14056: प्राग्रीश्वरान्निपाताः¶
Padacheda: प्राक् | S | 0 | 0 |
रीश्वरात् | S | 5 | 1 |
निपाताः | S | 1 | 3 |
Sutrartha¶
अधिकारसूत्रम् इदम् । इतः परम् **अधिरीश्वरे (1.4.97) इति सूत्रपर्यन्तं निपातसंज्ञकाः पाठ्यन्ते ।**
इदम् अधिकारसूत्रम् अस्ति । अस्य सूत्रस्य अधिकारः अधिरीश्वरे (1.4.97) इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाण्यपि सूत्राणि संज्ञासूत्राणि सन्ति, यतः एतैः सूत्रैः <hlb>निपात:</hlb> इति संज्ञा दीयते । इत्युक्ते अस्मिन् अधिकारे विद्यमानैः सूत्रैः संज्ञिरूपेण दत्ताः शब्दाः निपातसंज्ञकाः भवन्ति । किञ्च तदेव न, अपितु एतेषाम् एव निपातानाम् अग्रे उपसर्गः, गतिः तथा च कर्मप्रवचनीयः एताः भिन्नाः संज्ञाः अपि अस्मिन् एव अधिकारे दत्ताः सन्ति । अस्मिन् अधिकारे विद्यमानानाम् सूत्राणाम् संक्षेपः एतादृशः -
<li>1. चादयोऽसत्त्वे (1.4.57) इत्यनेन चादिगणस्य शब्दाः निपातसंज्ञकाः भवन्ति । <li>2. प्रादयः (1.4.58) इत्यनेन प्रादिगणस्य शब्दाः निपातसंज्ञकाः भवन्ति । <li>3. उपसर्गाः क्रियायोगे (1.4.59) इत्यनेन प्रादिगणस्यैव शब्दानाम् उपसर्गाः इति संज्ञा अपि दीयते । <li>4. गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इत्येतैः सूत्रैः गतिसंज्ञकाः ** शब्दाः पाठ्यन्ते । एते शब्दाः निपातसंज्ञकाः अपि सन्ति । <li>5. **अनुर्लक्षणे (1.4.83) इत्यस्मात् विभाषा कृञि (1.4.98) इत्येतैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः शब्दाः पाठ्यन्ते । एते शब्दाः निपातसंज्ञकाः अपि सन्ति ।
निपातसंज्ञायाः प्रयोगः
अष्टाध्याय्याम् आहत्य षट्सु सूत्रेषु निपातसंज्ञायाः प्रयोगः कृतः अस्ति —
निपात एकाजनाङ् (1.1.14)
स्वरादिनिपातमव्ययम् (1.1.37)
प्राग्रीश्वरान्निपाताः (1.4.56)
यावत्पुरानिपातयोर्लट् (3.3.4)
निपातस्य च (6.3.136)
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्त (8.1.30)
सूत्रे विद्यमानस्य <hlb>रीश्वरात्</hlb> इति शब्दस्य विषये
प्रकृतसूत्रेण दत्तायाः निपातसंज्ञायाः अधिकारः अधिरीश्वरे (1.4.98) इति सूत्रं यावत् प्रचलति । अमुम् एव विषयम् स्पष्टीकर्तुम् पाणिनिः प्रकृतसूत्रे “रीश्वर” इति शब्दं प्रयुङ्क्ते । अयं शब्दः अधिरीश्वरे (1.4.98) इत्यस्मिन् सूत्रे विद्यमानस्य “रीश्वर” इत्यस्य निर्देशं करोति । तत्र वस्तुतः अधिरीश्वरे (1.4.98) इत्यत्र अधिः तथा च ईश्वरे इति द्वौ पृथक् शब्दौ स्तः, अतः “रीश्वर” इति अनर्थक-शब्दस्य स्थाने प्रकृतसूत्रे “ईश्वर” इत्यस्य सार्थकशब्दस्य ग्रहणम् एव उचिततरं भाति । परन्तु “ईश्वर” इति शब्दः अग्रे ईश्वरे तोसुन्कसुनौ (3.4.13) इति अन्यस्मिन् सूत्रे अपि वर्तते, अतः “ईश्वर” शब्दस्य ग्रहणं कृत्वा “प्राग् ईश्वरात् निपाताः” इति सूत्रं क्रियते चेत् “अयं अधिकारः क्व समाप्यते” अस्मिन् विषये सन्देहः अजनिष्यत । तथा मा भूत् इति हेतुना प्रकृतसूत्रे “रीश्वर” इति अनर्थकशब्दः एव प्रयुक्तः अस्ति । <note>अस्मिन् सन्दर्भे काशिकायां भाष्ये च एकं श्लोकवार्त्तिकं दत्त्वा कश्चन शास्त्रविषयः अपि चर्चितः वर्तते । जिज्ञासुभिः सः अवश्यं द्रष्टव्यः ।</note>
सर्वेऽपि निपाताः <hlb>अव्ययसंज्ञकाः</hlb>, <hlb>प्रातिपदिकसंज्ञकाः</hlb> च
सर्वेषाम् अपि निपातानाम् स्वरादिनिपातमव्ययम् (1.1.37) इति सूत्रेण अव्ययसंज्ञा विधीयते । एवमेव, अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (1.2.45) इत्यनेन एते शब्दाः अर्थवत्त्वात् प्रातिपदिकसंज्ञकाः अपि भवन्ति । केचन निपाताः तु अनर्थकाः सन्ति, परन्तु तेषाम् अपि <!निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या!> इति वार्त्तिकेन प्रातिपदिकसंज्ञा अवश्यम् विधीयते। अतः एतेभ्यः शब्देभ्यः सुबुत्पत्तिः अपि सम्भवति । परन्तु अव्ययेभ्यः विहितानां सुप्-प्रत्ययानाम् प्रक्रियायाम् अव्ययादाप्सुपः (2.4.82) इत्यनेन लुक् भवति । अतः सर्वेषाम् अपि निपातानाम् सर्वासु विभक्तिषु, सर्वेषु वचनेषु, त्रिषु अपि लिङ्गेषु रूपाणि समानानि एव भवन्ति —
च [**चादयोऽसत्त्वे** (1.4.57) इति निपातसंज्ञा । **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45) इति प्रातिपदिकत्वम् ।]
→ च + सुँ [**स्वौजस्...** (4.1.2) इति सुँ-प्रत्ययः ।]
→ च + ० [**अव्ययादाप्सुपः** (2.4.82) इति सुँ-प्रत्ययस्य लोपः]
→ च [**सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ]
अनेन प्रकारेण, वाक्ये प्रयुक्ताः सर्वे अपि निपाताः पदसंज्ञकाः एव सन्ति ।
एकाच्काः निपाताः <hlb>प्रगृह्यसंज्ञका</hlb> अपि सन्ति
“आङ्” इति निपातं विहाय अन्ये ये निपाताः एकाच्काः सन्ति (इत्युक्ते, येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनम् नास्ति), तेषाम् निपात एकाजनाङ् ** (1.1.14) इति सूत्रेण **प्रगृह्यम् इति संज्ञा विधीयते । एतेषाम् आवली इयम् — <gana> अ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः । </gana>
फिट्सूत्रम् - **निपाताः आद्युदात्ताः**
शान्तनवाचार्येण प्रणीते फिट्सूत्रपाठे निपाताः आद्युदात्ताः (<span class=”href” data-nav=”/fit?scroll=fit-80”>4.12</span>) इति सूत्रं वर्तते । इदम् उत्सर्गसूत्रम् । सर्वेऽपि निपाताः औत्सर्गिकरूपेण आद्युदात्ताः सन्ति इति अस्य सूत्रस्य अर्थः । अस्य अपवादत्वेन <span class=”href” data-nav=”/fit?scroll=fit-81”>4.13</span> इत्यतः <span class=”href” data-nav=”/fit?scroll=fit-85”>4.17</span> एतेषु सूत्रेषु विशिष्टनिपातानां विषये विशिष्टाः स्वराः दत्ताः सन्ति ।
Sutrartha (English)¶
The words discussed till अधिरीश्वरे (1.4.97) are known as निपात.
Vasu English Summary¶
From this point forward up to the aphorism अधिरीश्वरे (1.4.97), all that we shall say is to be understood to have the name of निपात or Particles.
Vasu English Translation¶
From this point forward up to the aphorism अधिरीश्वरे (1.4.97), all that we shall say is to be understood to have the name of निपात or Particles. The word प्राक् of this sutra serves the same purpose as the word cha of the last; namely, it makes the words Gati, upasarga and karmapravachniya take two names, i.e., their one name as well as the name Nipata. The letter र in प्राग्रीश्वरात् is to remove doubt, i.e., aphorism (1.4.97) should be taken as limit and not sutra (3.4.13) which has the word iswari also.
Bhashya¶
प्राग्रीश्वरान्निपाताः किमर्थं रेफाधिक इर्श्वरशब्दो गृह्यते ? रीश्वराद्वीश्वरान्मा भूत् रीश्वरादित्युच्यते, वीश्वरान्मा भूदिति - शकिणमुल्कमुलावीश्वरेतोसुन्कसुनौ (3.4.12; 13) इति ॥ नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति - अनन्तरो य इर्श्वरशब्दस्य ग्रहणमिति। यदयं कृन्मेजन्तः (1.1.39) इति कृतो मान्तस्यैजन्तस्याऽव्ययसंज्ञां शास्ति । कृन्मेजन्तः परोऽपि सः । परोऽप्येतस्मात्कृन्मान्त एजन्तश्चास्ति । तदर्थमेतत्स्यात् ॥.यत्तर्ह्यव्ययीभावस्याव्ययसंज्ञां शास्ति तज्ज्ञापयत्याचार्योऽनन्तरो य इर्श्वरशब्दस्तस्य ग्रहणमिति । समासेष्वव्ययीभावः समासस्यैतज्ज्ञापकं स्यात् - अव्ययीभाव एव समासोऽव्ययसंज्ञो भवति नाऽन्य इति ॥ एवं तर्हि लोकत एतत्सिद्धम् । तद्यथा, - लोके आ वनान्तादोदकान्तात् प्रियं पान्थमनुव्रजेदिति । य एव प्रथमो वनान्त उदकान्तश्च ततोऽनुव्रजन्ति । लौकिकं चाऽतिवर्तते ॥ द्वितीयं तृतीयं च वनान्तमुदकान्तं चानुव्रजन्ति ॥ तस्माद्रेफाधिक इर्श्वरशब्दो ग्रहीतव्यः । अथ प्राग्वचनं किमर्थम् ? प्राग्वचनं संज्ञाऽनिवृत्त्यर्थम् ॥ 1 ॥ प्राग्वचनं क्रियते निपातसंज्ञाया अनिवृत्तिर्यथा स्यात् । अक्रियमाणे हि प्राग्वचनेऽनवकाशाः गत्युपसर्गकर्मप्रवचनीयसंज्ञाः निपातसंज्ञां बाधेरन् । ताः मा बाधिषतेति प्राग्वचनं क्रियते ॥ अथ क्रियमाणेऽपि प्राग्वचने यावताऽनवकाशा एताः संज्ञाः कस्मादेव न बाधन्ते ? क्रियमाणे हि प्राग्वचने सत्यां निपातसंज्ञायामेता अवयवसंज्ञा आरभ्यन्ते तत्र वचनात्समावेशो भवति ॥ 56 ॥
Kashika¶
अधिरीश्वरे (१.४.९७) इति वक्ष्यति। प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः निपातसंज्ञास्ते वेदितव्याः। वक्ष्यति चादयोऽसत्त्वे (१.४.५७) च वा ह अह। प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिस्सह निपातसंज्ञा समाविशति। रेफोच्चारणम् ईश्वरे तोसुन्कसुनौ (३.४.१३) इत्ययमवधिर्मा विज्ञायीति॥
रीश्वराद् वीश्वरान् मा भूत् कृन्मेजन्तः परोऽपि सः।
समासेष्वव्ययीभावो लौकिकं चातिवर्तते॥
Siddhanta Kaumudi¶
इत्यधिकृत्य ॥
Laghu Shabdendushekhar¶
प्राग्रीश्वरान्निपाताः । अधिरीश्वरे (1.4.97) इत्यभिव्याप्य प्राङ्निपाता इत्यधिकारः । प्राङ्निपाता: सन्तो गत्यादिसञ्ज्ञका इत्यर्थः । तेन ताभिः समावेशः, अधिरीश्वरे (1.4.97), विभाषा कृञि (1.4.98) इत्यत्र निपातपदसम्बन्धश्च सिद्धः । एषां द्योतकत्वं वाचकत्वञ्च यथाकार्यं, यथाप्रयोगं बोद्ध्यमित्यन्यत्र विस्तरः ।
Balamanorama¶
प्राग्रीश्वरान्निपाताः - प्रागीआरान्निपाताः । प्रथमस्य चतुर्थपादेतत्प्रयोजको हेतुश्चे॑त्यनन्तकमिदं सूत्रम् ।रीश्वर॑शब्दः ‘अधिरीश्वरे’ इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वान्नापशब्दः । अत एवप्रत्यक्षोपजीव्यत्वा॑दिति चिन्तामणिवाक्यस्यप्रत्यक्षविती॑ति प्रतीकग्रहणं तद्व्याख्याने दृश्यते ।इतः प्रभृति अधिरीश्वर इति एतत्पादीयोपरितनसूत्रे रीश्वरशब्दात् प्राक्निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः । निपातपदमनुवर्तत इति यावत् । रेफविशिष्टग्रहणं किम् । ‘ईआरे तोसुन्कसुनौ’ इति तृतीयाध्यायस्थस्यावधित्वं मा भूत् । यदि तु प्रथमातिक्रमणे कारणाभावादधिरीश्वर इत्यस्यैवावधित्वं तदा सरेफग्रहणं स्पष्टार्थम् ।
Tattvabodhini¶
प्राग्रीश्वरान्निपाताः - प्राग्रीश्वरात् । रेफविशिष्टग्रहणं किम् ? ईश्वरे तोसुन्कसुनौ॑ इत्यस्य व्याप्तिन्यायेनावधित्वं मा भूत् । यदि तु प्रत्यासत्त्यैवअधिरीश्वरे॑ इत्यस्यावधित्वसिद्धिरित्युच्यते तर्हि स्पष्टप्रतिपत्त्यर्थमेवास्तु ।
Padamanjari¶
प्राग्रीश्वरान्निपाताः॥ प्राचि काले देशे वा प्राक्। अधिरीश्वरे इति वक्ष्यतीति। ईश्वरप्रकृतिभागस्य पूर्वपदान्तेन रेफेण सहानुकरणं द्रष्टव्यम्। अनुकार्येणार्थेनार्थवत्वात् विभक्त्यत्पतिः, च वा इत्यत्र निपातत्वे सति’स्वरादिनिपातमव्यम्’ इत्यव्ययसंज्ञा भवति।’निपाता आद्यौदाताः’ इति तु स्वरो न भवति, उदाहृतानामनुदातानां गणे पाठात्। अन्येषां तु तदपि भवति। ननु यथा’प्रत्ययः’ इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते, तथायमपि प्रवर्तिष्यते, निपाताःऽ इत्येवास्तु, नार्थोऽवधिनिर्देशेनेत्यत आह - प्राग्वचनमिति। प्राग्वचनद्वारेणावघिनिर्देशस्य प्रयोजनमुक्तम्। अयमर्थः- असत्यवधिनिर्देशे’निपाताः’ इत्यस्य प्रतियोगमनुवृतौ सत्यामप्येकसंज्ञाधिकारात् पर्यायः स्यात्, न तु समावेशः; सति तु तस्मिन् ईश्वरात् प्राग्यावन्तः संज्ञिनः सर्वास्तान्नैकध्यमिहापेक्ष्य सकृत्संज्ञा विधीयते, प्रतिसूत्रमधिकारात्वपरावृत्तिः, तस्याश्च समावेशः प्रयोजनमिति। अथ वा प्राग्वचनं किमर्थम्, यावता पञ्चम्येव प्रागिति दिक्शब्देऽध्याहरिष्यते, परागित्यस्य त्वध्याहारो न भविष्यति,’चादयो’ सत्वेऽ ‘प्रादयः’ इत्यनयोर्विधेयासम्भवेनानर्थक्यप्रसङ्गात्? अत आह - प्राग्वचनमिति। अयं भावः- अध्याहारेण सिद्धे प्राग्ग्रहणसामर्थ्यातन्त्रेण द्वौ प्राक्च्छब्दावुच्चार्येते। तेनायमर्थो भवति - प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राक् निपातसंज्ञा भवन्ति, निपाताः सन्तो गत्यादिसंज्ञा इति। तेन निमितमेव निपातसंज्ञा गत्यादिसंज्ञानामिति समावेशसिद्धिरिति। रीश्वरादिति सह रेफेणानुकरणे प्रयोजनमाह - रीश्वराद्वीश्वरान्मा भूदिति। रीश्वरादित्युच्यते, ठधिरीश्वरेऽ इत्ययमीश्वरशब्दोऽवधिर्यथा स्यात्’शकिण्यमुल्कमुलौ’ ठीश्वरे तोमुन्कसुनौऽ इत्ययं मा भूद् इत्येवमर्थमित्यर्थः। यदा संहीतया सूत्राणि पठ।ल्न्ते, तदा शीश्वरशब्दोऽस्तीत्यभिप्रेत्य रीश्वरादित्युक्तम्। ज्ञापकात्, सिद्धम्, यदयं’कृन्मेजन्तः’ इति कृतो मान्तस्यैजन्तस्य वाऽव्ययसंज्ञां शास्ति, तज्ज्ञापयति - अनन्तर ईश्वरशब्दोऽवधिर्न व्यवहित इति, अन्यथा सेसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्? नैतदस्ति ज्ञापकम्, कृन्मेजन्तः परोऽपि सः, ठीश्वरे तोसुन्कसुनौऽ इत्यस्मात्परोऽपि कृन्मान्त एजन्तश्चस्ति कृत्यार्थे तवैकेनित्याद्येजन्तः, णमुलादिश्च मान्तः, तदर्थमेतत् स्यात्। यतर्ह्यव्ययीभावस्याव्ययत्वं शास्ति, तज्ज्ञापयति - अनन्तरस्य ग्रहणमिति; अन्यथा द्वितीये निपातसंज्ञाव्यापाराद् अव्ययीभावस्य निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्, नैतदस्ति;’समासेष्वव्ययीभावः’ तुल्यजातीयव्यावृतये नियमार्थमेतत्स्यात्, न त्वनन्तरस्य ग्रहणे ज्ञापकमित्यर्थः। एवं तर्हि लौकिकन्यायादेवानन्तरस्य ग्रहणं भविष्यति, लौकिके ह्यएदकान्तात्प्रियं प्राप्यमनुव्रजेदिति य एवानन्तर उदकान्त आ ततोऽनुव्रज्य बान्धवा निवर्तन्ते तद्वदत्रापि? तत्राह - लौकिकं चातिवर्तते इति। लौकिकं न्यायं लोक एवातिवर्तते; यतो द्वितीयमप्युदकान्तं स्नोहातिशयादनुव्रज्य निवर्तन्ते तस्माद्रीश्वरादित्युच्यते वीश्वरान्मा भूदिति स्थितम्। ननु च’न लोकाव्यय’ इत्यत्र लोकादीनामव्ययत्वादेव षष्ठीप्रतिषेधे सिद्धे पुनरुपादानं ज्ञापकं भविष्यती - अनन्तरस्य ग्रहणमिति, नैतदस्ति; अव्ययसंज्ञाया एवाभावं ज्ञापयेत्, निपातसंज्ञा तु स्यादेव; ततश्च चिकीर्ष्वर्थ इत्यादौठ्निपात एकाजनाङ्ऽ इति प्रगृह्यसंज्ञा स्यातु। प्रोथमिति। पर्याप्तमित्यर्थः।’प्रोथ यर्याप्तौ’ , पचाद्यचि क्रियाविशेषणत्वान्नपुंसकत्वम्॥
Nyaas¶
च,वा,ह, अह इत्यत्र निपातसंज्ञायां सत्याम् स्वरादिनिपातमव्ययम् (1.1.37) इत्यव्ययसंज्ञा भवति। निपाता आद्युदात्ता भवन्ति (फि।सू।4।80) इत्याद्युदात्तत्वञ्च। अथ किमर्थं प्राग्ग्रहणम्? यावता पञ्चम्युच्चारणसामर्थ्यादेव प्रागित्यस्य दिक्छब्दस्याध्याहारो भविष्यति। न च पराम् इत्ययमपि दिक्छब्दोऽस्ति। अतो नाध्याहार आशङ्कनीयः। तदध्याहारे हि चादयोऽसत्त्वे (1.4.57) इत्येवमादयो योगा निपातसंज्ञासम्बन्धाभावादसम्बद्धाः स्युः। तस्मात् प्रागित्येतदेवाध्याहरिष्यते। तत् किं प्रागवचनेन? इत्याह - प्राग्वचनम् इत्यादि। एका संज्ञेत्यनुवर्तते। निपातसंज्ञा चादिषु प्रादिषु वा क्रियायोगे चरितार्था। तत्रासति प्राग्वचने निपातसंज्ञाया उपसर्गादिसंज्ञाभिरनवकाशाभिर्बाध्यमानत्वात् ताभि) सह तस्याः समावेशो न स्यात्। इष्यते चात्र, तदर्थं प्राग्वचनम्, तस्मिन् सत्येवं सम्बन्धः क्रियते - रीश्वरात यावन्तः प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्ति, निपाताश्च सन्त उपसर्गादिसंज्ञका इति। तेन निमित्तमेव निपातसंज्ञोपसर्गसंज्ञानां भवति। न च निमित्तिना निमित्तं व्याहन्यते, अन्यथा हि तस्य निमितत्वमेव न स्यात्। अध्याह#ऋते तु प्राक्शब्दे रीश्वराद्ये प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्तीत्येषोऽर्थोऽभिमतः स्यात्, न तु निपाताः सन्त उपसर्गादिसंज्ञका इत्येषोऽप्यर्थो लभ्यते। सूत्रोपात्तो तु प्राक्शब्द एषोऽर्थो लभ्यत एव; अन्यथा तस्य वैयथ्र्यं स्यात्।अथ किमर्थं रेफादिक ईआरशब्दो गृह्रते - प्राग्रीश्वरादिति, न च प्राग्रीश्वरादित्येवोच्येत, प्रत्यासत्तेरनन्तर एव हीआरशब्दो ग्रहीष्यत इत्यत आह - रीश्वराद्वीआरात्मा भूत इति। रेफसहित ईआरो रीश्वरः। शाकपार्थिवादित्वान्मयूरव्यंसकादित्वाद्वा समासः। रीश्वरादित्युच्यमाने वीआरान्मा भूत्, अधिरीश्वरे (1.4.96) इत्यस्यैवेआरशब्दस्य ग्रहणं यथा स्यात्। ईआरे तोतुन्कसुनौ (3.4.13) इत्यत्र यो वीआरशब्दस्तस्य ग्रहणं मा भूत्। यस्य ग्रहणे बहूनां संज्ञा भवत्यतो व्याप्तेन्र्यायादस्यैव ग्रहणं स्यात। ननु च वकारस्तत्र नास्त्येव, तत् किमुच्यते वीआरान्मा भूदिति? एवं मन्यते - यदा सूत्राणि संहितया पठन्ते - शकि णमुल्कमुलावीआरेतोसुन्कसुनौ (3.4.12,13) इति तदा लौशब्दस्य ग्रहणे न प्रयोजकम्। यद्यपि परस्येआरशब्दस्य ग्रहणे तन्निबन्धना व्याप्तिरस्ति, तथाप्यनन्तरस्यैवेआरशब्दस्य ग्रहणं भविष्यति, न परस्य; कथम्? ज्ञापकात्; यदयं कृन्मेजन्तः (1.1.39) इति कृतो मान्तस्यैजन्तस्याव्ययसंज्ञा शास्ति तज्ज्ञापयति - अनन्तरस्येआरशब्दस्य ग्रहणं नेतरस्येति; अन्यथा हि णमुलादीनां निपातत्वादेवाव्यव्यसंज्ञा सिद्धेति कृन्मेजन्तः (1.1.39) इति वचनमर्थकं स्यात्, नैतदस्ति ज्ञापकम्; यस्मात् ईआरे तोसुन्कसुनौ (3.4.13) इत्यस्मात् परोऽपि कृदेजन्तो मान्तश्चास्ति। कृत्यार्थे तवैकेन्केन्यत्वनः (3.4.14) आभीक्ष्ण्ये णमुल च (3.4.22) इत्येवमादिः। तत्कथं कृन्मेजन्तः (1.1.39) इत्येत ज्ञापकं स्यात्? एवं तर्हि यदयमव्ययीभावस्य अव्ययीभावश्च (2.4.18) इत्यव्ययसंज्ञां शास्ति, तज्ज्ञापयति - अनन्तरो य ईआरशब्दस्तस्य ग्रहणमिति। अन्यथा हि अव्ययीभावश्च (2.4.18) इत्येदपार्थकं स्यात्; निपातत्वादेवाव्ययीभावस्याव्ययसंज्ञायाः सिद्धत्वात्।अस्यापि ज्ञापकतामपाकर्त्तुमहा - समासेष्वव्ययीभावः इति। सर्वेषां समासानां निपातत्वादव्ययसंज्ञायां प्राप्तायां अव्ययीभावश्च (2.4.18) इत्येतद्वचनं नियमार्थं स्यात् - समासेषु तत्पुरुषादिषु मध्येऽव्ययीभाव एवाव्ययसंज्ञो भवति, नान्य इति। एवं तर्हि लौकिकन्यायादनन्तरस्यैवेआरशब्दस्य ग्रहणं भविष्यति। लोके हि ओदकान्तं प्रियं प्रोथमनुव्रजेत् इति य एवानन्तर उदकान्तस्तमेव गत्वा तत एव बान्धवा निवर्तन्ते, न व्यवहितात्। तस्मादिहाप्यनेनैव न्यायेनानन्तरादेवआरशब्दान्निपातसंज्ञा निवर्तिष्यत इत्यत आह - लौकिकं चातिवर्ततते इति। लौकिकमपि न्यायं लोकोऽतिक्रम्य वर्तते, यस्मात् द्वितीयमप्यदकान्तं स्नेहात् कथाप्रसङ्गद्वा गत्वा निवर्तन्ते बान्धवाः। तदेवं रेफाधिक ईआरशब्द उच्चार्यते। तेन वीआरान्मा भूदिति स्थितमेतत्॥
Prakriyasarvasvam¶
‘अधिरीश्वरे’ (१-४-९७) इति रीश्वरशब्दात् प्राग्भवाः संज्ञान्तरयोगेऽपि निपाताख्याः ।