14018: यचि भम्

Padacheda: यचि | S | 7 | 1 |

भम् | S | 1 | 1 |

Sutrartha

असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति । यथा - शशिन् + शस् ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति इति संज्ञा । यचि भम् (1.4.18) तथा च तसौ मत्वर्थे (1.4.19) इत्येताभ्याम् द्वाभ्याम् सूत्राभ्याम् इयं संज्ञा विधीयते । एताभ्याम् इदं प्रथमं सूत्रम् । यः स्वादिप्रत्ययः अजादिः उत यकारादिः अस्ति तथा च सर्वनामसंज्ञकः नास्ति, तस्मिन् परे प्रातिपदिकस्य **भ इति संज्ञा भवति** - इति अस्य सूत्रस्य आशयः । <spacer> <hlb>स्वादिप्रत्ययाः</hlb> - अष्टाध्याय्यां चतुर्थे अध्याये, पञ्चमे अध्याये च प्रातिपदिकेभ्यः विहिताः प्रत्ययाः पाठिताः सन्ति । एतेषु प्रथमः प्रत्ययः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् (4.1.2) इत्यनेन विहितः “सुँ” इति अस्ति; तथा च अन्तिमः प्रत्ययः उरःप्रभृतिभ्यः कप् (5.4.151) इत्यनेन पाठितः “क्विप्”-प्रत्ययः अस्ति । एते सर्वेऽपि प्रत्ययाः स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते । <spacer> <hlb>सर्वनामस्थानसंज्ञकप्रत्ययाः</hlb>- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् (4.1.2) इत्यस्मिन् सूत्रे विद्यमानाः केचन प्रत्ययाः सर्वनामसंज्ञकप्रत्ययाः नाम्ना ज्ञायन्ते । तदित्थम् -

<li>1. पुंलिङ्गशब्दात्, स्त्रीलिङ्गशब्दात् विहिताः सुँ, , “जस्”, अम्, औट् - एते पञ्च प्रत्ययाः सुडनपुंसकस्य (1.1.43) इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः भवन्ति । <li>2. नपुंसकलिङ्गशब्दात् विहितौ जस् तथा शस् एतौ प्रत्ययौ शि सर्वनामस्थानम् (1.1.42) इत्यनेन सर्वनामस्थानसंज्ञकौ भवतः ।

एतान् सर्वनामसंज्ञकप्रत्ययान् विहाय अन्ये सर्वेऽपि स्वादिप्रत्ययाः असर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः सन्ति । एतेभ्यः ये प्रत्ययाः अजादयः सन्ति (यथा - “अण्”, “छ”, “च्फञ्” इत्यादयः), तथा च ये प्रत्ययाः यकारादयः सन्ति (यथा - “यञ्”, “ण्य”, “ञ्यङ्” इत्यादयः) - तेषु परेषु प्रातिपदिकस्य भ**संज्ञा भवति । <note>प्रत्ययस्य आदिवर्णस्य निर्णयात् पूर्वम् प्रत्यये विद्यमानानाम् इत्संज्ञकवर्णानां लोपं कृत्वा ततः प्रत्ययस्य यथायोग्यम् आदेशः करणीयः, तदनन्तरम् एव प्रथमवर्णः निर्णेतव्यः । यथा, “ट्यु” इति प्रत्ययस्य आदिवर्णः कः - इति प्रश्ने कृते, आदौ टकारस्य इत्संज्ञां लोपं कृत्वा, ततः “यु” इत्यस्य **युवोरनाकौ (7.1.1) इत्यनेन “अन” आदेशः करणीयः । अनेन प्रकारेण “ट्यु”-प्रत्ययस्य दृश्यरूपम् “अन” इति अस्ति । अस्य दृश्यरूपस्य आदिवर्णः अकारः अस्ति; अतः “ट्यु”-प्रत्ययः अपि अजादिः एव स्वीक्रियते ।</note>

भसंज्ञायाः प्रयोजनम् - **भस्य इति अधिकारः**

अष्टाध्याय्याम् भस्य (6.4.129) इति सूत्रेण भाधिकारः विधीयते । अस्य अधिकारस्य व्याप्तिः भस्य (6.4.129) इत्यतः षष्ठाध्यायस्य परिसमाप्तिं यावत् वर्तते । अस्मिन् अधिकारे पाठितानि कार्याणि केवलं भसंज्ञकस्य विषये एव भवन्ति । कानिचन उदाहरणानि एतानि - <listsp> <li>1. “राजन्” इति प्रातिपदिकात् द्वितीयाबहुवचनस्य “शस्” प्रत्यये कृते “राज्ञः” इति रूपं सिद्ध्यति । अत्र विहितः “शस्” (= अ) प्रत्ययः अजादिः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति, अतः अस्मिन् प्रत्यये परे “राजन्” शब्दस्य भसंज्ञा भवति । भसंज्ञायां सत्यां भाधिकारे पाठितेन अल्लोपोऽनः (6.4.134) इति सूत्रेण “राजन्” शब्दस्य उपधा-अकारस्य लोपं कृत्वा अन्तिमं रूपं सिद्ध्यति —

राजन् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ राजन् + अस् [इत्संज्ञालोपः । अत्र प्रत्ययस्य अजादित्वात् राजन्-शब्दस्य **यचि भम्** (1.4.18) इति भसंज्ञा भवति ।]
→ राज् न् + अस् [भसंज्ञायां सत्याम्, भाधिकारे पाठितेन **अल्लोपोऽनः** (6.4.134) इति सूत्रेण उपधा-अकारस्य लोपः । यदि अत्र पदसंज्ञा अभविष्यत्, तर्हि अत्र **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारलोपः अभविष्यत् ।]
→ राज्ञः [रुत्वविसर्गौ]

<li>2. “मधोः गोत्रापत्यम्” अस्मिन् अर्थे ब्राह्मणस्य निर्देशं कर्तुम् “मधु”शब्दात् मधुबभ्र्वोर्ब्राह्मणकौशिकयोः (4.1.106) इति सूत्रेण “यञ्” प्रत्ययः विधीयते । अयं प्रत्ययः यकारादिः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति, अतः अस्मिन् प्रत्यये परे यचि भम् (1.4.18) इत्यनेन “मधु”-शब्दस्य भसंज्ञा भवति । भसंज्ञायां सत्याम् भाधिकारे पाठितेन ओर्गुणः (6.4.146) इति सूत्रेण गुणं कृत्वा अन्तिमं रूपं सिद्ध्यति —

मधोः गोत्रापत्यम् (ब्राह्मणः)
→ मधु + यञ् [**मधुबभ्र्वोर्ब्राह्मणकौशिकयोः** (4.1.106) इति यञ् ।]
→ माधु + य [तद्धितसंज्ञके ञित्-प्रत्यये परे **तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः ।]
→ माधो + य [यकारादौ प्रत्यये परे प्रकृतेः भसंज्ञायां सत्याम् भाधिकारे पाठितेन **ओर्गुणः** (6.4.146) इति सूत्रेण भस्य अङ्गस्य गुणः भवति  ।]
→ माधव् + य [**वान्तो यि प्रत्यये** (6.1.79) इति यकारादौ प्रत्यये परे अवादेशः ।]
→ माधव्य

<li>3. “देव” इति शब्दात् स्त्रीत्वं द्योतयितुम् “ङीप्” इति प्रत्यये कृते, प्रत्ययस्य अजादित्वात्, असर्वनामस्थानत्वात् च प्रकृतेः भसंज्ञा भवति, अतएव यस्येति च (6.4.148) इत्यनेन अकारलोपं कृत्वा “देवी” इति अन्तिमं रूपं सिद्ध्यति —

देव + ङीप् [**नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इत्यत्र पचादिगणे "देवट्" इति निर्देशात् देवशब्दः टित् स्वीक्रियते, अतश्च स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति सूत्रेण "ङीप्"-प्रत्यय: विधीयते ।]
→ देव् + ई [अजादौ असर्वनामस्थानसंज्ञके प्रत्यये परे प्रकृतेः **यचि भम्** (1.4.18) इति भसंज्ञा भवति, अतएव भाधिकारे पाठितेन **यस्येति च** (6.4.148) इति सूत्रेण अत्र "देव"शब्दस्य अन्तिम-अकारस्य लोपः विधीयते ।]
→ देवी

<li> 4. “सुपाद्” इति शब्दात् तृतीयैकवचनस्य “टा” इति प्रत्यये कृते, प्रत्ययस्य अजादित्वात् प्रकृतेः भसंज्ञायां लब्धायाम्, भाधिकारे विद्यमानेन पादः पत् (6.4.130) इति सूत्रेण (तथा च **पदाङ्गाधिकारे तस्य च तदन्तस्य च ** इति परिभाषया) “सुपाद्” इति भसंज्ञके विद्यमानस्य “पाद्” इति अंशस्य “पद्” इति आदेशः भवति -

सुपाद् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ सुपद् + टा [**पादः पत्** (6.4.130) इति सूत्रेण भसंज्ञकस्य "पाद्" शब्दस्य  "पद्" इति आदेशः । **निर्दिश्यमानस्य आदेशाः भवन्ति** इति परिभाषया अयम् आदेशः केवलम् "पाद्" इत्यस्य अंशस्य स्थाने एव विधीयते ।]
→ सुपदा

</listsp>

बाध्यबाधकभावः - भसंज्ञया पदसंज्ञायाः बाधः

असर्वनामस्थानसंज्ञकेषु स्वादिप्रत्ययेषु परतः प्रकृतेः स्वादिष्वसर्वनामस्थाने (1.4.17) इति सूत्रेण प्रातिपदिकस्य पदसंज्ञायां प्राप्तायाम्, यदि सः प्रत्ययः अजादिः उत यकारादिः अस्ति तर्हि प्रकृतसूत्रेण प्रातिपदिकस्य भसंज्ञा विधीयते । इयं भसंज्ञा एकसंज्ञाधिकारात् पदसंज्ञायाः बाधं करोति । यदि भसंज्ञया पदसंज्ञायाः बाधः नैव अभविष्यत्, तर्हि “राजन् + शस्” इत्यवस्थायाम् “राजन्”-शब्दस्य पदत्वात् नलोपः प्रातिपदिकान्तस्य (8.2.7) इति अनिष्टः नकारलोपः अभविष्यत् । एतादृशी अनिष्टा प्रक्रिया मा भूत्, अतः भसंज्ञया पदसंज्ञायाः बाधः आवश्यकः वर्तते ।

बाध्यबाधकभावः - पदसंज्ञया भसंज्ञायाः बाधः

यस्मिन् असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये सकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे प्रातिपदिकस्य प्रकृतसूत्रेण प्राप्तां भसंज्ञां बाधित्वा **सिति च (1.4.16) इति पूर्वसूत्रेण पदसंज्ञा एव विधीयते** । यथा, “ऊर्णा + युस्” इत्यत्र यकारादौ सित्-प्रत्यये परे “ऊर्णा”-शब्दस्य सिति च (1.4.16) इत्यनेन पदसंज्ञा भवति । इयं पदसंज्ञा प्रकृतसूत्रदत्तां भसंज्ञां बाधते । यदि अत्र “ऊर्णा”-शब्दस्य भसंज्ञा अभविष्यत्, तर्हि यस्येति च (6.4.148) इत्यनेन “ऊर्णा”-शब्दस्य अन्तिम-आकारस्य अनिष्टः लोपः अपि अभविष्यत् ।

Sutrartha (English)

If a यकारादि or an अजादि प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to a प्रकृति , the प्रकृति gets the term भ.

Vasu English Summary

And when an affix with an initial य् or an initial vowel, being one of the affixes, beginning with सु and ending in क् , follows, not being सर्वनामस्थान , then what precedes, is called भ।

Vasu English Translation

And when an affix with an initial य् or an initial vowel, being one of the affixes, beginning with सु and ending in क् , follows, not being सर्वनामस्थान , then what precedes, is called भ। This debars the application of pada. Thus गर्ग + यञ् (4.1.105) = गार्ग्यः a grandson of Garga. So also वात्स्यः. The affix yan begins with a ya and the word garga being treated as Bha its final अ is elided before the affix by (6.4.148).

So also दक्ष + इञ् = दाक्षिः (4.1.95) grandson of Daksha प्लाक्षिः. Here the affix इञ् begins with a vowel the word standing before it being Bha, it causes elision of the final अ of daksha.

The word यचि is in the 7th case meaning when य् or अच् follow; and by the last Vart of Sutra (1.1.72), it means ‘when an affix beginning with ya or ach follow.’

Vart:- The words नभस्, अङ्गिरस् and मनुष् should be treated as Bha when the affix वत् follows. Thus नभस्वत् like the sky. अङ्गिरस् like the Angiras. मनुष्वत् like the man. By being Bha, the स् is not changed into र्, which it would have been, had it been a pada (8.2.66).

Vart:- The words वृषन् is treated as Bha in the vedas when the words वसु and अश्व follow. Thus वृषण्वसुः; वृषणश्वस्य मेने Here had the word vrishan been treated as pada, the न would not have been changed into ण (See Rule (8.4.37)); and this न would have been dropped before the affix vasu by (8.2.7).

Bhashya

यचि भम् (258) भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः ॥ 1 ॥ भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधो वक्तव्यः । अनुकम्पितः षडङ्गुलिः षडिकः। सिद्धमचः स्थानिवत्त्वात् ॥ 2 ॥ सिद्धमेतत् । कथम् ? अचः स्थानिवद्भावाद्भसंज्ञा न भविष्यति। इहापि तर्हि प्राप्नोति - वागाशीर्दत्तः वाचिक इति । वक्ष्यत्येतत् - सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनादिति। । इहापि तर्हि प्राप्नोति - षडङ्गुलिः षडिक इति । वक्ष्यत्येतत् - षषष्ठाजादिवचनात्सिद्धमिति। नभोङि्गरोमनुषां वत्युपसंख्यानम् ॥ 3 ॥ नभोङि्गरोमनुषां वत्युपसंख्यानं कर्तव्यम् । नभस्वत्। अङि्गरस्वत्। मनुष्वत्। वृषण्वस्वश्वयोश्च ॥ 4 ॥ वृषणित्येतस्य वस्वश्वयोर्भसंज्ञा वक्तव्या। वृषण्वसुः । वृषणश्वस्य .यच्छिरः, वृषणश्वस्य मेने ॥ 18 ॥

Kashika

स्वादिष्वसर्वनामस्थान इति वर्तते। पूर्वेण पदसंज्ञायां प्राप्तायां तदपवादो भसंज्ञा विधीयते। यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भसंज्ञं भवति। यकारादौ — गार्ग्यः। वात्स्यः। अजादौ — दाक्षिः। प्लाक्षिः॥ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्॥ नभ इव नभस्वत्। अङ्गिरा इव अङ्गिरस्वत्। मनुरिव मनुष्वत्॥ वृषण्वस्वश्वयोः॥ वृषन्नित्येतत् वस्वश्वयोः परतो भसंज्ञं भवति छन्दसि विषये। वृष॑ण्वसुः (ऋ०१.१११.१)। वृ॒षणश्वस्य मेने (श०ब्रा० ३.३.४.१८)। भप्रदेशाः — भस्य (६.४.१२९) इत्येवमादयः॥

Siddhanta Kaumudi

यकारादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥

Balamanorama

यचि भम् - भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह — यचि भं । य्च अश्चेति समाहाद्वन्द्वः ।स्वादिष्वसर्वनामस्थाने॑ इत्यनुवृत्तंयची॑त्यनेन विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — यकारादिष्वित्यादिना । एवंच दत्-असित्यत्र ‘दत्’ इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच॒विप्रतिषेधे परं कार्य॑मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः ।

Tattvabodhini

यचि भम् - यचि भम् ।यची॑त्यल्ग्रहणेन सप्तमीनिर्देशात्तदादिविधिरित्याह-यकारादिष्वित्यादि । यकारादिषु किम् ।गार्ग्यः । वात्स्यः । गर्गादिभ्यो यञियस्येति चेत्यकारलोपो यथा स्यात् । असर्वनामस्थानेषु किम् । सुपादौ, सुपादः । विद्वांसौ, विद्वांसः । दित्यवाहौ , दित्यवाह इत्यादौपादः पत्वसोः संप्रसारणम्वाह ऊ॑डित्यादयो मा भूवन्निति ।

Padamanjari

यकारादावित्यादि।’यस्मिन्विधिस्तदादावल्प्रहणे’ इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्तत इति विग्रहः। पदनिबन्धनकार्यनिवॄत्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमितं कार्यं यथा स्यादिति; असम्भवात्। नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः वृषणाश्व इति। पदत्वे सति’पदान्तस्य’ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥

Nyaas

यचि इति वर्णग्रहणं सप्तमीनिर्दिष्टम्। अतः यस्मिन् विधिस्तद्दावल्ग्रहणे (वा।14) इति तदादिविधिनात्र भवितव्यमित्यत आह - यकारादौ इत्यादि। गाग्र्य इत्यादौ भसंज्ञायां सत्यां यस्येति च (6.4.148) इत्यकारलोपः।नभोऽङिरोमनुषां वत्युपसंख्यानं कर्तव्यम् इति। भसंज्ञायास्त्वत्र पदसंज्ञाबाधः फलम्। नभ इव इति तुल्यार्थतोपदर्शनमेतत्; न तु प्रथमासमर्थाद्वतिः। स तु नभसा तुल्यं वर्तत इति तेन तुल्यम् (5.1.114) आङ्गिरस्वत् इति। पूर्वेण तुल्यम्। मनुष्वत इति। जनेरुसिः`(द।उ।9।37) इत्यत्र बहुलग्रहणानुवृत्तेः `मन ज्ञाने (धातुपाठः-1176) इत्येतस्मादुसिप्रत्ययः। आदेशप्रत्यययोः (8.3.59) इति षत्वम्। मनुष् इति स्थिते पूर्ववद्वतिः - मनुष्वदिति। यद्यत्र पदसंज्ञा स्यात् तदा षत्वस्यासिद्धत्वादिह रुत्वं स्यात्, ततश्च मनुर्वदित्यनिष्टं रूपं स्यात्। उपसंख्यानशब्दस्य चेह प्रतिपादनम् - सिति च (1.4.16) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेन नभोऽङ्गिरोमनुषां वतौ भसंज्ञा भविष्यति।वृषण्वस्वआयोः इति। अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां प्राप्तायां भसंज्ञा विधीयते,तस्याश्च विधिश्चकारानुवृत्तेरेव लभ्यते। वृष्णोऽआः, अत्र भत्वे सति यद्यपि णत्वस्यासिद्धत्वम्, तथापि नलोपः पदनिबन्धनो न भवति, पदान्तस्य (8.4.37) इति णत्वप्रतिषेधश्च॥

Prakriyasarvasvam

यादावजादौ च सर्वनामस्थानवर्जिते स्वादिप्रत्यये परे पूर्वं भसंज्ञम् । भस्येत्यधिकारे ।

Sudha

यचि भमिति । य् च अच्चेति समाहारद्वन्द्वः। स्वादिष्वसर्वनामस्थाने इत्यनुवृत्तं यचीत्यनेन विशेष्यते । <!यस्मिन् विधिस्तदादावल्ग्रहणे!> इति तदादिविधिस्तदाह - यादिष्वित्यादिना । ननु भपदसंज्ञयोरिह समावेशः कुतो न स्यात् । न च विप्रतिषेधे परं कार्यम्**(1.4.2) इति परैव भसंज्ञा भवतीति वाच्यम् । विरोधो हि विप्रतिषेधः । नह्यत्र द्वयोरपि संज्ञयोः समावेशे विरोधोऽस्ति तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञासमावेशदर्शनादित्यत आह - **आकडारादिति ।

Vartika

नभोऽङिरोमनुषां वत्युपसंख्यानम् ।