यम्, तद्भिन्नमद्रव्यमित्यर्थः ॥
Sutra Prayogas¶
च (रघुवंशम्): Implied by charthah